श्री नारदीयमहापुराणम् - चतुःसप्ततितमोऽध्यायः
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
सनत्कुमार उवाच ॥
अथोच्यंते हनुमतो मंत्राः सर्वेष्टदायकाः ॥ यान्समाराध्य विप्रेंद्र तत्तुल्याचरणा नराः ॥१॥
मनुः स्वरेंदुसंयुक्तं गगनं च भगान्विताः ॥ हसफाग्निनिशाधीशाः द्वितीयं बीजमीरितम् ॥२॥
स्वफाग्नयो भगेंद्वाढ्यास्तृतीयं बीजमीरितम् ॥ वियद्धृग्वग्निन्विंदुयुक्तं स्याच्च चतुर्थकम् ॥३॥
पंचमं भगचंद्राढ्यावियदूभृगुस्वकाग्नयः ॥ मन्विंद्वाढ्यौ हसौ षष्ठं ङेंतः स्याद्धनुमांस्ततः ॥४॥
हृदयांतो महामंत्रराजोऽयं द्वादशाक्षरः ॥ रामचन्द्रो मुनिह्स्वास्य जगतीछंद ईरितम् ॥५॥
देवता हनुमान्बीजं षष्ठं शक्तिर्द्वितीयकम् ॥ षड्बीजैश्व षडंगानि शिरोभाले दृशोर्मुखे ॥६॥
गलबाहुद्वये चैव हृदि कुक्षौ च नाभितः ॥ ध्वजे जानुद्वये पादद्वये वर्णान्क्रमान्न्यसेत् ॥७॥
षड्बीजानि पदद्वंद्वं मूर्ध्नि भाले मुखे ह्रदि ॥ नाभावूर्वौर्जंघयोश्व पादयोविन्यसेत्क्रमात् ॥८॥
अंजनीग र्भसंभूतं ततो ध्यायेत्कपीश्वर्म् ॥ उद्यत्कोट्यर्कसंकाशं जगत्प्रक्षोभकारकम् ॥९॥
श्रीरामांघ्रिध्याननिष्ठं सुग्रीवप्रमुखार्चितम् ॥ वित्रासयंतं नादेन राक्षसान्मारुतिं भजेत् ॥१०॥
ध्यात्वैवं प्रजपेद्धानुसहस्त्रं विजितेंद्रियः ॥ दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान् ॥११॥
पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प मूलतः ॥ आवाह्य तत्र संपूज्य पाद्यादिभिरुपायनैः ॥१२॥
केशरेष्वंगपूजा स्यात्पत्रेषु च ततोऽर्चयेत् ॥ रामभक्तो महातेजाः कपिराजो महाबलः ॥१३॥
द्रोणाद्रिहारको मेरुपीठकार्चनकरकः ॥ दक्षिणाशाभास्करश्व सर्वविघ्नविनाशकः ॥१४॥
इत्थं सम्पूज्यं नामानि दलाग्रेषु ततोऽर्चयेत् ॥ सुग्रीवमंगद नीलं जांबवंतं नलं तथा ॥१५॥
सुषेणं द्विविदं मैदं लोकपालस्ततोऽर्चयेत् ॥ वर्जाद्यानपि संपूज्य सिद्धश्वैवं मनुर्भवेत् ॥१६॥
मंत्रं नवशतं रात्रौ जपेद्दशदिनावधि ॥ यो नरस्तस्य नश्यंति राजशत्रूत्थभीतयः ॥१७॥
मातुलिंगाम्रकदलीफलैर्हृत्वा सहस्त्रकम् ॥ द्वाविंशतिब्रह्माचारि विप्रान्संभोजयेच्छुचीन् ॥१८॥
एवंकृते भूतविषग्रहरोगाद्युपद्रवाः ॥ नश्यंति तत्क्षणादेव विद्वेषिग्रहदानवाः ॥१९॥
अष्टोत्तरशतेनांबु मंत्रितं विषनाशनम् ॥ भूतापस्मारकृत्योत्थज्वरे तन्मंत्रमंत्रितैः ॥२०॥
भस्ममिः सलिलैर्वापि ताडयेज्ज्वरिणं क्रुधा ॥ त्रिदिनाज्ज्वरमुक्तोऽसौ सुखं च लभते नरः ॥२१॥
औषधं वा जलं वापि भुक्ता तन्मंत्रमत्रितम् ॥ सर्वान्रोगान्पराभूय सुखी भवति तत्क्षणात् ॥२२॥
तज्जप्तभस्मलिप्तांगो भुक्ता तन्मंत्रितं पयः ॥ योद्धुं गच्छॆच्च यो मंत्री शस्त्रसंघैर्न बाध्यते ॥२३॥
शस्त्रक्षतं व्रणस्फोटो लूतास्फोटोऽषि भस्मना ॥ त्रिर्जप्तेन च संस्पृष्टाः शुष्यंत्येव न संशयः ॥२४॥
जपेदर्कास्तमारभ्य यावदर्कोदयो भवेत् ॥ मन्त्रं सप्तदिनं यावच्चादाय भस्मकीलकौ ॥२५॥
निखनेदभिमत्र्याशु शत्रूणां द्वार्यलक्षितः ॥ विद्वेषं मिथ आपन्नाः पलायंतेऽयोऽचिरात् ॥२६॥
भस्मांबु चंदनं मंत्री मंत्रेणानेन मंत्रितम् ॥ भक्ष्यादियोजितं यस्मै ददाति स तु दासवत् ॥२७॥
क्रूराश्व जंतवोऽप्येवं भवंति वशवर्तिनः ॥ गृहीत्वेशानदिक्संस्थं करंजतरुमूलकम् ॥२८॥
कृत्वा तेनांगुष्ठमात्रां प्रतिमां च हनूमतः ॥ कृत्वा प्राणप्रतिष्ठां च सिंदूराद्यैः प्रपूज्य च ॥२९॥
गृहस्याभिमुखीं द्वारे निखनेमंत्रमुच्चरन् ॥ ग्रहाभिचाररोगाग्निविषचौरनृपोद्धवाः ॥३०॥
न जायंते गृहे तस्मिन् कदाचिदप्युपद्रवाः ॥ तदूगृहं धनपुत्राद्यैरेधते प्रत्यहं चिरम् ॥३१॥
निशि यत्र वने भस्म मृत्स्त्रया वापि यत्नतः ॥ शत्रोः प्रतिकृति कृत्वा हृदि नाम समालिखेत् ॥३२॥
कृत्वा प्राणप्रतिष्ठांतं भिंद्याच्छस्त्रैर्मनुं जपन् ॥ मंत्रांते प्रोच्चरेच्छत्रोर्नाम् छिंदि च भिंधि च ॥३३॥
मारयेति च तस्यांते दंतैरोष्ठं नीपीड्य च ॥ पाण्योस्तले प्रपीड्याथ त्यक्ता तं स्वगृहं व्रजेत् ॥३४॥
कुर्वन्सप्तदिनं चैवं हन्यान्छत्रुं न संशयः ॥ राजिकालवर्णैर्मुक्ता चिकुरः पितृकानने ॥३५॥
धत्तूरफलपुष्पैश्व नखरोमविषैरपि ॥ द्विक (काक) कौशिकगृध्राणां पक्षैः श्लेष्मांतकाक्षजैः ॥३६॥
समिद्धिस्त्रिशतं याम्यदिङ्मुखो जुहुयान्निशि ॥ एवं स सप्तदिनं कुर्वन्मारयेदुद्धतं रिपुम् ॥३७॥
वित्रासस्त्रिदिनं रात्रौ श्मशाने षट्शतं जपेत् ॥ ततो वेताल उत्थाय वदेद्धावि शुभाशुभम् ॥३८॥
किंकरीभूय वर्त्तेत कुरुते साधकोदितम् ॥ भस्मांबुमंत्रितं रात्रौ सहस्त्रावृत्तिकं पुनः ॥३९॥
दिनत्रयं च तत्पश्वात्प्रक्षिपेत्प्रतिमासु च ॥ यासु कासु च स्थूलासु लघुष्वपि विशेषतः ॥४०॥
मंत्रप्रभावाच्चलनं भवत्येव न संशयः ॥ अष्टम्यां वा चतुर्दश्यां कुजे वा रविवासरे ॥४१॥
हनुमत्प्रतिमां पट्टे माषैः स्नेहपरिप्लुतैः ॥ कुर्याद्रम्यां विशुद्धद्वात्मां सर्वलक्षणलक्षितम् ॥४२॥
तैलदीपं वामभागे घृतदीपं तु दक्षिणे ॥ संस्थाप्यावाहयेत्पश्वान्मूलमंत्रेण मंत्रवित् ॥४३॥
प्राणप्रतिष्ठा कृत्वा च पाद्यादीनि समर्पयेत् ॥ रक्तचंदनपुष्पैश्व सिंदूराद्यैः समर्चयेत् ॥४४॥
धूपं दीपं प्रदायाथ नैवेद्यं च समर्पयेत् ॥ अपूपमोदनं शाकमोदकान्वटकादिकम् ॥४५॥
साज्यं च तत्समर्प्याथं मूलमंत्रेण मंत्रवित् ॥ अखंडितान्यहिलतादलानि सप्तविंशतिम् ॥४६॥
त्रिधाकृत्वा सपूगानि मूलेनैव समर्पयेत् ॥ एवं संपूज्य मंत्रज्ञो जपेद्दशशतं मनुम् ॥४७॥
कर्पूरारार्तिकं कृत्वा स्तुत्वा च बहुधा सुधीः ॥ निजेप्सितं निवेद्याथ विधिवाद्विसृजेत्ततः ॥४८॥
