श्रीशुक उवाच
बलिरेवं गृहपतिः कुलाचर्येण भाषितः ।
तूष्णीं भुत्वा क्षणं राजन्नुवाचावहितो गुरुम ॥१॥
बलिरुवाच
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम ।
अर्थं कामं यशो वृत्तिं यो न बाधेन कर्हिचित ॥२॥
स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम ।
प्रतिश्रुत्य ददामीति प्रह्रादिः कितवो यथा ॥३॥
न ह्रासत्यात परोऽधर्म इति होवाच भुरियम ।
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम ॥४॥
नाहं बिभेम निरयन्नाधान्यादसुखर्णवात ।
न स्थानच्यवनान्मृत्योर्यथाविप्रप्रलम्भनात ॥५॥
यद यद्धास्यति लोकेऽस्मिन्संपरेतं धनादिकम ।
तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत ॥६॥
श्रेयः कुर्वन्ति भुतानां साधवो दुस्त्यजासुभिः ।
दध्यडशिबिप्रभृतयः को विकल्पो धरादिषु ॥७॥
यैरिषं बुभुजे ब्रह्मान्दैत्यैन्द्रैरनिवर्तिभिः ।
तेषां कलोऽग्रसील्लोकान न यशोऽधिगंत भुवि ॥८॥
सुलभा युधि विप्रर्षे ह्रानिवृत्तास्तनुत्यजः ।
न तथ तीर्थ आयाते श्रद्धया ये धनत्यजः ॥९॥
मनस्विनः कारुणिकस्य शोभनं यदर्थिकमोपनयेन दुर्गतिः ।
कृतः पुनर्ब्रह्माविदां भवादृशां ततो बटोरस्य ददामि वात्र्छितम ॥१०॥
यजन्ति यज्ञक्रतुभिर्यमादृता भवन्त आम्रायविधानकोविदाः ।
स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥११॥
यदप्यसावधर्मेण मां बध्रीयादनगसम ।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मातनुं रिपुम ॥१२॥
एष वा उत्तमश्लोको न जिहासति यद यशः ।
हत्वा मैनां हरेद युद्धे शयीत निहतो मया ॥१३॥
श्रीशुक उवाच
एवमश्रद्धितं शिष्यमनादेशकरं गुरुः ।
शशाप दैवप्रहितः सत्यसन्धं मनस्विनम ॥१४॥
दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया ।
मच्छसनातियो यस्व्त्वमाचिराद भ्रश्तसे श्रियः ॥१५॥
एवं शप्तः स्वगुरुना सत्यान्न चलितो महान ।
वामनाय ददावेनामर्चित्वोदकपुर्वकम ॥१६॥
विध्यावलिस्तदाऽगत्य पत्नी जालकमालिनी ।
आनिन्ये कलशं हैममवनेजन्यपां भृतम ॥१७॥
यजमानः स्वयं तस्य श्रीमत पादयुगं मुदा ।
अवनिज्यावहन्मुर्ध्रि तदपो विश्वपावनीः ॥१८॥
तदाऽसुरेन्द्रं दिवि देवतागणा नन्धर्वविद्याधरसिद्धचरणाः ।
तत्कर्ण सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षर्वषुर्मुदान्विताः ॥१९॥
नेदुर्मुहुर्दुन्दुभयः सहस्त्रशो गन्धर्वकिंपुरुषकिन्नरा जगुः ।
मनस्विनानेन कृतं सुदुष्करं विद्वानदाद यद रिपवे जगत्त्रयम ॥२०॥
तद वामनं रुपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम ।
भूः खं दिशो द्यौर्विवराः पयोधय स्तिर्यडनृदेवा ऋषयो यदासत ॥२१॥
काये बलिस्तस्य महाविभुतेः सहर्त्विगाचार्यसदस्य एतत ।
ददर्श विश्वं त्रिगुनं गुणात्मके भुतेन्द्रियार्थाशयजीवयुक्तम ॥२२॥
रसामचष्टांगघिरतलेऽथ पादयो र्महीं महीध्रान्पुरुषस्य जंघयोः ।
पतत्त्रिणो जानुनि विश्वमूर्ते रुर्वोर्गणं मारुतमिन्द्रसेनः ॥२३॥
सन्ध्या विभोर्वाससि गुह्रा ऐक्षत प्रजापतीत्र्जघने आत्ममुखान ।
नाभ्यां नभः कुक्षिषु सप्तसिन्धू नुरुक्रमस्योरसि चर्क्षमालाम ॥२४॥
हृद्यडं धर्मं स्तनयोर्मुरारे ऋतं च सत्यं च मनस्यथेन्द्रुम ।
श्रियं च वक्षस्यरविन्दहस्तं कण्ठे च सामानि समस्तरेफान ॥२५॥
इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मुर्ध्रि ।
केशेषु मेघात्र्छ्वसनं नासिकाया मक्ष्णोश्च सुर्यं वदने च वह्निम ॥२६॥
वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम ॥२७॥
स्पर्शे च कामं नृप रेतसोऽम्भं पृष्ठे त्वधर्म क्रमणेषु यज्ञम ।
छायासु मृत्युं हसिते च मायां तनुरुहेष्वोषधिजातयश्च ॥२८॥
नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषीश्च ।
प्राणेषु गात्रे स्थिरजंगमानि सर्वाणि भुतानि ददर्श वीरः ॥२९॥
सर्वात्मनीदं भुवनं निरीक्ष्य सर्वऽसुरा कश्मलमापुरंगः ।
सुदर्शनं चक्रमसह्यातेजो धनुश्च शार्गं स्तनयित्नुघोषम ॥३०॥
पर्जन्यघोषो जलजः पांचजन्यः कौमोदकी विष्णुगदा तरस्विनी ।
विद्याधरोऽसि शतचन्द्रयुक्त स्तुणोत्तमावक्षयसायकौ च ॥३१॥
सुनन्दमुख्या उपतस्थुरिशं पार्षदमुख्याः सहलोकपालाः ।
स्फुरत्किरीटांगदमीनकुंण्डलश्रीवत्सरत्नोत्तममेखलाम्बरैः ॥३२॥
मधुव्र्तस्रग्वनमालया वृतो रराज राजन्भव्गवानुरुक्रमः ।
क्षितिंक पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥३३॥
पदं द्वितीयं क्रमतास्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि ।
उरुक्रमस्यांगघिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः ॥३४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहिंतायामष्टमस्कन्धे विश्वरुपदर्शनं नाम विंशतितमोऽध्यायः ॥२०॥