नारद उवाच ॥ ॥
श्रुतं तु गङ्गामाहात्म्यं वाञ्छितं पापनाशनम् ॥ अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रयोः ॥१॥
सनक उवाच ॥
॥ सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ॥ तस्मै दानानि देयानि दत्तस्यानन्त्यमिच्छता ॥२॥
ब्राह्मणः प्रतिगृह्णीयात्सर्वतो भयवर्जितः ॥ न कदापि क्षत्रविशौ गृह्णीयातां प्रतिग्रहम् ॥३॥
चण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च ॥ स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ॥४॥
परदारतस्यापि परद्रव्याभिलाषिणः ॥ नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम् ॥५॥
असूयाविष्टमनसः कृतघ्नस्य च मायिनः ॥ अयाज्ययाजकस्यापि दत्तं ॥६॥
नित्यं योच्ञापरस्यापि हिंसकस्य खलस्य च ॥ रसाविक्रयिणश्चैव दत्तं ॥७॥
वेदक्रियिणश्चापि स्मृतिविक्रयिणस्तथा ॥ धर्मविक्रयिणो विप्र दत्तं ॥८॥
गानेन जीविका यस्य यस्य भार्या च पुश्चली ॥ परोपतापिनश्चापि दत्तं भवति निष्फलम् ॥९॥
असिजीवी मषीजीवी देवलो ग्रामयाजकः ॥ धावको वा भवेत्तेषां दत्तं भवति निष्फलम् ॥१०॥
पाककर्तुः परस्यार्थे कवये गदहारिणे ॥ अभक्ष्य भक्षकस्यापि दत्तं ॥११॥
शुद्रान्नभोजिनश्चैव शूद्राणां शवदाहिनः ॥ पौंश्चलान्नभुजश्चापि द त भवति नि ॥१२॥
नामविक्रयिणो विष्णोः संध्याकर्म्भोज्झितस्य च ॥ दुष्प्रतिग्रहदग्धस्य दत्तं ० ॥१३॥
दिवाशयनाशीलस्य तथा मैथुनकारिणः ॥ संध्याभोजिन एवापि दत्तं भवति ॥१४॥
महापातकयुक्तस्य त्यक्तस्य ज्ञातिबान्धवैः ॥ कुण्डस्य चापि गोलस्य दत्तं भवति ॥१५॥
परिवित्तेः शठस्यापि परिवत्तुः प्रमादिनः ॥ स्त्रीजितस्यातिदुष्टस्य दत्तं भवति ॥१६॥
मद्यमांसशिनश्चापि स्त्रीविटस्यातिलोभिनः ॥ चौरस्य पिशुनस्यापि दत्तं ॥१७॥
ये केचित्पापनिरतांनिन्दिताः सुजनैः सदा ॥ न तेभ्यः प्रतिृह्णीयान्न च त्द्याद्विजोत्तम ॥ सत्कर्मनिरतायापि देयं यत्नेन नारद ॥१८॥
यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् ॥ याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम् ॥१९॥
परलोकं समुद्दिश्य ह्यैहिक वापि नारद ॥ यद्दानं दीयते पात्रे तत्काम्यं मध्यम स्मृतम् ॥२०॥
दम्भेन चापि हिंसार्थ परस्याविधिनापि च ॥ क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम् ॥२१॥
अधमं बलितोषाय मध्यमं स्वार्थसिद्धये ॥ उत्तमं हरिप्रीत्यर्थ प्राहुर्वेदविदां वराः ॥२२॥
दानभोगविनाशाश्च रायः स्युर्गतयस्रिधा ॥२३॥
यो ददाति च ननो भुंक्ते तद्धनं नाशकारणम् ॥ धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत् ॥२४॥
तरवः किं न जीवन्ति तेऽपि लोके परार्थकाः ॥ यत्र मूलफलैर्वृक्षाः परकार्य प्रकुर्वते ॥२५॥
मनुष्या यदि विप्राग्य्र न परार्थास्तदा मृताः ॥ परकार्य न ये मर्त्याः कायेनापि धनेन वा ॥२६॥
मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः ॥ अत्रेतिहां वक्ष्यामि श़ृणु नारद तत्त्तः ॥२७॥
यत्र दानादिकानां तु लक्षणं परिकीर्तितम् ॥ गङ्गामाहा त्म्यसहित सर्वपापप्रणाशनम् ॥२८॥
भगीरथस्य धर्मस्य संवादं पुण्यकारणम् ॥ आसीद्धगीरथो राजा सगरान्वयसंभवः ॥२९॥
शशास पृथिवीमेतां सप्तद्वीपां ससागराम् ॥ सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान् ॥३०॥
कन्दर्पसदृशो रूपे यायजृको विचक्षणः ॥ प्रालेयाद्रिसमो धैये धर्में धर्मसमो नृपः ॥३१॥
सर्वलक्षणसंपन्नः सर्वशास्त्रार्थपारगः ॥ सव्रसंपत्समायुक्तः सर्वानन्दकरो मुने ॥३२॥
अतिथ्यप्रयतो नित्यं वासुदेवार्चनेरतः ॥ पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सुधीः ॥३३॥
एतादृशं तं राजानं ज्ञात्वा हृष्टो भगीरथम् ॥ धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः ॥३४॥
समागतं धर्मराजमर्हयामास भूपतिः ॥ शास्त्रदृष्टेन विधिना धर्मः प्रीत उवाच तम् ॥३५॥
धर्मराज उवाच ॥
राजन्धर्मविदां श्रेष्ठ प्रसिद्धोऽसि जगत्रये ॥ धर्मराजोऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः ॥३६॥
सन्मार्गानिरतं सत्यं सर्वभूतहिते रतम् ॥ द्रष्टुमिच्छन्ति विबुधारतवो त्कृष्टगुणप्रियाः ॥३७॥
कीर्तिर्नीतिश्च संपत्तिर्वर्तते यत्र भूपते ॥ वसन्ति तत्र नियतं गुणास्सन्तश्च देवताः ॥३८॥
अहो राजन्महाभाग शोभनाचरितं तव ॥ सर्वभूतहितत्वादि मादृशामपि दुर्लभम् ॥३९॥
इत्युक्तवन्तं तं धर्म प्रणिपत्य भगीरथः ॥ प्रोवाच विनयाविष्टः संहृष्टः श्र्लक्ष्णया गिरा ॥४०॥
भगीरथ उवाच ॥
भगवन्सर्वधर्मज्ञ समदर्शित् सुरेश्वर ॥ कृपया परयाविष्टो यत्पृच्छामि वदस्व तत् ॥४१॥
धर्मा कीदृग्विधाः प्रोक्ताः के लोका धर्मशालिनाम् ॥ कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः ॥४२॥
त्वया संमाननीया ये शासनीयाश्च ये यथा ॥ तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि ॥४३॥
धर्मराज उवाच ॥
साधु साधु महाबुद्धे मतिस्ते विमलोर्जेता ॥ धर्माधर्मान्प्रवक्ष्यामि तत्त्तः श़ृणु भक्तितः॥४४॥
धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः ॥ तथैव यातनाः प्रोक्ता असंख्या घोरदर्शनाः ॥४५॥
विस्तराद्रदितुं नालमपि वर्षशतायुतैः ॥ तस्मात्समासतो वक्ष्ये धर्माधर्मनिदर्शनम् ॥४६॥
वृत्तिदानं द्विजानां वै महापुण्यं प्रकीर्तितम् ॥ तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम् ॥४७॥
कुटुम्बिनं वा शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् ॥ यो दत्त्वा स्थापयेदृतिं तस्य पुण्यफलं श़ृणु ॥४८॥
मातृतः पितृतश्चैव द्विजः कोटिकुलान्वितः ॥ निर्विश्य विष्णुभवनं कल्पं तत्रैव मोदते ॥४९॥
गणयन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः ॥ न गण्यन्ते विधात्रापि ब्रह्मवृत्तिफलानि वै ॥५०॥
