अष्टमः स्कन्धः - अथ सप्तदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

इत्युक्ता सादिती राजन्स्वभत्रां कश्यपेन वै ।

अन्वतिष्ठद व्रतमिदं द्वादशाहमतिन्द्रता ॥१॥

चिन्त्यन्त्येकया बुध्द्या महापुरूष्मिइश्वरम् ‍ ।

प्रगृह्येन्द्रियदुष्टाश्वान्मनसा बुद्धीसारथिः ॥२॥

मनश्चैकाग्रया बुद्धया भगवत्यखिलात्मनि ।

वासुदेव समाधाय चचार ह पयोव्रतम ॥३॥

तस्यः प्रदुरभुत्तात भगवानादिपुरुषः ।

पीतवसाश्चतुर्बाहुः शंखचक्र्गदधरः ॥४॥

तं नेत्रगोचरं वीक्ष्यं सहसोत्थय सादरम ।

ननाम भुवि कायेन दण्डवत प्रीतिविह्नला ॥५॥

सोत्थाय बद्धात्र्जलिरींडितुं स्थिता नोत्सेह आनन्दलाकुलेक्षणा ।

बभुव तूष्णीं पुलकाकुलाकृति स्तद्दर्शनात्युत्सवगात्रवेपथुः ॥६॥

प्रीत्या शनैर्गद्गदया गिरा हरिं तृष्टाव स देव्यदितिः कुरुद्वह ।

उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम ॥७॥

आदितिरुवाच

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवनमंगलनामधेय ।

आपन्नलोकवृजिनोपशमोदयद्य शं नः कृधीश भगवन्नासि दीननाथः ॥८॥

विश्वाय विस्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुषक्तिगुणाय भुम्रे ।

स्वस्थाय शश्वदुपबृंहितपुर्णबोध व्यापादितात्मतमसे हरये नमस्ते ॥९॥

आयुः परं वपुरभीष्टमतुल्यलक्ष्मी द्योभुरसाः सकलयोगगुणस्त्रिवर्गः ।

ज्ञानं च केवलमन्त भवन्ति तुष्टात त्वत्तो नृणांकिमु सपत्‍नजयदिराशीः ॥१०॥

श्रीशुक उवाच

अदित्यैवं स्तुतो राजन्भगवान्पुष्करेक्षणः ।

क्षेत्रज्ञः सर्वभुतानामिम्ति होवाच भारत ॥११॥

श्रीभगवानुवाच

देवतामर्भवत्या मे विज्ञतं चिरकांक्षितम ।

यत सपत्‍नैर्हृतश्रीणां च्यावितानां स्वधामतः ॥१२॥

तान्विनिर्जित्य समरे दुर्मदानसुरर्षभान ।

प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्युपासितुम ॥१३॥

इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम ।

स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥१४॥

आत्मजान्सुसमृद्धांस्त्वं प्रत्याहृतयशः श्रियाः ।

नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टमिच्छसि ॥१५॥

प्रायोऽधुना ते‍ऽसुरयुथनभा अपारणीया इति देवि मे मतिः ।

यत्तेऽनुकुलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥१६॥

अथप्युपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते ।

ममार्चनं नार्हति गन्तुमन्यथ श्रद्धानुरुपं फलहेतुकत्वात ॥१७॥

त्वयार्चितश्चाहमपत्यगुप्तये पयोव्र्तेननुगुणं समीडितः ।

स्वांशेन पुत्रत्वमुपेत्य ते सुतान गोप्तास्मि मारीचतपस्यधिष्ठितः ॥१८॥

उपधव पतिं भद्रे प्रजापतिमकल्मषम ।

मां च भावयती पत्यावेवंरुपमवस्थितम ॥१९॥

नैतत परस्मा आख्येयं पृष्टयापि कथंचन ।

सर्वं सम्पद्यते देवि देवगुह्नां सुसंवृतम ॥२०॥

श्रीशुक उवाच

एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।

अदितिर्दुर्लभं लब्ध्वा हरेजन्मात्मानि प्रभोः ॥२१॥

उपाधावत पतिं भक्त्य परय कृत्कृत्यवत ।

स वै समाधियोगेन कश्यपस्तवबुध्यत ॥२२॥

प्रविष्टमात्मनि हरेरंशं ह्रावितथेक्षणः ।

सोऽदित्यां वीर्यमाधत्त तपसा चिरसंभृतम ।

समाहितमना रजन्दारुण्यग्निं यथानिलः ॥२३॥

अदितेर्धिष्ठित गर्भं भगवन्तं सनातनम ।

हिर्ण्यगर्भो विज्ञाय समीडे गुह्नानामभिः ॥२४॥

ब्रह्मोवाच

जयोरुगय भगवन्नुरुक्रम नमोऽस्तु ते ।

नमो ब्रह्माण्यदेवाय त्रिगुणाय नमो नमः ॥२५॥

नमस्ते पृश्चिगर्भाय वेदगर्भय वेधसे ।

त्रिनभाय त्रिपृष्ठाय शिपिविष्टाय विष्ण्वे ॥२६॥

त्वमादिरन्तो भुवनस्य मध्यमनन्तशक्तिं पुरुषं यमाहुः ।

कलो भवानाक्षिपतीष विश्वं स्रोतो यथान्तः पतितं गभीरम ॥२७॥

त्वं वै प्रजानां स्थिरजंगमानां प्रजापतीनमसि सम्भविष्णुः ।

दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु ॥२८॥

इति श्रीमद्भागवते महपुराणे पारमहंस्यां संहितायमष्टमस्कन्धे वामनाप्रदुर्भवे सप्तदशोऽध्ययः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP