अष्टमः स्कन्धः - अथ अष्टमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

पीते गरे वृषांकेण प्रीतास्तेऽमरदानवाः ।

ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत ॥१॥

तामग्निहोत्रीमृषयो जगृहुर्बह्यावादिनः ।

यज्ञस्य देवयानस्य मेध्याय हविषे नृपः ॥२॥

तत उच्चैः श्रवा नाम हयोऽभुचन्द्रपाण्डुरः ।

तस्मिन्बलिः स्पृहां चक्रे नेन्द्रं ईश्वरशिक्षया ॥३॥

तत ऐरवतो नाम वारणन्द्रो विनिर्गतः ।

दन्तैश्चतुर्भिः श्वेताद्रेर्हरन्भगवतो महिम ॥४॥

कौस्तुभाखयमभुद रत्‍नं पद्मरागो महोदधेः ।

तस्मिन्हरिः सृहां चक्रे वक्षोऽलंकरणे मणौ ॥५॥

ततोऽभवत पारिजतः सुरलोकविभुषणम ।

पुरयत्यर्थिनो योऽर्थैः शश्वद भुवि यथा भवान ॥६॥

ततश्चाप्सरसो जाता निष्ककण्ठयः सुवाससः ।

रमण्यः स्वर्गिणं वल्गुगतिलीलाअलोकनैः ॥७॥

ततश्चविरभुत साक्षाच्छ्री रमा भगवत्परा ।

रत्र्जयन्ती दिशः कन्त्याः विद्युत सौदामनी यथा ॥८॥

तस्या चक्रुः स्पृहां सर्वे ससुरासुरमानवाः ।

रुपौदार्यवयोवर्णमहिमाक्षिप्तचेतसः ॥९॥

तस्या आसनामनिन्ये महेन्द्रो महदद्भुतम ।

मुर्तिमत्यः सरिच्छ्रोष्ठ हेमकुम्भैर्जलं शुचि ॥१०॥

आभिषेचनिका भुमिराहरत सकलौषधीः ।

गावः पंच पवित्राणि वसन्तो मधुमाधवौ ॥११॥

ऋषयः कल्पयात्र्चक्रुरभिषेकं यथाविधि ।

जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः ॥१२॥

मेघा मृदंगपणवमुरजानकर्गोमुखान ।

व्यनादयत्र्छंखवेणीणास्तुमुलनिः स्वनान ॥१३॥

ततोऽभिषिषिषिचुर्देवीं श्रियं पद्मकरां सतीम ।

दिगिभाः पुर्णकलशैः सुक्तवक्यौर्द्विजेरितैः ॥१४॥

समुद्रः पीतकौशेयवाससी समुपाहरत ।

वरुणः स्रजं वैजयन्ती मधुना मत्तषटापदाम ॥१५॥

भुषणानि विचित्राणि विश्वकर्मा प्रजापतिः ।

हारं सरस्वती पद्ममजो नागाश्च कुण्डले ।१६॥

ततः कृतस्वस्तययनोत्पलस्रजं नददद्विरेफां परिगृह्रा पाणिना ।

चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम ॥१७॥

स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुंकुमोक्षितम ।

ततस्ततो नूपुरल्गुशित्र्जितै र्विसर्पती हेमलतेव सा बभौः ॥१८॥

विलोकयन्ती निरवद्यमात्मनः पदं धुर्वं चाव्यभिचारिदगुणम ।

गन्धर्वयक्षासुरसिद्धाचारण त्रैविष्टपियादिषु नान्वविन्दत ॥१९॥

नुनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित तच्च न संगवर्जितम ।

कश्चिन्महांस्तस्यं न कामनिर्जयः स ईश्वरः किं परतोऽव्यपाश्रयः ॥२०॥

धर्मः क्वचित तत्र न भुतसौहृदं त्यागः क्वचित तत्र न मुक्तिकारणम ।

वीर्यं न पुम्सोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसंगवर्जितः ॥२१॥

