श्रीशुक उवाच
एवं विप्रकृतो राजन बलिर्भगवतासुरः ।
भिद्यमनोऽप्याभिन्नात्मा प्रत्याहाविक्लवं वचः ॥१॥
बलिरुवाच
यद्युत्तमश्लोक भवान ममेरितं वचो व्यलीकं सुरवर्य मन्यते ।
करोम्यृतं तन्न भवेत प्रलम्भन पदंतृतीयं कुरु शीर्ष्णि मे निजम ॥२॥
बिभेमि नाहं निरयात पदच्युतो न पाशबन्धद व्यसनाद दुरत्ययात ।
नैवार्थकृच्छ्राद भवतो विनिग्रा दसाधुवादाद भृशमुद्विजे यथा ॥३॥
पुंसां श्लाघ्य्तमं मन्ये दन्डमर्हत्तमार्पितम ।
यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥४॥
त्वं नुनमसुराणां नः पारोक्ष्यह परमो गुरुः ।
यो नोऽकेकमदान्धानां विभ्रंशंचक्षुरादिशत ॥५॥
यस्मिन वैरानुबन्धेन रुढेन विबुधेतराः ।
बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥६॥
तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।
बद्धश्च वारुणैः पाशैर्नातिव्रीडे न च व्यथे ॥७॥
पितामहो मे भवदीयसंमतः प्रह्राद आविष्कृतसाधुवादः ।
भवद्वीपक्षेण विचित्रवैशसं संप्रापितस्त्वत्परमः स्वपित्रा ॥८॥
किमात्मननेन जहाति योऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्यभिः ।
किं जायया संसृतिहेतुभूतया मर्त्यय गेहैः किमिहायुषो व्ययः ॥९॥
इत्थं स निश्चित्य पितामहो महा नगाधबोधो भवतः पादपद्मम ।
ध्रुवं प्रपेदे ह्याकुतोभयं जनाद भीत स्वपक्षक्षपणस्य सत्तमः ॥१०॥
अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः ।
इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥११॥
श्रीशुक उवाच
तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥१२॥
तमिन्द्रसेनः स्वापितामहं श्रिया विराजमानं नलिनायतेक्षणम ।
प्रांशुं पिशांगम्बरमत्र्जनत्विषं प्रलम्बबाहु सुभगं समैक्ष्त ॥१३॥
तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पुर्ववत ।
ननाम मुर्ध्राश्रुविलोललोचनः सव्रीडनीचीनमुखो बभुव ह ॥१४॥
स तत्र हासीनमुदीक्ष्य सप्तत्तिं सुनन्दन्दाद्यनुगैरुपासितम ।
उपेत्य भूमौ शिरस महामना ननाम मुर्ध पुलकाश्रुविक्लवः ॥१५॥
प्रह्लाद उवाच
त्वयैव दत्तं पदमैन्द्रमुर्जितं हृतं तदेवाद्य तथैव शोभनम ।
मन्ये महानस्य कृतो हानुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात ॥१६॥
यया हि विद्वानापि मुह्राते यत स्तत को विचष्टे गतिमात्मनो यथा ।
तस्मै नसस्ते जगदीश्वरय वै नरायणायाखिललोकसाक्षिणे ॥१७॥
श्रीशुक उवाच
तस्यानुश्रृण्वतो राजन प्रह्रादस्य कृतात्र्जलेः ।
हिरण्यगर्भो भगवानुवाच मधुसुदनम ॥१८॥
बद्धंक वीक्ष्य पतिं साध्वी तत्पात्नी भयविह्लला ।
प्रात्र्जालिः प्रणतोपेन्द्रं बभाषेऽवांमुखी नृप ॥१९॥
विन्ध्यावलिरुवाच
क्रिडार्थमात्मन इदं त्रिजगत कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्यः ।
कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥२०॥
ब्रह्मोवाच
भुतभावन भुतेश देवदेव जगन्मय ।
मुत्र्चैनं हृतसर्वस्वं नायमर्हति निग्रहम ॥२१॥
कृत्स्ना तेऽनेन दत्ता भुर्लोकाः कर्मार्जिताश्चये ।
निवेदितं सर्वस्वमात्माविक्लवया धिया ॥२२॥
यत्पादयोरशठधीः सलिलं प्रदाय दुर्वांकुरैरपि विधय सतीं सपर्याम ।
अप्युत्तमां गतिमसौ भजते त्रिलोकीं दाश्वानविक्लवमनाः कथमार्तिमृच्छेत ॥२३॥
श्रीभगवानुवाच
ब्रह्मान यमनुगृह्णामि तद्विशो विधुनोम्यहम ।
यन्मदः पुरुष स्तब्धो लोकं मं चावमन्यते ॥२४॥
यदा कदाचिज्जीवात्मा संसरन निजकर्मभिः ।
नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत ॥२५॥
जन्मकर्मवयोरुपविदैश्वर्यधनादिभिः ।
यद्यस्यन भवेत स्तम्भस्तत्रयं मदनुग्रहः ॥२६॥
मानस्तम्भनिमित्तानांक जन्मादीनां समन्ततः ।
सर्वश्रेयः प्रतीपानां हन्त मुह्रोन्न मत्परः ॥२७॥
एष दानवदैत्यानामग्रणीः कीर्तिवर्धनः ।
अजैषीदजयां मायां सीदन्नज्पि न मुह्राति ॥२८॥
क्षीणरिक्थश्च्युतः स्थानात क्षित्पो बद्धश्च शत्रुभिः ।
ज्ञातिभिश्च परित्यक्तो यतनामनुयापितः ॥२९॥
गुरुण भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।
छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक ॥३०॥
एष मे प्रापितः स्थानं दुष्प्रापममरैरपि ।
सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥३१॥
तावत सुतलमध्यास्तां विश्वकर्मविनिर्मितम ।
यन्नाधयो व्याधयश्च क्ल्मस्तन्द्रा पराभवः ।
नोपसर्गा निवसतां संभवन्ति ममेक्षया ॥३२॥
इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।
सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥३३॥
न त्वामिभिभाविष्यति लोकेशाः किमुतापरे ।
त्वच्छासनातिगान दैत्याश्चक्रं मे सुदयिष्यति ॥३४॥
रक्षिष्ये सर्वतोऽहं त्वा सानुगं सपरिच्छदम ।
सदा सन्निहितं वीर तत्र मांद्रक्ष्यते भवान ॥३५॥
तत्र दानवदैत्यांनां संगात ते भाव आसुरः ।
दृष्टा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्याति ॥३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यं संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादो नाम द्वाविंशोऽध्यायः ॥२२॥