सनक उवाच ॥
अन्यदू व्रत वरं वक्ष्ये तच्छृणुष्व समाहितः ॥ सर्वपापहरं पुण्यं सर्वलोकोपकारकम् ॥१॥
आषाढे श्रावणे वापि तथा भाद्रपदेऽपि च ॥ तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज ॥२॥
एतेष्वन्यतमे मासे शुक्लपक्षे जितेन्द्रियः ॥ प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः ॥३॥
ततः प्रातः समुत्थाय नित्य कर्म समाप्य च ॥ श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवर्जितः ॥४॥
विद्विद्भिः सहितो विष्णुमर्वयित्वा यथाचितम् ॥ संकल्पं तु ततः कुर्यात्स्वस्ति वाचनपूर्वकम् ॥५॥
मासमेकं निराहारो ह्यद्यप्रभृति केशव ॥ मासान्तं पारणं कुर्वे देवदेव तवाज्ञया ॥६॥
तपोरूप नमस्तुभ्यं तपसां फलदायक ॥ ममाभीष्टप्रदं देहि सर्वविघ्नान्निवारय ॥७॥
एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभम् ॥ ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे ॥८॥
प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानतः ॥ दीषं निरन्तरं कुर्यात्तास्मिन्मासे हरेर्गृहे ॥९॥
प्रत्यहं खादयेत्काष्ठं ह्यपामार्ग समुद्भवम् ॥ ततः स्नायीत विधिन्नारायणपरायणः ॥१०॥
ततः संस्नापयोद्विष्णुं पूर्ववत्प्रयतोऽर्चयेत् ॥ ब्राह्मणान्भोजयेच्छक्तया भक्तियुक्तः सदक्षिणम् ॥११॥
स्वयं च बन्धुभिः सार्द्धं भुञ्जीत प्रयतेन्द्रियः ॥ एवं मासोपवासांश्च व्रती कुर्यात्रयोदश ॥१२॥
वर्षान्ते वेदविदुषे गां प्रदद्यात्स दक्षिणाम् ॥ भोजयेद्ब्राह्मणांस्तत्र द्वादशैव विधानतः ॥ शक्तया च दक्षिणां दद्याद्ब्रह्मण्याभरणानि च ॥१३॥
मासोपवासत्रितयं यः कुर्यात्संयतेन्द्रियः ॥ आप्तोर्यामस्य यज्ञस्य द्विगुणं फलमश्नुते ॥१४॥
चतुः कृत्वः येन पाराकं मुनिसत्तम ॥ स लभेत्परमं पुण्यमष्टाग्निष्टोमसंभवम् ॥१५॥
पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना ॥ अत्यग्निष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ॥१६॥
मासोपवासषटक् यः करोति सुसमाहितः ॥ ज्योतिष्टो स्वय यज्ञस्य फलं सोऽष्टगुणं लभेत् ॥१७॥
निराहारः ॥ सप्तकृत्वो नरो मासोपवासकान् ॥ अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ॥१८॥
मासोपवासान्यः कुर्यादष्टकृत्वो मुनीश्वर ॥ नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत् ॥१९॥
यस्तु मासोपवासांश्च नवकृत्वः समाचरेत् ॥ गोमेधमखजं पुण्यं लभते त्रिगुणं नरः ॥२०॥
दशकृत्वस्तु यः कुर्यात्पराकं मुनिसत्तम ॥ स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते ॥२१॥
एकादशं पराकांश्च यः कुर्यात्संयतोन्द्रियः ॥ स याति हरिसारूप्यं सर्वभोगसमन्वितम् ॥२२॥
त्रयोदश पराकांश्च यः कुर्यात्प्रयतो नरः ॥ स याति परमानन्दं यत्र गत्वा न शोचति ॥२३॥
मासोपवासनिरता गङ्गास्नानपरायणाः ॥ धममागप्रवक्तारो मुक्ता एव न संशयः ॥२४॥
अवीराभिश्चनारीभिर्यातिभिर्ब्रह्मचारिभिः ॥ मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः ॥२५॥
नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभम् ॥ कृत्वा मोक्षमवाप्नोति योगिनामपि दुर्लभम् ॥२६॥
गृहस्था वानप्रस्थो वा व्रती वा भिक्षुरेव वा ॥ मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत् ॥२७॥
इदं पुण्यं व्रताख्यानं नारायण परायणः ॥ श़ृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते ॥२८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मासोपवासवर्णनं नाम द्वाविंशोऽध्यायः ॥२२॥