क्वचिच्चिरयुर्न हि शीलमंगलं क्वचित तदप्यस्ति न वेद्यमायुषः ।

यत्रोभयं कुत्र च सोऽप्यमंगलः सुमंगलः कश्च न कांक्षते हि माम ॥२२॥

एवं विमृश्याव्यभिचारिसद्रुणै र्वरं निजैकाश्रयाऽगुणाश्रयम ।

वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम ॥२३॥

तस्यांसदेश उशतें नवकत्र्जमालां माद्यन्मधुव्रतवरुथगिरोपघुष्टाम ।

तस्थौ निधाय निकटे तदुरः स्वधाम सव्रीडहासविकसन्नयनेन याता ॥२४॥

तस्याः श्रियस्त्रिजगतो जनको जनन्या वक्षोनिवासमकरोत परमं विभुतेः ।

श्रीः स्वाः प्रजा सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान ॥२५॥

शंखतुर्यमृदंगांना वादित्राणां पृथुः स्वनः ।

देवानुगाणां सस्त्रीणां नृत्यतां गायतामभुत ॥२६॥

ब्रह्मारुद्रागिंरोमुख्याः सर्वो विश्वसृजो विभुम ।

ईडिरेऽवितर्थैर्मन्त्रैस्तल्लिगैः पुष्पवर्षिणः ॥२७॥

श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः ।

शीला द्विगुणसम्पनना लेभिरे निर्वृत्ति पराम ॥२८॥

निःसत्वां लोलुपा राजन निरुद्योगा गतत्रपा ।

यदा चोपेक्शिता लक्ष्म्या बभुवुदैत्यदानवाः ॥२९॥

अथासीद वारुणी देवी कन्या कमललोचना ।

असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥३०॥

अथोरधेमथ्यमानात काश्यपरिअमृतार्थिभिः ।

उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ॥३१॥

दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः ।

श्यामलस्तरुणः स्रग्वी सर्वभरणभुषितः ॥३२॥

पीतवासा महोरस्कः सुमुष्टमणीकुण्डलः ।

स्निग्धकुत्र्चितकेशान्तः सुभगः सिंहविक्रम ॥३३॥

अमृतापुर्णकलशं बिभ्रदं वलयभुषितः ।

स वै भगवतः साक्षाद्विष्णोरंशांसम्भवः ॥३४॥

धन्वन्तरिरिति ख्यात आयुर्वेददृहिज्यभाक ।

तमालोक्यसुराः सर्वे कलशं चामृताभृतम ॥३५॥

लिप्सन्तः सर्ववस्तुनि कलशं तरसाहरन ।

नीयमाने ऽसुरैस्तम्सिन्कलशेऽमृतभाजने ॥३६॥

विषण्णमनसो देवा हरिं शरणमाययुः ।

इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत ।

मा खिद्यत मिथोऽर्थंवः साधयिष्ये स्वमायया ॥३७॥

मिथःकलिरभुत्तेषां तदर्थें तर्षचेतसम ।

अहं पुर्वमहं पुर्वं न त्वं त्वमिति प्रभोः ॥३८॥

देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः ।

सत्रयाग इवैतस्मिन्नैष धर्मः सनातनः ॥३९॥

इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सराः ।

दुर्बला प्रबलान राजन गृहितकलशान मुहुः ॥४०॥

एतस्मिन्नन्तरे विष्णुः सर्वोपायविदिश्वरः ।

योषिद्रुपमनिर्देश्यं दधार परमाद्भुतम ॥४१॥

प्रेक्षणीयोप्तलश्यामं सर्वावयवसुन्दरम ।

समानकर्णाभरणं सुकपोलोन्नसाननम ॥४२॥

नुवयौवननिर्वृत्त्स्तनभारकृशोदरम ।

मुखामोदनुरक्तालिझकांरोद्विग्रलोचनम ॥४३॥

बिभ्रत स्वकेशभारेणमालामुत्फुल्लमल्लिकाम ।

सुग्रीवकण्ठाभरणं सुभुजांगदभुषितम ॥४४॥

विरजाम्बरसंवीतनितम्बद्वीपशोभया ।

कात्र्च्या प्रविल्यसद्वल्गुचलल्च्चरणनुपुरम ॥४५॥

सव्रीडस्मितविक्षित्पभुविलसावलोकनैः ।

दैत्ययुथपचेतःसु कममुद्दीपयन मुहुः ॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP