संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामाष्टाशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - नामाष्टाशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सूत उवाच ॥
श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम्‍ ॥ सर्वासामवतारानां नारदो देव दर्शनः ॥१॥
सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम्‌‌‍ ॥ अवतारकलानां हि पप्रच्छ विनयन्वितः ॥२॥
नारद उवाच ॥
धन्योऽस्मि कृतकृत्योऽस्मि जातोऽहं त्वत्प्रसादतः ॥ यज्जनन्मातृमंत्राणां वैभवं श्रुतवान्मुने ॥३॥
यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः ॥ तथा राधावताराणां श्रोतुमिच्छामि वैभवम्‍ ॥४॥
यत्संख्याकाश्व यद्रूपा यत्प्रभावा विदांवर ॥ राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान्‍ ॥५॥
एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः ॥ सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम्‍ ॥६॥
सनत्कुमार उवाच ॥
श्रृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम्‍ ॥ राधावतारचरितं भजतामिष्टिसिद्धिदम्‍ ॥७॥
चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा ॥ मालावतीमुखाष्टानां चन्द्रावल्यधिपा स्मृता ॥८॥
कलावतीमुखाष्तानामीश्वरी ललिता मता ॥ राधाचरनपूजायामुक्ता मालावतीमुखाः ॥९॥
ललिताधीश्वरीणां तु नामानि श्रृणु सांप्रतम्‍ ॥ कलावती मधुमती विशाखा श्यामलाभिधा ॥१०॥
शैब्या वृन्दा श्रीधराख्या सर्वास्तत्तुल्यविग्रहाः ॥ सुशीलाप्रमुखा श्वान्याः सख्यो द्वात्रिंशदीरिताः ॥११॥
ताः श्रृणुष्व महाभाग नामतः प्रवदामि ते ॥ सुशीलां शशिलेखा च यमुना माधवी रतिः ॥१२॥
कदम्बमाला कुन्ती च जाहवी च स्वयंप्रभा ॥ चन्द्रानना पद्ममुखी सावित्री च सुधामुखी ॥१३॥
शुभा पद्मा पारिजाता गौरिणी सर्वमंगला ॥ कालिका कमला दुर्गा विरजा भारती सुरा ॥१४॥
गंगा मधुमती चैव सुन्दरी चन्दना सती ॥ अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः ॥१५॥
कदाचिल्ललिता देवी पुंरुपा कृष्णविग्रहा ॥ ससर्ज षोडशकलास्ताः सवस्तित्समप्रभाः ॥१६॥
तासां मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा ॥ वर्णये सर्वतंत्रेषु रहस्यं मुनिसत्तम ॥१७॥
वाती मरुच्चाग्रिवह्री धराक्ष्मे जलचारिणी ॥ विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः ॥१८॥
प्राणस्तेजः स्थिरा वायुर्वायुश्वापि प्रभा तथा ॥ ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ ॥१९॥
व्योमरयः शिखी गोत्रा तोयं शून्यजवी द्युतिः ॥ भूमी रसो नमो व्याप्तं दाहश्वापि रसांबु च ॥२०॥
वियत्स्पर्शश्व हद्धंसहलाग्रासो हलात्मिकाः ॥ चन्द्रावली च ललिता हंसेला नायके मते ॥२१॥
ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरुपिणी ॥ शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः ॥२२॥
वाड्‍मयं निखिलं व्याप्तमाभि रेव मुनीश्वर ॥ ललिताप्रमुखाणां तु षोडशीत्वमुपागता ॥२३॥
श्रीराधा सुन्दरी देवी तांत्रिकैः परिकीर्त्यते ॥ कुरुकुल्ला च वाराही चन्द्रालिललिते उभे ॥२४॥
संभूते मन्त्रवर्गं तेऽभिधास्तेऽहं यथातथम्‍ ॥ ह्रत्प्राणलाहंसदाहवह्रिस्वैर्ललितोरिता ॥२५॥
त्रिविधा हंसभेदेव श्रृणु तां च यथाक्र मम्‍ ॥ हंसाद्ययाऽद्या मध्या स्यादादिमध्यस्थहंसया ॥२६॥
तृतीया प्रकृतिः सैव तुर्या तैरंत्यमायया ॥ आसु तुर्याभवन्मुक्त्यै तिस्त्रोऽन्याः स्युश्व संपदे ॥२७॥
इति त्रिपुरसुंदर्या विद्या सम्यवसमीरिता ॥ दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम्‍ ॥२८॥
प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत्‍ ॥ शून्यमंबुरसावह्रिस्वयोगान्मोहनीमनुः ॥२९॥
व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम्‍ ॥ ज्यानभोदाहवह्रिस्वयोगैः स्यादरुणामनुः॥३०॥
जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः ॥ कं नभो दाहसहितं व्याप्तक्ष्मास्वयुतं मनुः ॥३१॥
सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः ॥ ग्रासो नभोदाहवह्रिस्वैर्युक्तः कौलिनीमनुः ॥३२॥
एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुतैः ॥ वाग्देवतांतैन्यांसः स्याद्येन देव्यात्मको भवेत ॥३३॥
रंध्रे भाले तथाज्ञायां गले ह्रदि तथा न्यसेत्‍ ॥ नाभावाधारके पादद्वये मूलाग्रकावधि ॥३४॥
षड्र्दीर्घाढ्येन बीजेन कुर्याच्चैव षडंगकम्‍ ॥ लोहितां ललितां बाणचापपाशसृणीः करैः ॥३५॥
दधानां कामराजांके यन्त्रिकां यन्त्रितां मुदिता स्मरेत्‍ ॥ मध्यस्थदेवी त्वेकैव षोडशाकारतः ॥३६॥
यतस्तस्मात्तनौ तस्यास्त्वन्याः पंचदशार्चयेत्‍ ॥ ऋषिः शिवश्छंद उक्ता देवता ललिताद्काः ॥३७॥
सर्वासामपि नित्यानामावृती र्नामसंचये ॥ पटले तु प्रयोगांश्व वक्ष्याम्यग्रे सविस्तरम्‍ ॥३८॥
अथ षोडशनित्यासु द्वितीया या समीरिता ॥ कामेश्वरीति तां सर्वकामदां श्रृणु नारद ॥३९॥
शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्दितीयकः ॥ शून्यमग्नियुतं पश्वाद्रयोव्याप्तेन संयुतम्‍ ॥४०॥
प्राणो रसाग्रिसहितः शून्ययुग्मं चरान्वितम्‍ ॥ नभोगोत्रा पुनश्वैषां दाहेन समयोजिता ॥४१॥
अंबु स्याच्चरसंयुक्तं नवशक्तियुतं च त्दृत्‍ ॥ एषा कामेश्वरी नित्या कामदैकादशाक्षरी ॥४२॥
मूलविद्याक्षरैरेव कुर्यादंगानि षट्‌ क्रमात्‍ ॥ एकेन त्दृदयं शीर्षं तावताथो द्वयं द्वयात्‍ ॥४३॥
चतुर्भिर्नयनं तद्वदस्त्रमे केन कीर्तितम्‍ ॥ दृकूश्रोत्रनासाद्वितये जिह्राह्रन्नाभिगृह्यके ॥४४॥
व्यापकत्वेन सर्वांगे मूर्द्धा दिप्रदावधि ॥ न्युसेद्विद्याक्षराण्येषु स्थानेषु तदनं तरम्‍ ॥४५॥
समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु ॥ अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम्‍ ॥४६॥
येन देवे सुप्रसन्ना ददातीष्टम यत्नतः ॥ बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम्‍ ॥४७॥
हारग्रैवेयकांचीभिरुर्मिकानूपुरादिभिः ॥ मंडितां रक्तवसनां रत्नाभरणशोभिताम्‍ ॥४८॥
षड्‌भुजां त्रीक्षणामिंदुकलाकलितमौलिकाम्‍ ॥ पञ्चाष्टषोडशद्वंद्वषक्टोणचतुरस्त्रगाम्‍ ॥४९॥
मंदस्मितलसद्वक्त्रां दयामंथरवीक्षणाम्‍ ॥ पाशांकुशी च पुंड्रेक्षुचापं पुष्पशिलीमुखम्‍ ॥५०॥
रत्नपात्रं सीधुपूर्ण वरदं बिभ्रतीं करैः ॥ ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः ॥५१॥
तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी ॥ कामेश्वर्यादिरादिः स्याद्रश्वापरिस्थरारसः ॥५२॥
धरायुक्सचरा पश्वात्स्थिरा पश्वाद्रसः स्मृतः ॥ स्थिराशून्येऽग्निसंयुक्ते रसः स्यात्तदनंतरम्‍ ॥५३॥
स्थिरा भूसहिता गोत्रा सदाहोऽग्रिरसः स्थिरा ॥ नभश्व मरुता युक्तं रसवर्णसमन्वितम्‍ ॥५४॥
ततो रसः स्थिरा पश्वान्मरुता सह योजिता ॥ अंबहंसचरोऽथोक्तो रसोऽथ स्यात्सिथिरा पुनः ॥५५॥
स्थिराधरान्विता हंसो व्याप्तेन च चरेण च ॥ रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक्‍ ॥५६॥
रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत्‍ ॥ रयः शून्यं चाग्रियुतं ह्रदाहंसाच्च तत्परम्‍ ॥५७॥
रसः स्थिरांबुच वियत्स्वयुतं प्राण एव च ॥ दाहोऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुताः ॥
सचरः स्याज्जवीपूर्वविद्यां तर्तियतः क्रमात्‍ ॥५८॥
चतुष्टयमथार्णानां रसस्तदनु च स्थिरा ॥ ह्रदंबुयुक्‍ क्ष्मया दाहः सचर्ह स्याज्जवी च त्दृत्‍ ॥५९॥
दाहोंऽबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः ॥ स्थिरा तु मरुता युक्ता शून्यं साग्निनभ श्वरौ ॥६०॥
हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोंऽबु च ॥ दाहो गोत्राचरयुता तथा दाहस्तथा रयः ॥६१॥
ह्रद्धरासहितं दाहरयौ चरसमन्वितौ ॥ रसः स्थिराततः प्राणो रसान्गिसहितो भवेत्‍ ॥६२॥
शून्ययुग्मं चरयुतं ततः पूर्वमतः परम्‍ ॥ शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः ॥६३॥
प्राणो रसा चरयुतो गोत्रव्यसिमतः परम्‍ ॥ गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत्‍ ॥६४॥
युक्तोनांभश्व भूयुक्तं वाश्वरेण समन्वितम्‍ ॥ ग्रासो धरायुतः पश्वाद्रसः शक्तया समन्वितः ॥६५॥
ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्व ह्रतू ॥ दाहोनांबु च त्दृत्पश्वाद्रयेंऽबुमरुदन्वितः ॥६६॥
शून्यं च केवलं चैव रसश्व सचरस्थिरा ॥ वियंदबुयुतं दाहस्त्वग्नियुक्त्सयुतः शुचिः ॥६७॥
भूमी रसाक्ष्मायुता पंचैकांतरिताः स्थिताः ॥ तदंतरित बीजानि स्वंसयुक्तानि पंच वै ॥६८॥
तानि क्रमाज्ज्यासचरो रसो भूश्व न भोयूता ॥ हंसश्वरयुतो द्विः स्यात्तथ प्राणो रसान्गियुक्त्‍ ॥६९॥
शून्य युग्मं चरयुतं हद्दाहोंबुमरुद्युतः व्योमाग्निसहितं पश्वाद्रसश्व मरुता स्थिरा ॥७०॥
शून्यं साग्निनभश्चैव चरेण सहितं तथा ॥ अंबु पश्वाद्वियत्तस्मान्न भश्व मरुदान्वितम्‍ ॥७१॥
शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्रिभिः ॥ हंसः सदाहोंबुरसा चरस्वैः संयुतो भवेत्‍ ॥७२॥
हंसः सदाहवह्रिस्वैर्युक्त मंत्यमुदीरितम्‍ ॥ सप्तात्रिंशच्छतार्णैः स्यान्नित्या सौभगमालिनी ॥७३॥
अंगानि मंत्रवर्णैः स्युराद्येन ह्रद्य्दीरितम्‍ ॥ ततश्वतुर्भिः शीर्षे स्याच्छिरवा त्रिभिरुदीरिता ॥७४॥
गुणवेदाक्षरैः शेषाण्यंगानि षडिति क्रमात्‍ ॥ अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम्‍ ॥७५॥
त्रिनेत्रां बाहुभिः षड्भि रुपेतां कमलासनाम्‍ ॥ कह्रारपाशपुंड्रेक्षुकोदंडान्वामबाहुभिः ॥७६॥
दधानां दक्षिणैः पद्ममंकुशं पुष्पसायकम्‍ ॥ तथाविद्याभिः परितो युतां शक्तिगणैः स्तुतैः ॥७७॥
अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदान्मभिः ॥ एषा तृतीया कथिता वनिता जनमोहिनी ॥७८॥
चतुर्थी श्रृणु विप्रेन्द्र नित्यक्लिन्नासमाह्रयाम्‍ ॥ हंसस्तु दाहवह्रिस्वैर्युक्तः प्रथममुच्यते ॥७९॥
कामेश्वर्यास्तृतीयादिवर्णानामष्ट्रकं भवेत्‍ ॥ह्रदंबुमरुता युक्तः स एवै कादशाक्षरः ॥८०॥
एकादशाक्षरी चेय विद्याणैरंगकल्पनम्‍ ॥ आद्येन मन्त्रवर्णेन ह्रदयं समुदीरितम्‍ ॥८१॥
द्वाभ्यां द्वाभ्यां तु शेषाणि अंगानि परिकल्पयेत्‍ ॥ न्यसेदंगुष्ठमूलादिकनिष्ठाग्रांतमूर्द्धगम्‍ ॥८२॥
शेषं तद्वलये न्यस्य हद्दक्च्छ्रोत्रे नसोर्द्वयोः ॥ त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत्‍ ॥८३॥
अरुणामरुणाकल्पामरुणांशुकधारिणीम्‍ ॥ अरुणस्त्रग्विलेपां तां चारुस्मेरमुखांबुजाम्‍ ॥८४॥
नेत्रत्रयोल्लसद्वक्रां भाले घर्मांबुमौक्तिके ॥ विराजमानां मुकुटलसदर्द्धैदुशेखराम्‍ ॥८५॥
चतुर्भिर्बाहुभिः पाशमंकुशं पानपात्रकम्‍ ॥ अभय विभ्रतीं पद्ममध्यासीनां मदालसाम्‍ ॥८६॥
ध्यात्वैवं पूजयेन्नित्यक्लिन्नां नित्यां स्वशक्तिभिः ॥ पुण्या चतुर्थी गदिता नित्याक्लिन्नह्रया मुने ॥८७॥
वनिता नव नीतस्य दाविकाग्रिर्जयादिना ॥ भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः ॥८८॥
रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता ॥ ज्या च दाहेन तद्युक्ता नित्याक्लिन्नांतगद्वयम्‍ ॥८९॥
एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा ॥ प्रणवं ठद्वयं त्यक्ता मध्यस्थेः षड्भिरक्षरैः ॥९०॥
षदंगानि प्रकुर्वीत वर्णन्यासं ततः परम्‍ ॥ रंध्राद्यामुखकंठेषु हन्नाभ्यां धारयद्वयम्‍ ॥९१॥
न्यसेन्मंत्रार्णनवकं मातृकान्यासपूर्वकम्‍ ॥ अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम्‍ ॥९२॥
तप्तकांचनसंकाशदेहां नेत्रत्रयान्विताम्‍ ॥ चारुस्मितां चितमुखीं दिव्यालंकारभूषिताम्‍ ॥९३॥
ताटंकहारकेयूररत्नस्तबक मंडिताम्‍ ॥ रसनानूपुरोर्भ्यादिभूषर्णैरतिसुन्दरीम्‍ ॥९४॥
पाशांकुशौ चर्मखङौ गदावह्रिधनुःशरान्‍ ॥ करैर्दधानामासीना पूजायां मन्पसा स्थिताम्‍ ॥९५॥
शक्तिश्व तत्समाकारतेजोहेतिभिरन्विताः ॥ पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः ॥९६॥
पंचमीय समाख्याला भेरुडाख्या मुनीश्वर ॥ यस्याः स्मरणतो नश्येद्ररलं त्रिविधं क्षणात्‍ ॥९७॥
या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्रिवासिनी ॥ तद्विधानं श्रृणुष्वाद्य साधकानां सुसिद्धिदम्‍ ॥९८॥
भेरुंडाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनंतरम्‍ ॥ ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम्‍ ॥९९॥
ह्रदगिना युतं शून्यं व्याप्तेन शुचिना च युक्‍ ॥ शून्यं नभः शक्तियुतं नवार्णैयमुदाहता ॥१००॥
विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत्‍ ॥ मायांतान्षड्भिरेवां गान्याचरेत्सकरांगयोः ॥१०१॥
नवाक्षराणि विद्याया नवरंध्रेषु विन्यसेत्‍ ॥ व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये ॥१०२॥
सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत्‍ ॥ तप्तकांचनसंकाशां नवयौवनसुन्दरीम्‍ ॥१०३॥
चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम्‍ ॥ अष्टाभिर्बाहुभिर्युक्तां माणिक्योभरणोज्ज्वलाम्‍ ॥१०४॥
पद्मरागकिरीटांशुसंभेदारुणितांबराम्‍ ॥ पीतकौशेयवसनां रत्नमजीरमेखलाम्‍ ॥१०५॥
रक्तमौक्तिकसं भिन्नस्तबकाभरणोज्ज्वलाम्‍ ॥ रत्नाब्जकंबुपुंड्रेक्षुचापपूर्णेन्दुमंडलम्‍ ॥१०६॥
दधानां बाहुभिर्वामैः कह्रारं हेमश्रृंगकम्‍ ॥ पुष्पेषुं मातुलिंगं च दधानां दक्षिणैः करैः ॥१०७॥
स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम्‍ ॥ एवं ध्यात्वार्चयेद्वह्रिवासिनीं वह्रिविग्रहाम्‍ ॥१०८॥
यस्याः समस्ता वश्यं जायते भुवनत्रयम्‍ ॥ अथ या सप्तमी नित्या महावज्रेश्वरी मुने ॥१०९॥
तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम्‍ ॥ द्वितीयं वह्रिवासिन्या नित्यक्लिन्ना चतुर्थकम्‍ ॥११०॥
पंचमं भगमालाद्यं भेरुंडाया द्वितीयकम्‍ ॥ नित्यक्लिन्नद्वितीयं च तृतीयं षष्ठसप्तमौ ॥१११॥
अष्टम नवमं चापि पूर्व स्यादंतिमं पुनः ॥ द्वयमेकैकमथ च द्वयद्वयमथ द्वयम्‍ ॥११२॥
मायया पुटितं कृत्वा कुर्यादंगानि षट्‌ क्रमात्‍ ॥ प्रत्येकं शक्ति पुटितैर्मंत्रार्णैर्दशाभिर्न्यसेत्‍ ॥११३॥
दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात्‍ ॥ रक्तां रक्तांबरां रक्तगंधमालाविभूषणाम्‍ ॥११४॥
चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम्‍ ॥ पाशांकुशामिक्षुचापं दाडिमीशायकं तथा ॥११५॥
दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः ॥ पश्यंती साधके  अस्त्रषट्कोणाब्जमहीतरे ॥११६॥
चक्रमध्ये सुखासीनां स्मेरवक्रसरोरुहाम्‍ ॥ शक्तिभिः स्वस्वरुपाभिरावृतां पीतमध्यगाम्‍ ॥११७॥
सिंहासनेऽभितः प्रेंखत्पोतस्थाभिश्व शक्तिभिः ॥ वृतां ताभिविनोदानि यातायातादिभिः सदा ॥११८॥
कुर्वाआमरुणांभोधौ चिंतयेन्मन्त्रनायकम्‍ ॥ एषा तु सप्तमी प्रोक्ता दूतीं चाप्यष्टमीं श्रृणु ॥११९॥
वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः ॥ अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः ॥१२०॥
रयोव्या सेन शुचिना युतः स्यात्तदनंतरम्‍ ॥ अत्यार्णा वह्रिवासिन्यां दूती नित्या समीरिताः ॥१२१॥
षड्‌दीर्घस्वरयुक्तेन विद्यायाः स्यात्षंडंगकम्‍ ॥ तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसू ॥१२२॥
षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत्‍ ॥ निदाघकालमध्याह्रदिवाकरसमप्रभाम्‍ ॥१२३॥
नवरत्नदिकिरीटां व त्रीक्षणामरुणांबराम्‍ ॥ नानाभरणसंभिव्रदेहकांतिविराजिताम्‍ ॥१२४॥
शुचिंस्मितामष्टभुजां स्तूयमानां महर्षिभिः ॥पाशंखेटं गदां रत्नचषकं वामबाहुभिः ॥१२५॥
दक्षिणैरंकुशं खङुं कमलं तथा ॥ दधानां साधकाभीष्टदानोद्यसमन्विताम्‍ ॥१२६॥
ध्यात्वैवं पूजयेद्देवीं दूर्ती दुर्नीतिनाशिनीम्‍ ॥इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी ॥१२७॥
श्रीकरी शिवतावसकारिणी सर्वैसिद्धिदा ॥ अथ ते नवमीं धरा त्वरितां नमा नारद ॥१२८॥
प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम्‍ ॥ आघ्रं तु वह्रिवासिन्या दूत्यादिस्तदनन्तरम्‍ ॥१२९॥
हंसो धरा स्वयं युक्तस्तेजश्वरसमन्वितम्‍ ॥ वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः ॥१३०॥
ह्रदार येण दाहेन वह्रिस्वावष्टमं तथा ॥ हंसः क्ष्मारवंयुतो ग्रासश्वरयुक्तो द्वितीयकः ॥१३१॥
द्वितिर्नादयुता नित्या त्वरिता द्वादशक्षरी ॥ विद्या चतुर्थवर्णा दिसप्तभिस्त्वक्षरैस्तथा ॥१३२॥
कुर्यादंगानि युग्मार्णैः षट्‌क्रमेण करांगयोः शिरोललाटकंठेषु त्दृन्नाभ्याधारके तथा ॥१३३॥
ऊरुयुग्मे तथा जानुद्वये जंघाद्वये तथा ॥ पादयुग्मे तथा वर्णान्मंत्रजान्दशं विन्यसेत्‍ ॥१३४॥
द्वितीयोपांत्यमध्यस्थैर्मंत्रार्णौरितरैरपि ॥ ताराद्यैः श्रृणु तद्धायानं सर्वसिद्धिविधायकम्‍ ॥१३५॥
श्यामवर्णशुभाकारां नवयौवनशोभिताम्‍ ॥ द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः ॥१३६॥
ताटंकमंगदं गद्वद्रसना नूपुरं च तैः ॥ विप्रक्षत्रियविट्‌शूद्रजातिभिर्भी मविग्रहैः ॥१३७॥
पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः ॥ वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम्‍ ॥१३८॥
बर्हिबर्हकृतापीडां तच्छत्रां तत्पताकिनीम्‍ ॥ गुंजागुणलसद्वक्षःकुचकुंकुममंडलाम्‍ ॥१३९॥
त्रिनेत्रां चारुवदनां मंदस्मितमुखांबुजाम्‍ ॥ पाशांकुशवराभीतिलसद्धुज चतुष्टयाम्‍ ॥१४०॥
ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम्‍ ॥ तदग्रस्था लु फट्‌कारी शरचापकरोज्ज्वला ॥१४१॥
प्रसीदेत्फलदाने च साधकाना त्वरान्विता ॥ एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वरो ॥१४२॥
विघ्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी ॥ शुचिः स्वेन युतस्त्वाद्यो रसावह्रिसमन्वितः ॥१४३॥
प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः ॥ इतीरिता त्र्य्क्षराख्या नित्येयं कुलसुंदरी ॥१४४॥
यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते ॥ त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडंगकम्‍ ॥१४५॥
आदिमध्यावसानेषु पूजाजविधिक्रमात्‍ ॥ प्रत्येक तैस्त्रिभिर्बीजै र्दीर्घस्वसमन्वितैः ॥१४६॥
कुर्यात्करांगवक्राणां न्यासं प्रोक्तं यथाविधि ॥ ऊर्द्धप्राग्दक्षिणोदक्च पश्चिमाधस्नामभिः ॥१४७॥
सुविनंद्यतरस्थैस्तन्न दात्मसु यथाक्रमम्‍ ॥ आधारर्ध्रह्रत्स्वेकं द्वितीयं लोचनत्रये ॥१४८॥
तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु ॥ पंचमं चांसनाभीषु ततः पाणिपद द्वये ॥१४९॥
मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः ॥ लोहितां लोहिताकारशक्तिवृंदनिषेविताम्‍ ॥१५०॥
लोहितांशुकभूषास्त्रग्लेपनां षन्मुखांबुजाम्‍ ॥ अनर्घ्यरत्नघटितमाणिक्यमुकुटोज्वलाम्‍ ॥१५१॥
रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम्‍ ॥ कारुण्यानंदपरमा मरुणांबुजविष्टराम्‍ ॥१५२॥
भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाङ्‌मयीम्‍ ॥ प्रवालाक्षस्त्रंजं पद्मं कुंडिकां रत्ननिर्मिताम्‍ ॥१५३॥
रत्नपूर्ण तु चषकं लुंगी व्याख्यानमुद्रिकाम्‍ ॥ दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम्‍ ॥१५४॥
हैमीं च लेखनीं रत्नमालां कंबुवरं भुजैः अभितः स्तूयमानां च देवगंधर्वकिन्नरैः ॥१५५॥
यक्षराक्षसदैत्यर्षिसिद्धाविद्याधरादिभिः ॥ ध्यात्वेवमर्चयेन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये ॥१५६॥
सितां केवलवाक्सिद्धयैं लक्ष्म्यै हेमप्रभामपि ॥ धूमाभां वैरिविद्विष्टयै मृतये निग्रहाय च ॥१५७॥
नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया ॥इत्येषा दशमी नित्या प्रोक्ता ते कुलसुन्दरी ॥१५८॥
नित्यानित्यां तु दशमीं त्रिकुटां वच्मि सांप्रतम्‍ ॥ हंसश्व त्दृत्प्राणरसादाहकर्णैः समन्वितः ॥१५९॥
विद्यया कुलंसुदर्या योजितः संप्रदायतः ॥ नित्यानित्यत्रिवर्णैयं षडूभिः कूटाक्षरैर्युता ॥१६०॥
प्रतिलोमादिभी रुपैर्द्विसप्ततिभिदा मता ॥ यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी ॥१६१॥
निग्रहानुग्रहौ कर्तुं क्षमः स्याद्धुवनत्रये ॥ दीर्घस्वरसमेताभ्यां हंसत्दृघां षडंगकम्‍ ॥१६२॥
भ्रूमध्ये कण्ठह्रन्नाभिगुह्याधारेषु च क्रमात्‍ ॥ विद्याक्षराणि क्रमशो न्यसेद्विंदुयुतानि च ॥१६३॥
व्यापकं च समस्तेन विधाय विधिना पुनः ॥ ध्यायेत्समस्त संपत्तिहेतोः सर्वात्मिकां शिवाम्‍ ॥१६४॥
उद्यद्धास्करबिंबाभां माणिक्यमुकुटोज्ज्वलाम्‍ ॥ पद्मरागकृताकल्पामरुणांशुकधारिणीम्‍ ॥१६५॥
चारुस्मितलसद्वक्रषटूसरोजविराजिताम्‍ ॥ प्रतिवक्रं त्रिनयनां भुजैर्द्वादशभिर्युताम्‍ ॥१६६॥
पाशाक्षगुणपुंड्रेक्षेचापखेटत्रिशूलकान्‍ ॥ करैर्वामैर्द धानां च अङुंश पुस्तकं तथा ॥१६७॥
पुष्पेषुमंबुजं चैव नृकपालाभये तथा ॥ दधानां दक्षिणैहस्तैर्ध्यायेद्देवीमनन्यधीः ॥१६८॥
इत्येषैका दशी प्रोक्ता द्वादशीं श्रॄणु नारद ॥ त्वरितोयांत्यमाद्यं स्याद्युतिदोहचस्वयुक्‍ ॥१६९॥
ह्रच्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा ॥ मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः ॥१७०॥
भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः ॥ क्रमात्‍ ॥ षडक्षराणि त्वरिता तृतीयं तदनंतरम्‍ ॥१७१॥
द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम्‍ ॥ उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी ॥१७२॥
द्विद्विपक्षक्षिषड्‌वर्णैर्मंत्रोत्थैरंगकल्पनम्‍ ॥ श्रोत्रादिनासायुगले वाचि कण्ठे त्दृदि क्रमात्‍ ॥१७३॥
नाभावाधारकेऽथापि पादसंधिषु च क्रमात्‍ ॥ मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशपि च ॥१७४॥
व्यापकं च समस्तेन विदध्याच्च यथाविधि ॥ इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम्‍ ॥१७५॥
पञ्चवक्रां त्रिनयनामरुणांशुकधारिणीम्‍ ॥ दशहस्तां लस न्मुक्तामण्याभरणंमडिताम्‍ ॥१७६॥
रत्नस्तबकसंपन्नदेहां चारुस्मिताननाम्‍ ॥ पाशं पताकां चर्मापि शार्ङचापं वरं करैः ॥१७७॥
दधानां वाम पार्श्वस्थैः सर्वाभरणाभूषितैः ॥ अंकुश च तथा शक्तिं खङुं बाणं तथाभयम्‍ ॥१७८॥
दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ॥ स्वाकारवर्ण वेषास्यपाण्यायुधविभूषणैः ॥१७९॥
शक्तिवृदेर्वृता ध्यायेद्देवीं नित्यार्चनक्रमे ॥ त्रिषट्रकोणयुतं पद्ममष्टपत्रं बहिः ॥१८०॥
अष्टास्त्र भूपुरद्वन्द्वावृतं तत्पुरयुगमकम्‍ ॥ चतुर्द्वारयुतं दिक्षु शाखाभिश्व समन्वितम्‍ ॥१८१॥
कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयोच्छिवाम्‍ ॥ एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी ॥१८२॥
समरे विजयं खङुपादुकांजनसिद्धिदा ॥ वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी ॥१८३॥
निधानाबिलसिद्धन्नसाधिनी कामचोदिता ॥ अथ त्रयोदेशो नित्यां वक्ष्यामि श्रृणु नारद ॥१८४॥
रसो नभस्तभा दाहो व्याप्तक्ष्मावनपूर्विका ॥ खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने ॥१८५॥
विद्याया व्यंजनैर्दीर्घस्वयुक्तैश्वतुष्टयम्‍ ॥ शेषाभ्यां च द्वय्म कुर्यात्षडंगानि कारांगयोः ॥१८६॥
ज्ञानेंद्रियेषु श्रोत्रदिष्वथ चित्ते च विन्यसेत्‍ ॥ अक्षराणि क्रमाद्विन्दुयुतान्यन्यतु पूर्ववत्‍ ॥१८७॥
पञ्चवक्रां दशभुजां प्रतिवक्रं त्रिलोचनाम्‍ ॥ भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम्‍ ॥१८८॥
सर्वाभरणसंयुक्तां पीतांबरसमुज्ज्वलाम्‍ ॥ उद्यद्धास्वद्विंबतुल्यदेहकांतिं शुचिस्मिताम्‍ ॥१८९॥
शंखं पाशं खेटचापौ कह्रारं वामबाहुभिः ॥ चक्रं तथांकुशं खङुं सायकं मातुलुंगकम्‍ ॥१९०॥
दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम्‍ ॥ उपासनेति सौम्यां च सिंहोपरि कृतासनाम्‍ ॥१९१॥
व्याघ्रारुढाभिरभितः शक्तिभिः परिवारिताम्‍ ॥ समरे पूजनेऽन्येषु प्रयोगेषु सुखासनाम्‍ ॥१९२॥
