श्रीशुक उवाच
अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया ।
जघुर्भुशं शक्रसमीरणादय स्तांस्तान्रणे यरभिसंहताः पुरा ॥१॥
वैरोचनाय संरब्धो भगवान्पाकशास्नः ।
उदयच्छद यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥२॥
वज्रपाणिस्तमाहेदंतिरस्कृत्य पुरः स्थितम ।
मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥३॥
नटवन्मुढ मायाभिर्मायेशान नो जिगीषसिः ।
जित्वा बालान निबद्धाक्षान नटो हरति तद्धनम ॥४॥
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम ।
तान्दस्युनिव्धुनोम्यज्ञान्पुर्वस्माच्च पदादधः ॥५॥
सोऽहंदुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।
शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥६॥
बलिरुवाच
संग्ग्रामे वर्तमानानां कालचिदितकर्मणाम ।
कीर्तिर्जयोऽजयो मृत्यः सर्वेषां स्युरनुक्रमत ॥७॥
तदिदं कालरशनं जनाः पश्यन्ति सुरयः ।
न हृष्यन्ति न शोचन्त तत्र युयमन्डिताः ॥८॥
न वयं मन्यमानानामात्मानं तत्र साधनम ।
गिरो वः सधुशोच्यानां गृह्णीमो मर्मताडनाः ॥९॥
श्रीशुक उवच
इत्याक्षिप्य विभुं वीरो नाराचैवीर्मर्दनः ।
आकर्णपुरणिअरहनदाक्षेपणैराहतं पुनः ॥१०॥
एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
नामृष्यत तदधिक्षेपं तोत्राहत इव द्विपः ॥११॥
प्राहरत कुलिशं तस्मा अमोघं परमर्दनः ।
सयानो न्यपतत भुमाउ छिन्नपक्ष इवाचलः ॥१२॥
सखायं पतितं दृष्टा जम्भ बलिसखः सृहृत ।
अभ्ययात सौहृद सख्युर्हतस्यापि समाचरन ॥१४॥
गदाप्रहारव्यथितो भृशं विह्ललितो गजः ।
जानुभ्यां धरणीं स्पृष्टा कश्मलं परमं ययौ ॥१५॥
ततो रथ मातलिना हरिभ्र्दशशतैर्वृतः ।
आनीतो द्विपमुत्सृज्य रथामरुरुहे विभुः ॥१६॥
तस्य तत पुजयन कर्म यन्तुर्दानवसत्तम ।
शुलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥१७॥
सेहे रुजं सुदुर्मर्षा सत्त्वमालम्बय मातालिः ।
इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिरः ॥१८॥
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः ।
नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥१९॥
वचोभिः पुरुषैरिन्द्रमर्दयन्तोऽस्य मर्मस ।
शरैरवाकिरन मेघा धाराभिरिव पर्वतम ॥२०॥
हरिन्दशशतान्याजौ हर्यश्चस्य बलः शरैः ।
तावद्भिरर्दयामास युगपल्लघुहस्तवान ॥२१॥
शताभ्यां मातलिं पाको रथं सावयवं पृथक ।
सकृत्सन्धनमोक्षेण तदद्भुतमभुद रणे ॥२२॥
नमुचिः पंचदशभिः स्वर्णपुखैर्महेषुभिः ।
आहत्य व्यनदत्संख्ये सतोय इव तोयदः ॥२३॥
सर्वतःशरकुटेन शक्रं सरथसारथिम ।
छादयामासुरसुराः प्रावृटसुर्यमिवाम्बुदाः ॥२४॥
अलक्शयन्तस्तमतीव विह्लला विचुक्रुशर्देवगणाः सहानुगः ।
अनायका शत्रुबलेन निर्जिता वणिक्पथ भिन्ननवो यथार्णवे ॥२५॥
ततस्तुराषाडिषुब्धपत्र्जरद विनिर्गत साश्वरथध्वजाग्रणीः ।
बभौ दिशः खं पृथवीं स रोचयन स्वतेजसा सुर्यं इव क्षपात्यये ॥२६॥
निरीक्ष्य पूतनां देवः परैरभ्यर्दितं रणे ।
उदयच्छद रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥२७॥
स तेनैवाष्टधरेण शिरसी बलपाकयोः ।
ज्ञातीनां पश्यतां राजत्र्जहार जनयन्भयम ॥२८॥
नमुचिस्तद्वधं दृष्टा शोकामर्षरुषन्व्तः ।
जिघांसुरिन्द्रं नृपतें चकर परमोद्यमम ॥२९॥
अश्मसारमयं शुलं घण्टावद्धेमभुषणम ।
प्रगृह्माभ्यद्रवत क्रुद्धो हतोऽसीति वितर्जयन ।
प्राणिणोद देवराजाय निनदन मृगराडीव ॥३०॥
तदापतद गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा ।
तमाहनन्नॄप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन ॥३१॥
न तस्य ही त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः ।
तदद्भुतं परमतिवीर्यवृत्रभितं तिरस्क्रुतो नमुचिशिरोधरत्वचा ॥३२॥
तस्मादिन्दोरऽभिभेच्छात्रोर्वज्रः प्रतिहतो यतः ।
किमिदंदैवयोगेन भुतं लोकविमोहनम ॥३३॥
येनमे पुर्वमद्गिणां पक्षच्छेदः प्रजात्यये ।
कृतो निविशतां भारैः पतत्त्रैः पततां भुविं ॥३४॥
तपः सारमयं त्वाष्ट्र वृत्रो येन विपाटितः ।
अन्ये चापि बलोपेतः सर्वाश्त्रेरक्षतत्वचः ॥३५॥
सोऽयं पतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।
नाहं तदाददे दन्डं ब्रहातेजोऽप्यकारणम ॥३६॥
इति शुक्रं विषीदन्तमह वागशरीरिणी ।
नायं शुष्कैरथो नाद्रैर्वधमर्हति दानवः ॥३७॥
मयास्मै यद वरो दत्तो मृत्युनैवर्द्रशुष्कयोः ।
अतोऽन्याश्चिन्तनीयस्ते उपायो मघवन रिपोः ॥३८॥
तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः ।
ध्यायन फेनमथापस्यदुपायमुभयात्मकम ॥३९॥
न शुष्केण न चर्द्रेण जहार नमुचेः शिरः ।
तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुमु ॥४०॥
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसु ।
देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मदा ॥४१॥
अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वाग्निवारुणादयः ।
सुदयामासुरस्त्रौघैर्मृगान्केसारिणो यथा ॥४२॥
ब्रह्माणा प्रेषितो देवन्देवर्शिर्नाददो नृप ।
वरयामास विबुधान्दृष्टा दानवसंक्षयम ॥४३॥
नारद उवाच
भवद्भिरम्रुतं प्राप्तं नरायणभुजाश्रयैः ।
श्रिय समेधिताः सर्व उपारमत विगहात ॥४४॥
श्रीशुक उवाच
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः ।
उपयीगमानानुचरैर्ययुः सर्वे त्रिविष्टपम ॥४५॥
येऽवशिष्टा रणे तस्मिन नारदानुमतेन ते ।
बलिं विपन्नमादाय अस्तं गिरिमुपागमन ॥४६॥
तत्रविनष्टावयवान विद्यमानशिरोधरान ।
उशना जीवयामाअ संजीविन्या स्वविद्यया ॥४७॥
बलिश्चोशासा स्पृष्टः प्रयापन्नेन्द्रियस्मृतिः ।
पराज्तोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ॥४८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे देवसुरसंग्रामे एकादशोऽध्यायः ॥११॥