समस्तदे वतारूपो ब्राह्मणः परिकीर्तितः ॥ जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः ॥५१॥
यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् ॥ स स्रातः सर्व तीर्थेषु तप्तं तेनाखिलं तपः ॥५२॥
यो ददस्वेति विप्राणां जीवनं प्रेरयेत्परम् ॥ सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ॥५३॥
तडागं कारयेद्यस्तु स्वयमेवापरेण वा ॥ वक्तुं तत्पुण्यसंख्यानि नालं वर्षशतायुषा ॥५४॥
एकश्चेदध्वगो राजंस्तडागस्य जलं पिबेत् ॥ तत्कर्तुः सर्वपापानिश्यन्त्येव न संशयः ॥५५॥
एकाहमपि यत्कुर्याद्भूमिस्यमुदकं नरः ॥ स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि ॥५६॥
कर्तुं तडागं यो मर्त्यः साह्यकः शक्तितो भवेत् ॥ सोऽपि तत्फलमाप्नोति तुष्टः प्रेरक एव च ॥५७॥
मृदं सिद्धार्थमात्रां वा तडागाद्यो बहिः क्षिपेत् ॥ तिष्ठत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः ॥५८॥
देवता यस्य तुष्यन्ति गुरवो वा नृपौतम ॥ तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः ॥५९॥
इतिहांस प्रवक्ष्यामि तवात्र नृपसत्तम ॥ यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥६०॥
गौडदेशेऽतिविख्यातो राजासीद्वीरभद्रकः ॥ महाप्रतापी विद्यावान्सदा विप्रप्रपूजकः ॥६१॥
वेदशास्त्रकुलाचारयुक्तो मित्रक्विर्धनः ॥ तस्य राज्ञी महाभागा नाम्ना चम्पकमञ्जरी ॥६२॥
तस्य राज्ञो महामात्याः कृत्याकृत्यविचारणाः ॥ धर्माणां धर्मशास्त्रैस्तु सदा कुर्वन्ति निश्चयम् ॥६३॥
प्रायश्चित्तं चिकित्सां च ज्योतिषे धर्मनिर्णयम् ॥ विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्मघातकम् ॥६४॥
इति निश्चित्य मनसा मन्वादीरिधर्मकान् ॥ आचार्येभ्यः सदा भूपः श़ृणोति विधिपूर्वकम् ॥६५॥
न कोऽप्यन्यायवर्ती च तस्य राज्येऽवरोऽपि च ॥ धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः॥६६॥
जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहम् ॥ स चैकदा तु नृपतिर्मृगयायां महावने ॥६७॥
मन्त्र्यादिभिः परिवृतो बभ्राम मध्यमभास्करम् ॥ दैवादाखेटशून्यस्य हृतिश्रान्तस्य तत्र वै ॥६८॥
नृपरीतस्य संजातं सरसो दर्शनं नृप ॥ ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत् ॥६९॥
किमयं सरसीश़ृङे भुवः केन विनिर्मिता ॥ कथं जलं भवेदत्र येन जीवेदयं नृपः ॥७०॥
ततो बुद्धिः समभवत्खाते तस्या नृपोत्तम ॥ हस्तमात्रं ततो गर्त्तं खात्वा तोयमवाप्तवान् ॥७१॥
तेन तोयेन पीतेन राज्ञस्तृप्तिरजायत ॥ मन्त्रिणश्चापि भूमीश बुद्धिसागरसंज्ञिनः ॥७२॥
स बुद्धिसागरो भूपं प्राह धर्मार्थकोविदः ॥ राजन्नियं पुष्करिणी वर्षाजलवती पुरा ॥७३॥
अद्यैनां बद्धवप्रां च कर्त्तुं जाता मतिर्मम ॥ तद्भवान्मोदतां देव दत्तादाज्ञां च मेऽनघ ॥७४॥
इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः ॥ मुमुदेऽतितरां भूपः स्वयं कर्तुं समुद्यतः ॥७५॥
ततमेव मन्त्रिणं तत्र युयोज शुभकर्मणि ॥ ततो राजाज्ञया सोऽपि बुद्धिसागरको मुदा ॥७६॥
सरसीं सागरं कर्त्तुमुद्यतः पुण्यकृत्तमः ॥ धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम् ॥७७॥
सरसीं बद्धसु शिलां चकारागधशम्बराम् ॥ तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत् ॥७८॥
तस्यां ततः प्रभृति वै सर्वेऽपि वनचारिणः ॥ पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम् ॥७९॥
कदाचित्स्वायुषश्चान्ते स मन्त्री बुद्धिसागरः ॥ प्रमृतो गतवॉंल्लोकं लोकशास्तुर्मम प्रभो ॥८०॥
तदर्थं तु मया पृष्टो धर्मो धर्मलिपिंकाः ॥ चित्रगुप्तस्तु तत्कर्म मह्यं सर्वं न्यवेदयत् ॥८१॥
उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपतेः ॥ तस्माद्धर्मविमानं तु समारोढुमिहार्हति ॥८२॥
इत्युक्ते चित्रगुप्तेन समाज्ञप्तो मया नृप ॥ विमानं धर्मसंज्ञ तु आरोढुं बुद्धिसागरः ॥८३॥
अथ कालान्तरे राजन्स राजा वीरभद्रकः ॥ मृतो गतोमम स्थानं नमश्चक्रे मुदान्वितः ॥८४॥
मया तु तत्र तस्यापि पृष्टं कर्माखिलं नृप ॥ कथितं चित्रगुप्तेन धर्म सरसिसंभवम् ॥८५॥
तदा सम्यङ्मया राजा बोधितोऽभूद्यथा श़ृणु ॥ अधित्यकायां भूपाल सैकतस्य गिरेः पुरा ॥८६॥
लावकेनामुना चञ्च्वा खातं द्य्वंङ्गुलमम्बुनि ॥ ततः कालान्तरे तेन वाराहेण नृपोत्तम ॥८७॥
खनितं हस्तमात्रं तु जलं तुण्डेन चात्मनः ॥ ततोऽन्यदाऽमुया काल्याहस्त युग्ममितः कृतः ॥८८॥
खातो जले महाराज तोयं मासद्वयं स्थितम् ॥ पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः ॥८९॥
ततो वर्षत्रयान्ते तु गजनानेन सुव्रत ॥ हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम् ॥९०॥
मासत्रये स्थित तच्च पयो जीवैर्वनेचरैः ॥ भवांस्तत्र समायतो जलशोषाद नन्तरम् ॥९१॥
मासे तत्र तु संप्राप्तं हस्तं खात्वा जलं नृप ॥ ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया ॥९२॥
पञ्चाशद्धनुरुत्खातं जातं तत्र महाजलम् ॥ पुनः शिलाभिः सुदृढं बद्धं जातं महत्सरः ॥ वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः ॥९३॥
तेन स्वस्वेन पुण्येन पञ्चैते जगतीपते ॥ विमानं धर्म्यमारूढास्त्वमष्येनं समारुह ॥९४॥
इति वाक्यं समाकर्ण्य मम राजा स भूमिप ॥ आरुरोह विमानं तत्षष्ठो राजा समांशभाक् ॥९५॥
इति ते सर्वमाख्यातं तडागजनितं फलम् ॥ श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात् ॥९६॥
यो नरः श्रद्धया युक्तो व्याख्यातं श़ृणुयात्पठेत् ॥ सोऽप्याप्नोत्यखिलं पुण्य सरोनिर्माणसंभवम् ॥९७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशोऽध्यायः ॥१२॥