सनक उवाच ॥
अन्यद्वतरवरं वक्ष्यि श़ृणुष्व मुनिसत्तम ॥ सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम् ॥१॥
ब्राह्मणक्षत्रियविशी शूद्राणां योषितां तथा ॥ समस्तकामफलदं सर्वव्रत फलप्रदम् ॥२॥
सर्वलोकेषु विख्यातं पूर्णिमाव्रतमुत्तमम् ॥ येन चीर्णेन पापानां राशिकोटिः प्रशाम्यति ॥३॥
मार्गशीर्ष सितेपक्षे पूर्णायां नियतः शुचिः ॥ स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम् ॥४॥
शुक्लाम्बरधरः शुद्धो गृहमागत्य वाग्यतः ॥ प्राक्षाल्य पादावाचम्य स्मरन्नारायणं प्रभुम् ॥५॥
नित्यं देवार्चंनं कृत्वा पश्चात्संकल्पूर्वकम् ॥ लक्ष्मीनारायणं देवमर्चयेद्भक्तिभावतः ॥६॥
आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती ॥ नमो नारायणायेति पूजयेद्भक्तितत्परः ॥७॥
गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ॥ स्तोत्रैर्वाराधयेद्देवंव्रतकृत्सुसमाहितः ॥८॥
देवस्य पुरतः कृत्वा स्थाण्डिलं चतुरस्रकम् ॥ अरत्निमात्रं तत्राग्निं स्थापयेद्गृह्यमार्गतः॥
आज्यभागान्तर्पयन्त कृत्वा पुरुषसूक्ततः॥ चरुणा च तिलैश्चापि घृतेन जुहुयात्तथा ॥९॥
एकवारं द्विवारं वा त्रिवारं वापि शक्तितः ॥ होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये ॥१०॥
प्रायश्चित्तादिकं सर्वं स्वगृह्योक्तविधानतः ॥ समाप्य होमं विधिवच्छन्तिसूक्तं जपेद्रुधः ॥११॥
पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् ॥ तथोपवासं देवाय ह्यर्घ्यंह्यर्पद्धसंयुतः ॥१२॥
पौर्णमास्यां निराहारः स्थित्वा देव तवाज्ञया ॥ भोक्ष्यामि पुण्डरीकाक्ष परेऽह्रि शरणं भव ॥१३॥
इति विज्ञाप्य देवाय ह्यार्घं दद्यात्तथैन्दवे ॥ जानुभ्यामवनीं गत्वा शुल्कपुष्पाक्षतान्वितः ॥१४॥
क्षीरोदार्णवसंभूत अत्रिगोत्रसमुद्भव ॥ गृहाणार्ध्यं मया दत्तं रोहिणीनायक प्रभो ॥ एवमर्घ्यं प्रदायेन्दोः प्रार्थयेत्प्राञ्जलिस्ततः॥१५॥
तिष्ठन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद ॥१६॥
नमः शुक्लांशवे तुभ्यं द्विजराजाय ते नमः॥ रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमोऽस्तु ते ॥१७॥
ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः ॥ जितेन्द्रिश्च संशुद्धः पाषाण्डालोकवर्जितः ॥१८॥
ततः प्रातः प्रकुर्वीत स्वाचारं च यथाविधि ॥ पुनः संपूजयेद्देवं यथाविभविस्तरम् ॥१९॥
ब्राह्मणान्भोजयेच्छक्तया ततश्च प्रयतो नरः॥ बन्धु भृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः ॥२०॥
एवं पौषादिमासेषु पूर्णमास्यमुपोषितः॥ अर्चयेद्भक्तिसंयुक्तो नारायणमनामयम् ॥२१॥
एवं संवत्सरं कृत्वा कार्तिक्यां पूर्णिमादिने ॥ उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते ॥२२॥
मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुमङ्गलम् ॥ शोभितं पुष्पमालाभिर्वितानध्वजराजितम् ॥२३॥
बहुदीपसमाकीर्ण किङ्ल्लिणीजालशोभितम् ॥ दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम् ॥२४॥
तन्मध्ये सर्वतोभद्रं पञ्चवर्णविराजितम् ॥ जलपूर्ण ततः कुम्भं न्यसेत्तस्योपरि द्विज ॥२५॥
पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणाति शोभितम् ॥ हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ॥ लक्ष्मीनारायण देवं कृत्वा तस्योपरि न्यसेत् ॥२६॥
पञ्चामृतेन संस्नाप्याभ्यर्च्य गन्धादिभिः क्रमात् ॥ भक्ष्यैर्भोज्यादिनैवेद्यैभक्तितः संयुतेन्द्रियः ॥२७॥
जागरं च तथा कुर्यात्सम्यक्छ्रद्धासमन्वितः ॥ परेऽह्नि प्रातर्विधिवत्पूर्ववाद्विष्णुमर्चयेत् ॥२८॥
आचार्याय प्रदातव्या प्रतिमा दक्षिणान्विता ॥ ब्राह्मणान्भोजयेच्छक्तया विभवे सत्यवारितम् ॥२९॥
तिलदानं प्रकुर्वीत यथाशक्तया समाहितः॥ कुर्यार्दग्नौ च विधिवत्तिलहोमं विचक्षणः॥३०॥
एवं कृत्वा नरः सम्यकः लक्ष्मीनारायणव्रतम् ॥ इह भुक्त्वा महाभोगान्पुत्रपौत्रसमन्वितः ॥३१॥
सर्वपापविनिर्मुक्तः कुलायुतसमन्वितः ॥ प्रयाति विष्णुभवनं योगिनामपि दुर्लभम् ॥३२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षपौर्णिमायां लक्ष्मीनारायणव्रतं नामाष्टादशोऽध्यायः॥१८॥