श्रीशुक उवाच
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
सप्तमो वर्तमानो यस्तदपत्यानि मे श्रृणु ॥१॥
इक्ष्वाकुर्नभगश्चैव धृष्टः सर्यातिरेव च ।
नरिश्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥२॥
करुषश्च पृषध्रश्च दशमो वसुमान्स्मृतः ।
मनोर्वैवस्वतस्यैत दश पुत्रा परन्तप ॥३॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
अश्विनावृभवो राजन्निद्स्तेषां पुरन्दरः ॥४॥
कश्यपोऽत्रिर्वसिष्ठच्छ विश्वमित्रोऽथं गौतमः ।
जगदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥५॥
आत्रापि भगवज्जन्म कश्यपाददितेरभुत ।
आदित्यानामवरजो विष्णुर्वामनरुपधृक ॥६॥
संक्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते ।
भविष्याण्यत्घ वक्ष्यामि विष्णोः श्क्त्यान्वितानि च ॥७॥
विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे ।
संज्ञा छाय च राजेन्द्र ये प्रागभिहिते तव ॥८॥
तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः ।
यमो यमी श्राद्धदेवश्छायायाश्च सुतात्र्छुणु ॥९॥
सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
शनैश्चरस्तृतीयोऽभुदश्विनौ वडमात्मजौ ॥१०॥
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।
निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥११॥
तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥१२॥
दत्वेमां याचमानाय विष्णवे य पदत्रयम ।
राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥१३॥
योऽसौ भगवता बद्धः प्रीतेने सुतले पुनः ।
निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥१४॥
गालवो दिप्तिमान्रामो द्रोणपुत्रःकृपस्तथा ।
ऋष्यश्रुगः पितास्माकं भगवान्बादरायणः ॥१५॥
इमे सप्तर्मषयस्तत्र भविष्यन्ति स्वयोगतः ।
इदानीमासते राजनं स्वे स्व आश्रममण्डले ॥१६॥
देवगुह्रात्सरस्वत्यां सार्वभौम इति प्रभुः ।
स्थानं पुरन्दरादृधृत्वां बलये दास्यतीश्वरः ॥१७॥
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः
भुतेकेतुदीप्तकेतुरित्याद्यास्तत्सुता नृप ॥१८॥
पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुत स्मृतः ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः ॥१९॥
आयुष्यमतोऽम्बुधारयामृषधो भगवत्कला ।
भाविता येन संरांद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥२०॥
दशमो ब्रह्मासावर्णिरुपश्लोकसुतो महान ।
तत्सुता भुरिषेणाद्य हविष्मत्प्रमुखा द्विजाः ॥२१॥
हविष्मान्सृकृति सत्यो जयो मूर्तिस्तदा द्विजाः ॥
सुवासनविरुद्धाया देवा शम्भुः सुरेश्वरः ॥२२॥
विष्वक्सेनो विषुन्च्यं तु शभ्मोःसंख्यं करिष्यति ।
जातः स्वांशेनक्भग्वान्गृहे विश्वसृजो विभुः ॥२३॥
मनुर्वै धर्मसावणिरेकादशम आत्मवान ।
अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥२४॥
विहंगमाःकामगमा निर्वाणरुचयः सुराः ।
इन्द्रश्च वैधृतस्तेषामृशयश्चरुणादयः ॥२५॥
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः ।
वैधॄतायां हरेरंशस्त्रिलोकीं धरायिष्यति ॥२६॥
भविता रुद्रसावणीं राजन्द्वादशमो मनुः ।
देववानुपदेवश्च देवश्रेष्ठदयः सुताः ॥२७॥
ऋतधामा च तत्रेन्द्रो देवाश्च हरितदयः ।
ऋषयश्च तपोमुर्तिस्तपरव्याग्रीध्रकादयः ॥२८॥
स्वधामाख्यो हरेरंशः साधायिष्यति तन्मनोः ।
अन्तरं सत्यसहसः सृनुताया सुतो विभुः ॥२९॥
मनुस्त्र्योदशो भाव्यो देवसावर्णिरात्मवान ।
चित्रसेनाविचित्राद्या देवसावणिदेहजाः ॥३०॥
देवाः स्कर्मसुत्रामसंज्ञा इंन्द्रो दिवस्पतिः ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्युषयस्तदा ॥३१॥
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥३२॥
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।
उर्गम्भीरबुद्धद्या इन्द्रसावर्णिवीर्यजाः ॥३३॥
पवित्राश्चाक्षुषाः देवाः शुचिरिन्द्रो भविष्यति ।
अग्निर्बाह शुचि शुद्धोः मागधाद्यास्तपस्विनः ॥३४॥
सत्रायणस्त तनयो बृहद्भानुस्तदा हरिः ।
वितानायां महराज क्रियातन्तुन्वितायिता ॥३५॥
राजंश्चतुर्दशैतानि त्रिकालनुगतानि ते ।
प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