नैवेद्यात्तेन संभोज्य ब्राह्मणान्सप्तसंख्यया ॥ निवेदितानि पर्णानि तेभ्यो दद्याद्विभज्य च ॥४९॥
दक्षिणां च यथा शक्ति दत्वा तान् विस्तृजेत्सुधीः ॥ तत इष्टगणैः सार्द्धं स्वयं भुंजीत वाग्यतः ॥५०॥
गद्दिने भूमिशय्यां च ब्रह्मचर्य्यं समाचरेत् ॥ एवं यः कुरुते मर्त्यः सोऽचिरादेव निश्वितम् ॥५१॥
प्राप्नु यात्सकलान्कामान्कपीशस्य प्रसादतः ॥ हनुमत्प्रतिमां भूमौ विलिखेत्तत्पुरो मनुम् ॥५२॥
साध्यनाम् द्वितीयांतं विमोचय विमोचय ॥ तत्पूर्वं मार्जयेद्वामपाणिनाथ पुनर्लिखेत् ॥ एवमष्टोत्तरशंत मार्जयेत्पुनः ॥५३॥
एवं कृते महाकारागृहाच्छीघ्रं विमुज्यते ॥ एवमन्यानि कर्माणि कुर्य्यांत्पल्लवमुल्लिखन् ॥५४॥
सर्षपैर्वश्यकृद्धोमो विद्वेषे हयमारजैः ॥ कुकुमैरिध्मकाष्ठैर्वा मरीचैर्जीरकैरपि ॥५५॥
ज्वरे दूर्वागुडूचीभिर्दध्रा क्षीरेण वा घृतैः ॥ शूले करंजवातारिसमिद्धिस्तैललोलितैः ॥५६॥
तैलाक्ताभिश्व निर्गुडीसमिद्धिर्वा प्रयत्नतः ॥ सौभाग्ये चंदनैश्वेंद्रलोचनैर्वा लवंगकैः ॥५७॥
सुगंधपुष्पैर्वस्त्राप्त्यै तत्तद्धान्यैस्तदाप्तये ॥ रिपुपादरजोभिश्व राजीलवणमिश्रितैः ॥५८॥
होमयेत्सप्तरात्रं च रिपुर्याति यमालयत् ॥ धान्यैः संप्राप्यते धान्यमन्नैरन्नसमुच्छ्रायः ॥५९॥
तिलाज्यक्षीरमधुभिर्ममहिषीगोसमृद्धये ॥ किं बहूक्तैर्विषे व्याधौ शांतौ मोहे च मारणे ॥६०॥
विवादे स्तंभने द्यूते भूतभीतौ च संकटे ॥ वश्ये युद्धे क्षते दिव्ये बंधमोक्षे महावेन ॥६१॥
साधितोऽयं नृणां दद्यान्मंत्रः श्रेयः च सुनिश्वितम् ॥ वक्ष्येऽथ हनुमंद्यत्रं सर्वसिद्धिप्रदायकम् ॥६२॥
लांगूलाकारसंयुक्तं वलयत्रितयं लिखेत ॥ साध्यनाम् लिखेन्मध्ये पाशिबीज प्रवेष्टितम् ॥६३॥
उपर्यष्टच्छ्दं कृत्वा पत्रेषु कवचं लिखेत् ॥ तद्वहिर्दंतमालिख्य तद्वहिश्वतुरस्तकम् ॥६४॥
चतुरस्त्रस्य रेखाग्रे त्रिशूलानि समालिखेत् ॥ सौं बीजं भूपुरस्याष्टवज्रेषु विलिखेत्ततः ॥६५॥
कोणेष्वंकुशमालिख्य मालामंत्रेण वेष्टयेत् ॥ तत्सर्वं वेष्टयेद्यंवलयत्रितयेन च ॥६६॥
शिलायां फलके वस्त्रे ताम्रपत्रेऽथ कुड्यके ॥ ताडपत्रेऽथ भूर्जे वा रोचनानाभिकुंकुभैः ॥६७॥
यंत्रमेतत्समालिख्य निराहारो जितेंद्रियः ॥ कपेः प्राणान्प्रतिष्ठाप्य पूजयेत्तद्यथाविधि ॥६८॥
अशेषदुःखान्त्यर्थं यत्रं संधारयेद् बुधः ॥ मारीज्वराभिचारादिसर्वोपद्रवनाशनम् ॥६९॥
योषितामपि बालानां धृतं जनमनोहरम् ॥ भूतकृत्यापिशाचानां दर्शनादेव नाशनम् ॥७०॥
मालामंत्रमथो वक्ष्ये तारो वाग्विष्णुगेहिनी ॥ दीर्घत्रयान्विता माया प्रागुक्तं कूटपञ्चकम् ॥७१॥
ध्रुवो हद्धनुमान्ङेंतोऽथ प्रकटपराक्रमः ॥ आक्रांतदिग्मंडलांते यशोवितानसंवदेत ॥७२॥
धवलीकृतवर्णांते जगत्रितवज्र च ॥ देहज्वलदग्निसूर्य कोट्यांते च समप्रभ ॥७३॥
तनूरुहपदांते तु रुद्रावतार संवदेत् ॥ लंकापुरी ततः पश्वाद्दहनोदधिलंघन् ॥७४॥
दशग्रीवशिंरः पश्वात्कृतांतकपदं वदेत् ॥ सीतांते श्वसनपदं वाय्वंते सुतमीरयेत् ॥७५॥
अंजनागर्भसंभूतः श्रीरामलक्ष्मणान्वितः ॥ नंदंति कर वर्णांते सैन्यप्राकार ईरयेत् ॥७६॥
सुग्रीवसक्यकाद्वर्नाद्रनवालिनिवर्हण ॥ कारणद्रोणशब्दांते पर्वतोत्पाटनेति च ॥७७॥
अशोकवनवीथ्यंते दारुणाक्षकुमारक ॥ छेदनांते वनरक्षाकारांते तु समूह च ॥७८॥
विभञ्जनि ब्रह्मास्त्रब्रह्मशक्ति ग्रसेति च ॥ लक्ष्मणांते शक्तिभेदनिवारणपदं वदेत् ॥७९॥
विशल्योषघिशब्दांते समानयन संपठेत् ॥ बालोदित लतो भानुमंडलग्रसनेति च ॥८०॥
मेघनादहोमपदाद्विश्वंसनपदं वदेत् ॥ इंद्रजिद्वधकाति णसीतारक्षकेति च ॥८१॥
विदारणपदं वदेत् ॥ कुंभकर्णा दिसंकीर्त्य वधांते च परायण ॥८२॥
श्रीरामभक्तिवर्णांते तत्परेति समुद्र च ॥ व्योमदुमलंघनेति संवदेत ॥८३॥
महातेजः पुंज शब्दाद्विराजमानवी च्चरेत् ॥ स्वामिवचनसंपादितार्जुनांते च संयुग ॥८४॥
सहायांति कुमारेति ब्रह्मचारुन्पदवंदेत् ॥ गंभीरशब्दोदयांते दक्षिणापथ संवदेत् मार्त्तण्डमेरु शब्दांते वदेत्पर्वपीठिका ॥८५॥
अर्चनांते तु सकलमत्रांते मपदं वदेत् ॥ आचार्यमम शब्दांते सर्वग्रहविनाशन ॥८६॥
सर्वज्वरोच्चटानांते सर्वविषविनाशन ॥ सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण ॥८७॥
सर्वव्याध्यादि सम्प्रोच्य भयांते च निवारण ॥८८॥
सर्वशत्रुच्छेदनेति ततो मम परस्य च ॥८९॥
ततस्त्रिभुवनांते तु पुंस्त्रीनपुंसकात्मकम् ॥ सर्वजीवपदांते तु जातं वशययुग्मकम् ॥९०॥
ममाज्ञकारकं पश्वात्संपादय युगं पुनः ॥ ततो नानानामधेयान्सर्वान् राज्ञः स संपठेत् ॥९१॥
परिवारान्ममेत्यंते सेवकान् कुरु युग्मकम् ॥ सर्वशास्त्रवीत्यंते षाणि विध्वंसयद्वयम् ॥९२॥
लज्जादीर्घत्रयोपेता होत्रयं चैहि युग्मकम् ॥ विलोमं पंचकूटानि सर्वशत्रून्हनद्वयम् ॥९३॥
परबलानि परांते सैन्यानि क्षोभयद्वयम् ॥९४॥
मम सर्व कार्यजातं साधयेति द्वयं ततः ॥९५॥
सर्वदृष्टदुर्जनांते मुखानि कीलयद्वयम् ॥ धेत्रयं वर्मत्रितयं फटूत्रयं हांत्रयं ततः ॥९६॥
वह्रिप्रियांतो मंत्रोऽयं माला संज्ञोऽखिलेष्टदः ॥९७॥
वस्वष्टबाणवर्णोऽयं मंत्रः सर्वेष्टसाधकः ॥९८॥
महाभये महोत्पाते स्मृतोऽयं दुःखनाशनः ॥ द्वादशार्णस्य षटूकूटं त्यक्ता बीजं तथादिमम् ॥९९॥
पंचकूटात्मको मंत्रः सर्वकामप्रदायकः ॥ रामचंद्रो मुनिश्वास्य गायत्री छंद ईरितम् ॥१००॥
हनुमान्देवता प्रोक्तो विनियोगोऽखिलाप्तये ॥ पंचबीजैः समस्तेन षडंगानि समाचरेत् ॥१०१॥
रामदूती लक्ष्मणांते प्राणदाताञ्जनीसुतः ॥ सीताशोकाविनाशोऽयं लंकाप्रासादभंजनः ॥१०२॥
हनुमदाद्याः पंचैते बीजाद्या ङेयुताः पुनः ॥ षडंगमनवो ह्येते ध्यानपूजा दि पूर्ववत् ॥१०३॥