शक्तयश्वापि पूजायां सुखासनसमन्विताः ॥ सर्वा देव्याः समाकारमुखपाण्यायुधा अपि ॥१९३॥
चतुरस्त्रद्वयं कृत्वा चतुर्द्वारोपशोभितम्‍ ॥ शाखाष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत्‍ ॥१९४॥
तदंतर्वृत युग्मांतरष्टकोणं विधाय तु ॥ तदंतश्व तथा पद्मं षोडशच्छदसंयुतम्‍ ॥१९५॥
तथैवाष्टच्छद पद्मं विधायावाह्य तत्र ताम्‍ ॥ तत्तच्छत्तया वृतां सम्य गुपचारैस्तथार्चयेत्‍ ॥१९६॥
एषा त्रयोदशी प्रोक्ता वादे युद्धे जयप्रदा ॥ चतुर्दशीं प्रवक्ष्येऽथ नित्यां वै सर्वमंगलाम्‍ ॥१९७॥
ह्रदंबुवनयुक्तं खं नित्या स्यात्सर्वमंगला ॥१९८॥
एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात्‍ ॥ षड्‌दीर्घाढ्यो मूलविद्यां षडंगेषु प्रविण्यसेत्‍ ॥१९९॥
तां नित्यां जात रुपाभां मुक्तामाणिक्यभूषणाम्‍ ॥ माणिक्यमुकुटां नेत्रद्वयप्रेंखद्दयापराम्‍ ॥२००॥
द्विभुजां शासनां पद्मे त्वष्टषोडशतद्वयैः ॥ पत्रैरुपेते सचतुद्वारं भूसद्मयुग्मके ॥२०१॥
मातुलिंगफलं दक्षे दधानां करपंकजे ॥ वामेन निजभक्तानां प्रयच्छंती धनादिकम्‍ ॥२०२॥
स्वसमानाभिरभितः शक्तिभिः परिवारिताम्‍ ॥ षट्‌सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम्‍ ॥२०३॥
प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकम्‍ ॥ एषा चतुर्दशी प्रोक्ता तथा पंचदशीं श्रृणु ॥२०४॥
भूः शून्यं नभसा भूश्व रसश्वाथ स्थिरांबु च ॥ रयोग्निना युतीज्यांमरुद्युक्तारसा मरुत ॥२०५॥
नभश्व मरुता युक्तं रसा शून्येऽपि संयुते ॥ गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा ॥२०६॥
अंब्वग्री हरच्च दाहांबुरसक्ष्मरयह्रत्स्वयुक्‍ ॥ हंसश्व मरुता दाहः प्राणश्व मरुता युतः ॥२०७॥
दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः ॥ चरेणांबु च गोत्राह्रत्साग्निर्ज्यांबुरसा स्वयुक्‍ ॥२०८॥
रयः साग्निर्ज्यांबुरसा पुनरेते जवी ततः ॥ दाहेनानेन ते द्विः स्याद्धस्वो दाहमरुत्स्वयुक्‍ ॥२०९॥
हंसः सदाहवह्रिस्वो दाहक्ष्मास्वयुतश्व सः ॥ सप्तदाहास्ततोऽस्याः स्युरष्ट माद्यास्तु पंच ते ॥२१०॥
उपांत्याधः स्थितं नीलपताकाय अन्तरम्‍ ॥ त्वरिता त्वं च भेरुंडाष्टमं च नवमं तथा ॥२११॥
सा ज्वालामालिनी नित्या त्रिषष्टयर्णा समीरिता ॥ एकद्वयचतुःपंचतुष्टयद्शाक्षरैः ॥२१२॥
कुर्यादंगानि मूलार्णैरादितः षटरांगयोः ॥ शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम्‍ ॥२१३॥
ज्वलज्ज्वलनसंकाशां माणिक्यमुकुटोज्ज्वलाम्‍ ॥ षड्‌वक्रां द्वादशभुजां सर्वाभरणभूषिताम्‍ ॥२१४॥
पाशांकुशौ खङु खेटौ चापबाणौ गदादरौ ॥ शूलवह्री वराभीती दधानां करपंकजैः ॥२१५॥
स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम्‍ ॥ चारुस्मितलसद्वक्र सरोजां त्रीक्षणान्विताम्‍ ॥२१६॥
ध्यात्वेवमुपचारैस्तैरर्चयेत्तां तु नित्यशः ॥ चतुरस्त्रद्वयं कृत्वा चतुर्द्वारसमन्वितम्‍ ॥२१७॥
सशाखमष्टपत्राब्जमंतरा त्र्यस्त्रकं ततः ॥ षट्कोणं मध्यतस्त्र्यस्त्रं विधायात्र शिवां यजेत्‍ ॥२१८॥
एषा पंचदशी प्रोक्ता षोडशीं श्रृणु नारद ॥ वायुप्रणवतत्त्वैस्तु  चित्रास्तादक्षरद्वया ॥२१९॥
या सिद्धा धनधान्यत्मनिधिलाभाय कल्प्यते ॥ विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात्‍ ॥२२०॥
षडंगानि यथापूर्वं मातृकां विद्यया न्यसेत्‍ ॥ उद्यददित्यबिंबाभां नवरत्नविभूषणाम्‍ ॥२२१॥
नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम्‍ ॥ चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम्‍ ॥२२२॥
सर्वानंदमयीं नित्यां समस्तेप्सितदायिनीम्‍ ॥ चतुर्भुजेषु वै पाशंमकुशं वरदाभये ॥२२३॥
दधानां मंगलां पद्मकर्णिकायोनिमध्यगाम्‍ ॥ तच्छक्तिभिश्व तच्चक्रे तथैवार्चनमीरितम्‍ ॥२२४॥
प्राणदाहो धरायुक्तो पुनराद्यं रसे मरुत्‍ ॥ व्यांस मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम्‍ ॥२२५॥
अस्या आद्यं रसायुग्मं चरणेन प्रयोजितम्‍ ॥ दाहेन वह्रिशक्तिभ्यां युतो हंसस्तथ परम्‍ ॥२२६॥
