श्रीशुक उवाच
इत्थं विरित्र्चस्तुतकर्मवीर्यः प्रादुर्बभुवामृतभुरदित्याम ।
चतुर्भुजः शंखगदब्जचक्रः पिंशंगवास नलिनायतेक्षणः ॥१॥
श्यामवदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान ।
श्रीवत्सवक्षा वलयागंदोल्लस त्किरीटकत्र्चीगुणचारुनुपुरः ॥२॥
मधुव्रतव्राताविघुष्टया स्वय विराजितः श्रीवनमालय हरिः ।
प्रजापतेर्वेश्मतमः स्वरोचिषा विनशयन कण्ठनिविष्टकौस्तुभः ॥३॥
दिशः प्रसेदुः सलिलशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्वितः ।
द्योरन्तरिक्षं क्षितिरग्निजिह्वा गावो द्विजाः संजहृषुर्नगाश्च ॥४॥
श्रोणायं श्रवणद्वादश्यां मुहुर्तेऽभिजित प्रभुः ।
सर्वे नक्शत्रताराद्याश्चक्रुस्तज्जम्न दक्षिणम ॥५॥
द्वादश्यां सवितातिष्ठन्मध्यंदिनगतो नृप ।
विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥६॥
शंखदुन्दुभयो नेदुर्मृदंगपणवानकाः ।
चित्रवादित्रतुर्याणां निर्घोषस्तुमुलोऽभवत ॥७॥
प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगुः ।
तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥८॥
सिद्धविद्याधरगणाः सकिंपुरुषकिन्नराः ।
चारणा यक्षरक्षांसि सुपर्या भुजगोत्तमाः ॥९॥
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।
अदित्या आश्रमपदं कुसुमै समवाकिरन ॥१०॥
दृष्टादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता ।
गृहीतदेहंन निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ॥११॥
यत तद्स वपुर्भाति विभुषणायुधै रव्यक्तचिद व्यक्तमधारयद्धरिः ।
बभुव तेनैव स वामनो बटुः संपश्यतोर्दिव्यगतिर्यथा नटः ॥१२॥
तं बटुं वामनं दृष्ट्व्स मोदमाना महर्षयः ।
कर्माणि कारयामासुः पुरस्कृत्यः प्रजापतिम ॥१३॥
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत ।
बृहस्पतिर्ब्रह्मासुत्रं मेखलां कश्यपोऽददात ॥१४॥
ददौ कृष्णजिनं भुमिर्दण्डं सोमो वनस्पतिः ।
कौपीनाच्छादनं मातां द्यौश्लत्रं जगतः पतेः ॥१५॥
कनण्डलुं वेदगर्भः कुशान्सप्तर्षयो ददुः ।
अक्षमालां महाराज सरस्वत्यव्ययात्मनः ॥१६॥
तस्मा इत्युपत्नीताय यक्षराट पात्रिकामदात ।
भिक्षां भगवती साक्षादुमाददम्बिका सती ॥१७॥
स ब्रह्मावर्चसेनैवं सभां संभावितो बटुः ।
ब्रह्मर्षिगणासत्र्जुष्टामत्यरोचत मारिषः ॥१८॥
समिद्धमहितं वह्निं कृत्वा परिसमुहनम ।
परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद द्विजः ॥१९॥
श्रुत्वश्वमेधैर्यजमनमुर्जितं बलिं भृगुणामुपकल्पितैस्ततः ।
जगाम तत्राखिलसारसंभृतो भारेण गां सन्नमयन्पदे पदे ॥२०॥
तं नर्मदायास्तट उत्तरे वले र्य ऋत्विजस्ते भृगुकच्छसंज्ञके ।
प्रवर्तयन्तो भृगवः क्रतुत्तमं व्यचक्षतारादुदितं यथा रविम ॥२१॥
त ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप ।
सुर्य किलायत्युत वा विभावसुः सनत्कुमरोऽथ दिदृक्षया क्रतोः ॥२२॥
इत्थं सशिष्येशःउ भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामनः ।
छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम ॥२३॥
मौत्र्ज्या मेखलया वीतमुपवीतजिनोत्तरम ।
जटिलं वामनं विप्रं मयामणवकं हरिम ॥२४॥
प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः ।
प्रत्यगृह्णन्समुत्थाय संक्षिप्तास्तस्य तेजासा ॥२५॥
यजमानः प्रमुदितो दर्शनीयं मनोरमम ।
रूपानुरुपावयवं तस्मा आसनमाहरत ॥२६॥
स्वगतेनाभिनन्द्याथ पादौ भगवतो बलिः ।
अवनिज्यार्चयामास मुक्तसंगमोरमम ॥२७॥
तत्पादशौचं जनकल्मषापहं स धर्मविन्मुर्ध्यदधात सुमंगलम ।
यद देवदेवो गिरिशश्चन्द्रमौलि र्दधार मूर्धा परय च भक्त्या ॥२८॥
बलिरुवाच
स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते ।
ब्रह्मार्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम ॥२९॥
अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम ।
अद्य स्विष्टः क्रतुरयं या भवानागतो गृहान ॥३०॥
अद्यग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः ।
हतांहसो वार्भिरियं च भरहो तथा पुनीता तनुभिः तदैस्तव ॥३१॥
यद यद बटो वात्र्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतनुतर्कये ।
गां कांत्र्चनं गुणवद धाम मृष्टं तथान्नपेयमृत वा विप्र कन्याम ।
ग्रामान समृद्धांस्तुरगान गजान वा रथांस्तथार्हत्त्म सम्प्रतीच्छ ॥३२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादेऽष्टादशोऽध्यायः ॥१८॥