प्रणवो वाग्भवं पद्मा माया दीर्घत्रयान्विता ॥ पंचकूटानि मंत्रोऽयं रुद्रार्णः सर्वसिद्धदः ॥१०४॥
ध्यानपूजादिकं सर्वमस्यापि पूर्ववन्मतम् ॥ अयमारधितो मंत्रः सर्वाभीष्टप्रदायकः ॥१०५॥
नमो भगवते पश्वादनतश्वंद्रशेखरां ॥ जनेयाय महांते तु बलायांतेऽग्निवल्लभा ॥१०६॥
अष्टादशार्णो मंत्रोऽयं सुनिरीश्वरसंज्ञकः ॥ छंदोऽनुष्टुप्देवता तु हनुमान्पवनात्मजः ॥१०७॥
हं बीजं वह्रिवनिता शक्तिः प्रोक्ता मनीषिभिः ॥आंजनेयाय त्दृदयं शिरश्व रुद्रमूर्तये ॥१०८॥
शिखायां वायुपुत्रायाग्निगर्भाय वर्मणि ॥ रामदूताय नेत्रं स्याद्धह्यास्त्रायास्त्रमीर्तितम् ॥१०९॥
तप्तचामीकरनिभं भीघ्रसंविहिताञ्जलिम् ॥ चलत्कुंडदीप्तास्यं पद्माक्षं मारुतिं स्मरेत् ॥११०॥
ध्यात्वैवमयुतं जप्त्वा दशांशं जुहुयात्तिलैः ॥ वैष्णवे पूजयेत्पीठे प्रागुद्दिष्टेन वर्त्मना ॥१११॥
अष्टोत्तरशतं नित्यं नक्तभोजी जितेंद्रियः ॥ जपित्वा क्षुद्ररोगेभ्यो मुच्यते नात्र संशयः ॥११२॥
महारोगनिवृत्त्यै तु सहस्त्रं जपेत् ॥ राक्षसौघं विनिघ्नंत कपिं ध्यात्वाघनाशनम् ॥११३॥
अयुतं प्रजपेन्नित्यमचिराज्ज यति द्विषम् ॥ सुग्रीवेण समं रामं संदधानं कर्पिं स्मरन् ॥११४॥
प्रजपेदयुतं यस्तु संधिं कुर्याद्दिपद्वयोः ॥ ध्यात्वा लंकां दहंतं तमयुतं प्रजपेन्मनुम् ॥११५॥
अचिरादेव शत्रूणां ग्रामान्संप्रदहेत्सुधीः ॥ ध्यात्वा प्रयानसमये हनुमन्तं जपेन्मनुम् ॥११६॥
यो याति सोऽचिरात्स्वेष्टं साध यित्वा गृहे व्रजेत् ॥ हनुमंतं सदा गेहे योऽर्चयेज्जपतत्परः ॥११७॥
आरोग्यं च श्रियं कांतिं लभते निरुपद्रवम् ॥ कानने व्याघ्रचौरेभ्यो रक्षेन्मनुरयं स्मृतः ॥११८॥
प्रस्वापकाले शय्यायां स्मरेन्मंत्रमनन्यधीः ॥ तस्य दुःखप्नचौरादिभयं नैव भवेत्त्क्कचित् ॥११९॥
वियत्सेंदुर्हनुमते ततो रुद्रात्मकाय च ॥ वर्मास्त्रांतो द्वादशार्णोऽष्टसिद्धिकृत ॥१२०॥
रामचन्द्रो मुनिश्वास्य जगती छन्द ईरितम् ॥ हनुमान्देवताम बीजमाद्यं शक्तिर्हुमीरिता ॥१२१॥
षड्दीर्घभाजा बीजेन षडंगानि समाचरेत् ॥ महाशैलं समुत्पाट्य धावंतं रावणं प्रति ॥१२२॥
लाक्षारक्तारुणं रौद्रं कालांतकयमोपमम् ॥ ज्वलदग्रिसमं जैत्रं सूर्यकोटिसमप्रभम् ॥१२३॥
अंगदाद्यैर्महावीरैर्वेष्टितं रुद्ररुपिणम् ॥ तिष्ठ तिष्ठ रणे दुष्ट सृंजंतं घोरनिः स्वनम् ॥१२४॥
शैवरुपिणभ्यर्च्य ध्यात्व लक्ष जपेन्मनुम् ॥ दशांशं जुहुयाद्वीहीन्पयोदध्याज्यमिश्रितान् ॥१२५॥
पूर्वोक्ते वैष्णवे पीठे विमलादिसमन्विते ॥ मूर्तिं संकल्प मूलेन पूजा कार्या हनूमतः ॥१२६॥
ध्यानैकमात्रोऽपि नृणां सिद्धिरेव न संशयः ॥ अथास्य साधनं वक्ष्ये लोकानां हितकाम्यया ॥१२७॥
हनुमत्साधनं पुण्यं महापातकनाशनम् ॥ एवद्धह्यतमं लोके शीघ्रसिद्धिकरं परम् ॥१२८॥
मंत्री यस्य प्रसादेन त्रैलोक्यविजयी भवेत् ॥ प्रातः स्त्रात्वा नदीतीरे उपविश्य कुशासने ॥१२९॥
प्राणायामषडंगे च मूलेन सकलं चरेत् ॥ पुष्पांजल्यष्टकं दत्वा ध्यात्वा रामं ससीतकम् ॥१३०॥
ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् ॥ कुचंदनेन घृष्टेंन संलिखेत्तच्छलाकया ॥१३१॥
कर्णिकायां लिखेन्मंत्रं तत्रावाह्य कपीश्वरम् ॥ मूर्तिं मूलेन संकल्प ध्यात्वा पाद्यादिकं चरेत् ॥१३२॥
गंधपुष्पादिकं सर्वं निवेद्य मूलमंत्रतः ॥ केशरेषु षडंगानि दलेषु च ततोऽर्चयेत् ॥१३३॥
सुग्रीवं लक्ष्मणं चैव ह्रंगदं नलनीलकौ ॥ जांबवंतं देशरीशं दलेऽर्चयेत् ॥१३४॥
दिक्पालांश्वापि वज्रादीन्पूजयेत्तदनंतरम् ॥ एवं सिद्धे मनौ मंत्री साधयेत्स्वेष्टमामीन ॥१३५॥
नदीतीरे कानने वा पर्वते विजनेऽथवा ॥ साधयेत्साधक श्रेष्ठी भूमिग्रहणपूर्वकम् ॥१३६॥
जिताहारो जितश्वासो जितवाक्यच जितेंद्रियः ॥ दिग्बन्धनादिकं कृत्वा न्यासध्यानदिपूर्वकम् ॥१३७॥
लक्षं जपेन्मंत्रराजं पूजयित्वा तु पूर्ववत् ॥ लक्षांते दिवसं प्राप्य कुर्याच्चं पूजनं महत ॥१३८॥
एकाग्रमनसा सम्यग्ध्यात्वा पवननंदनम् ॥ दिवारात्रौ जपं कुर्याद्यावत्संदर्शन भवेत् ॥१३९॥
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ॥ सुप्रसन्नस्ततो प्रयाति साधाकाग्रतः ॥१४०॥
यथेप्सितं वरं दत्वा साधकाय कपीश्वरः ॥ वरं लब्ध्वा साधकेंद्रो विहरेदात्मनः सुखैः ॥१४१॥
एतद्धि साधनं पुण्यं लोकानां हितकाम्यया ॥ प्रकाशितं रहस्यं वै देवानामपि दुर्लभम् ॥१४२॥
अन्यानपिप्रयोगांश्व साधयेदात्मनो हितान् ॥ वियदिंदुयुतं पश्वान्ङेतं पवननंदनम् ॥१४३॥
वह्रिप्रि यांतो मंत्रोऽयं दशार्णः सर्वकामदः ॥ मुन्यादिकं च पूर्वोक्त षडंगान्यपि पूर्ववत् ॥१४४॥
ध्यायेद्रणे हनूमंतं सूर्यकोटिसमप्रभम् ॥ धावंतं रावणं जेतुं दृष्ट्रा सत्वमुत्थितम् ॥१४५॥
लक्ष्मणं च महावीरं पतितं रणभूतले ॥ गुरुं च क्रोधमुत्पाद्य ग्रहीतुं गुरुपर्वतम् ॥१४६॥
हाहाकारैः सदर्पैश्व कंपयंतं जगत्रयम् ॥ आब्रह्यांडं समाव्याप्य कृत्वा भीमं कलेवरम् ॥१४७॥
लक्षं जपेद्दशांशेन जुहुयात्पूर्वत्सुधीः ॥ पूर्वत्पूजनं पोक्तं मंत्र स्यास्य विधानतः ॥१४८॥
एवं सिद्धे मनौ मंत्री साधयेदात्मनो हितम् ॥ अस्यापि मंत्रवर्यस्य रहस्यं साधनं तु वै ॥१४९॥
सुगोप्यं सवतंत्रेषु न देयं यस्य कस्याचित् ॥ ब्राह्मे मुहूर्ते चोत्थाय कृतनित्यक्रियः शुचिः ॥१५०॥
गत्वा नदीं तथ स्नात्वा तीर्थमावाह्य चाष्टधा ॥ मूलमंत्रं ततो जप्त्वा सिंचेदादित्यसंख्यया ॥१५१॥
एवं स्नानादिकं कृत्वा गंगातीरेऽथवाः पुनः ॥ पर्वते वा वने वापि भूमिग्रहणपूर्वकम् ॥१५२॥
आद्य वर्णैः पूरकं स्थात्पञ्चवर्गैश्व कुम्भकम् ॥ रेचकं च पुनर्याद्यैरेवं प्राणान्नियम्य च ॥१५३॥
विधाय भूतशुद्धयादि पीठन्यासावधि पुनः ॥ ध्यात्वा पूर्वोक्तविधिना संपूज्य च कपीश्वरम् ॥१५४॥
तदग्रे प्रजपेन्नित्यं साधकोऽयुतमादरात् ॥ सप्तमे दिवसे प्राप्ते कुर्याच्च पूजनं महत् ॥१५५॥
एकाग्र मनसा मन्त्री दिवारात्रं जपेन्ममुम् ॥ महाभयं प्रदत्वा त्रिभागशेषासु निश्वितम् ॥१५६॥
यामिनीषु समायाति नियतं पवनात्मजः ॥ यथेप्सितं वरं दद्यात्साधकाय कपीश्वरः ॥१५७॥
विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्रहम् ॥ तत्क्षणादेव चान्पोति सत्यं सत्यं न संशयः ॥१५८॥
इह लोकेऽखिलान्कामान्भुक्तांते मुक्तिमाप्नुयात् ॥ सद्याचितं वायुयुग्मं हनूमंतोति चोद्धरेत् ॥१५९॥
फलांते फक्रियानेत्रयुक्ता च कामिका ततः ॥ धग्गंते धगितेत्युक्ता आयुरास्व पदं ततः ॥१६०॥
लोहितो गरुडो हेतिबाणानेत्राक्षरो मनुः ॥ मुन्यादिकं तु पूर्वोक्त प्लीहरोगहरो हरिः ॥१६१॥
देवता च समुद्दिष्टा प्लीहयुक्तोदरे पुनः ॥नागवल्लीदलं स्थाप्यम्पर्याच्छादयेत्ततः ॥१६२॥
वस्त्रं चैवाष्टगुणितं ततः साधकसत्तमः ॥ शकलं वंशजं तस्योपरि मुंचेत्कपिं स्मरेत् ॥१६३॥
आरण्यसाणकोत्पन्ने वह्रौ यष्टिं प्रतापयेत् ॥ बदरीभूरुहोत्थां तां मंत्रेणानेन सत्पधा ॥१६४॥
तया संताडयेद्वंशशकलं जठरीस्थितम् ॥ सप्तकृत्वः प्लीहरोगी नाशमायाति निश्वितम् ॥१६५॥
तारा नमो भगवत आजनयाय चाच्चरेत् ॥ अमुकस्य श्रृंखलां त्रोटयद्वितयमीरयेत् ॥१६६॥
बंधमोक्षं कुरुयुगं स्वाहांतोऽयं मनुर्मतः ॥ ईश्वरोऽस्य मुनिश्र्छन्दोऽनुष्टुप्च देवता पुनः ॥१६७॥
श्रृंखलामोचकः श्रीमान्हनूमान्पवनात्मजः ॥ हं बीजं ठद्वयं शक्तिर्बंधमोक्षे नियोगता ॥१६८॥
षड्दीर्घवह्रियुक्तेन बीजेनां गानि कल्पयेत् ॥ वामे शैलं वैरिभिदं विशुद्धं टंकमन्यतः ॥१६९॥
दधानं च ध्यायेत्कुंडलिनं हरिम् ॥ एवं ध्यात्वा जपेल्लक्ष दशांशं चूतपल्लवैः ॥१७०॥
जुहुयात्पूर्ववत्प्रोक्तं यजनं वास्य सूरिभिः ॥ महाकारागृहे प्राप्तो ह्ययुतं प्रजपेन्नरः ॥१७१॥
शीघ्रं कारागृहान्सुक्तः सुखी भवति निश्वितम् ॥ यंत्रं चास्य प्रवक्ष्यामि बन्धमोक्षकरं शुभम् ॥१७२॥
अष्टच्छदांतः षट्कोणं साध्यनामसमन्वितम् ॥ षट्कोणेषु ध्रुवं ङेंतमांजनेयपदं लिखेत् ॥१७३॥
अष्टच्छदेषु विलिखेत्प्रणवो वातुवात्विति ॥ गोरोचनाकुंकुमेन लिखित्वा यंत्रमुत्तमम् ॥१७४॥
धृत्वा मूर्ध्नि जपेन्मंत्रमयुतं बन्धमुक्तये ॥ यन्त्रमेतल्लिखित्वा तु मृत्तिकोपरि मार्जयेत् ॥१७५॥
दक्षहस्तेन मन्त्रज्ञः प्रत्यहं मंडला वधि ॥ एवं कृते महाकारागृहान्मंत्री विसुच्यते ॥१७६॥
गगनं ज्वलनः साक्षी मर्कटेति द्वयं ततः ॥ तोयं शशेषे मकरे परिमुंचति मुंचति ॥१७७॥
ततः श्रृम्खलिकीं चेति वेदनेत्राक्षरो मनुः ॥ इमं मंत्रं दक्षकए लिखित्वा वामहस्ततः ॥१७८॥
दूरीकृत्य जपेन्मंत्रष्टोत्तशतं बुधः ॥ त्रिसप्ताहात्प्रबद्धोऽसौ मुच्यते नात्र संशयः ॥१७९॥
मुन्याद्यर्चादिकं सर्वमस्य पूर्ववदाचरेत् ॥ लक्षं जपो दशांशेन शुभैर्द्रव्यैश्व होमयेत् ॥१८०॥
पुच्छाकारे सुवस्त्री च लेखन्या क्षुरकोत्थया ॥ गन्धाष्टकैर्लिखेद्रूपं कपिराजस्य सुन्दरम् ॥१८१॥
तन्मध्येऽष्टदशार्णं तु शत्रुनामान्वितं लिखेत् ॥ तेन मन्त्राभिजप्तेन शिरोबद्धेन भूमिपः ॥१८२॥
जयत्यरिगणं सर्वं दर्शनादेव निश्वितम् ॥ चन्द्रसूर्यो परागादौ पूर्वौक्तं लेखयेद्धजे ॥१८३॥
ध्वजमादाय मन्त्रज्ञः संस्पर्शान्मोक्षणावधि ॥ मातृकां जापयेत्पश्वाद्दशांशेन च होमयेत् ॥१८४॥
तिलैः सर्षपसंमिश्रैः संस्कृते हव्यवाहने ॥ गजे ध्वजं समारोप्य गच्छेद्युद्धाय भूपतिः ॥१८५॥
गजस्थं तं ध्वजं दृष्ट्रां पलायन्तेऽरयो ध्रुवम् ॥ महारक्षाकरं यन्त्रं वक्ष्ये सम्यग्घनूमतः ॥१८६॥
लिखेद्वसुदलं पद्मं साध्याख्यायुतकर्णिकम् ॥ दलेऽष्टकोणामालिख्य मालामन्त्रेण वेष्टायेत् ॥१८७॥
तद्वहि र्माययावेष्टध प्राणस्थापनामाचरेत् ॥ लिखितं स्वर्णलेखन्यां भूर्जपत्रे सूशोभने ॥१८८॥
काश्मीररोचनाभ्यां तु त्रिलोहेन च वेष्टितम् ॥ सम्पा तसाधितं यंत्र भुजे वा मूर्न्धि धारयेत् ॥१८९॥
रणे दुरोदरे वादे व्यवहारे जयं लभेत् ॥ ग्रहैर्विघ्नैर्विषैः शस्त्रैश्वौरैर्नैवाभिभूयते ॥१९०॥
सर्वान्रो गानपाकृत्य चिरं जीवेच्छतं समाः ॥ षड्दीर्घयुक्तं वह्ययाख्यं तारसंपुटम् ॥१९१॥
अष्टार्णोऽयं महामंत्रो मालामंत्रोऽथ कथ्यते ॥ प्रणवो वज्रकायेति वज्रतुंडेति संपठेत् ॥१९२॥
कपिलांते पिंगलेति उर्द्धकेशमहापदम् ॥ बलरक्तमुखांते तु तडि महा ततः ॥१९३॥
रौद्रदंष्ट्रोत्कटं पश्वात्कहद्वंद्वं करालिति ॥ महदृढप्रहारेण लंकेश्वरवधात्ततः ॥१९४॥
वायुर्महासेतुपदं बंधांते च महा पुनः ॥ शैलप्रवाह गगनेचर एह्ये हि संवदेत् ॥१९५॥
भगवन्महाबलांते पराक्रमपदं वदेत् ॥ भैरवाज्ञापयैह्येहि महारौद्रपदं ततः ॥१९६॥
दीर्घपुच्छेन वर्णांते वदेव्देष्टय वैरिणम् ॥ जंभयद्वयमाभाष्य वर्मास्त्रांतो मनुर्मतः ॥१९७॥
मालाह्रयो द्विजश्रेष्ठ शरनेत्रधराक्षरः ॥ मालामंत्राष्टार्णयोश्व मुन्याद्यची तु पूर्ववत् ॥१९८॥
जप्तों युद्धे जयं दद्याव्द्याधौ व्याधिविनाशनः ॥एवं यो भजते मंत्री वायुपुत्रं कपीश्वरम् ॥१९९॥
सर्वान्स लभते कामान्दे वैरपि सुदुर्लभान् ॥ धनं धान्यं सुतान्पौत्रान्सौभाग्य,मतुलं यश्ह ॥२००॥
मेधां विद्यां राज्यं विवादे विजयं तथा ॥ वश्याद्यानि च कर्माणि संगरे विजयं तथा ॥२०१॥
उपासितोंऽजनागर्भसंभूतः प्रददात्यलम् ॥२०२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सन त्कुमारविभागे तृतीयपादे हनुमन्मंत्रकथनंनाम चतुःस प्ततितमोऽध्यायः॥ ॥७४॥
N/A
References : N/A
Last Updated : June 06, 2011
TOP