नभो दिर्त्दृअत्सदाहांबुज्या शून्यं स्वेन संयुतम्‍ ॥ अंबु पश्वाद्विषयुक्तं मरुता तु नभोयुतम्‍ ॥२२७॥
शून्यं व्याप्तं भुवा हंसः पूर्वांत्यौ स्यान्मनुत्रयम्‍ ॥ अस्याः षष्ठादिपंचार्णी दैत्यास्यादाद्य ईरितः ॥२२८॥
एकादशाक्षरादंत्या द्वितीयः खंड ईरितः ॥ तृतीयः पंचर्विंशार्णः प्रोक्ता मंत्रा इति क्रमात्‍ ॥२२९॥
बाला बीजत्रयाद्यैर्विस्त्रिभिर्मंत्रैः षदंगकम्‍ ॥ विकीर्णकुंतलां नग्नां रक्तामानंदविग्रहाम्‍ ॥२३०॥
दधानां चिंतयेद्वाणचापपाशसूणी करैः ॥ तत्भूमानायुधाकारवर्णा देव्यस्तु बा ॥२३१॥
ऋतस्त्राताः स्फुरद्यौन्यः सदानंददारुणेक्षणाः ॥ इत्येषां कुरुकुल्लांते प्रोक्ता चंद्रावली स्वयम्‍ ॥२३२॥
वाराहीमाभिधास्यामि ललितायाः परा तनुः ॥ शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्रसस्थिरा ॥२३३॥
अबुं पश्वाद्रयः साग्निर्मरुतांबुरयौ तथा ॥ इलायुतोऽग्निरेतानि पुनरंबुमरुद्युतम्‍ ॥२३४॥
दाहांबुमरुताहंसरस्त्वग्नितैतत्रयं पुनः ॥ अम्बुदाहौ मरुद्युक्तौ हंसोऽथ धरया नभः ॥२३५॥
तेजोग्निना पुनः पंच वात स्वेन समायुतः ॥ तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः ॥२३६॥
शून्यं व्याप्तेन शुचिना शून्य्म शक्तया नभो युतम्‍ ॥ दाहो धरा स्वसहितस्तोयं चरसमन्वितम्‍ ॥२३७॥
एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम्‍ ॥ ज्याख्येन युक्ता सचरो रभश्वैतस्य पूर्वकम्‍ ॥२३८॥
रसोऽग्र्निना पुनः प्रोक्ता चतुष्का अपयं ततः ॥ शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम्‍ ॥२३९॥
हंसोऽग्निना प्राकू त्रितयं त्दृदयं स्वसमायुतम्‍ ॥ रसश्वरेण तत्पूर्वमाग्निना च रसो युतः ॥२४०॥
पश्वादुक्तस्त्रयं वातो धरया च नभोन्वितम्‍ ॥ प्राणः स्वेन युतः पश्वाद्धदयस्वयुतं रसः ॥२४१॥
व्याप्तमेतत्रयं पश्वाद्दाहेनांबु समन्वितम्‍ ॥ गोत्राभरायुता स्पर्शो नादयुक्तो जर्वीयुतः ॥२४२॥
दाहेन पूर्वपूर्व च पूर्वं च मरुता युतम्‍ ॥ शून्यं मरुत्स्वसहितं ह्रद्दाहेनांबुना चरः ॥२४३॥
स्पर्शो मरुत्स्वसहितो ह्र्द्दाहेनांबुसंयुतम्‍ ॥ ज्याग्रिः स्वसंयुतो इंसस्तथांबु मरुता सह ॥२४४॥
ह्रद्रूप्रेण स्वेन युतं रसश्व स्वेन संयुतः ॥ प्राणदाहौ पुनस्तौ वह्रिना वियत्‍ ॥२४५॥
वार्द्दाहयुक्तमंबु स्यादिषष्टयासस्वसंयुतम्‍ ॥ पूर्वाद्विरुक्तवर्णो च शुद्धिः स्वेन युतस्तथा ॥२४६॥
स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक्‌ ॥ युतिर्नादवती पश्वाद्‌धृदंबुमरुता युतम्‍ ॥२४७॥
हंसश्व मरुता विद्यः दशोत्तरशताक्षरी ॥ वाराही पंचमी विश्वविजया भद्रक्ॐउदी ॥२४८॥
वार्तालीति च विख्यात स्तंभनाद्यखिलेष्टदा ॥ अंगानि कुर्यान्मंत्रार्णैः सप्तभि षड्‌भिरेव च ॥२४९॥
दशभिः सप्तभिः सप्तसंख्यैर्जातिभिरर्दिताः ॥ त्रिकोणवृत्तषट्रकोणवृत्तद्वयसमन्वितम्‍ ॥२५०॥
विधाय चक्रं तत्रैव स्वनामलिख्य पूजयेत्‍ ॥ ध्यायेच्च देवीं कीलास्यां ततः कांचनसन्निभाम्‍ ॥२५१॥
आकंठं वनितारुपां ज्वलत्पिंगसरोरुहाम्‍ ॥ त्रिनेत्रामष्टहरता च चक्रं शंख मथांकुशम्‍ ॥२५२॥
पाशं च मुशलं शीर्षमभयं वरदं तथा ॥ दधानां गरुडस्कन्धे सुखावासीनां विचितयेत्‍ ॥२५३॥
नित्यपूजासु तच्छक्तीस्तत्स मानाः स्मरेन्मुने ॥ प्रयोगेषु स्मरद्देवीं सिंहस्थां व्याघ्रगामपि ॥२५४॥
गजारुढां ह्यारुढां तार्भ्यारुढां च शक्तिभिः ॥ श्यामामप्यरुणां पीतामसि तांबोजविग्रहाम्‍ ॥२५५॥
तत्तत्त्प्रयोगेषु तथा ध्यायत्तत्तदवाप्तये ॥ अरुणां पंचमीं वश्ये पीतां स्तंभनके स्मरेत्‍ ॥२५६॥
श्यामां च दुर्गमे च दुर्गमे मार्गे सितां युद्धेऽरिनष्टयं ॥ धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः ॥२५७॥
एताः षोडश नित्यास्ते संक्षेपात्समुदीरिताः ॥ भजतामिष्टदाः सद्यः सर्वपापक्षयंकराः ॥२५८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरुपंच नामाष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP