नारद उवाच ॥
कथितो भवता सम्यग्वर्णाश्रमविधिर्मुने ॥ इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम् ॥१॥
सनक उवाच ॥
श़ृणु विप्र प्रवक्ष्यामि यममार्ग सुदुर्गमम् ॥ सुखदं पुण्यशीलानां पापिनां भयदायकम् ॥२॥
षडशीतिसहस्राणि योजनामिनि मुनीश्वर ॥ यममार्गस्य विस्तारः कथितः पूर्वसूरिभिः ॥३॥
ये नरा दानशीलास्तु ते यांति सुखिनो द्विज ॥ धर्मशून्या नरा यांति दुःखेन भृशमर्दिताः ॥४॥
अतिभीता विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ॥ क्रदंतो विस्वरं दीनाः पापिनो यांति तत्पथि ॥५॥
हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः ॥६॥
इतस्ततः प्रधावंतो यांति दुःखेन तत्पथि ॥ क्वचित्पकः क्वचिद्वह्निः क्वचितसैतप्तसेकतम् ॥ क्वचिद्वै दावरूपेणः तीक्ष्णधाराः शिलाः क्वचित् ॥७॥
क्वचित्कंटकवृक्षाश्च दुःखारोहशिला नगाः॥ गाढांधकारश्च गुहाः कंटकावरणं महत् ॥८॥
वप्राग्रारोहणं चैव कन्दरस्य प्रवेशनम् ॥ शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः ॥९॥
शैवालं च क्वचिन्मार्गे क्वचित्कीचकपंक्तयः ॥ क्वचिव्द्याघ्राश्च गर्जंते वर्धंते च क्वचिज्ज्वराः॥१०॥
एवं बहुविधक्लेशाः पापिनो यांति नारद ॥ क्रोशंतश्च रुदन्तश्च म्लायंतश्चैव पापिनः ॥११॥
पाशेन यत्रिताः केचित्कृष्यमाणास्तथांकुशैः ॥ शास्त्राम्नैस्ताड्यमानाश्चपृष्ठतो यांति पापिनः ॥१२॥
नासाग्रपाशकृष्टाश्च केचिदंत्रैश्च बधिताः ॥ वहंतश्च बधिताः ॥ वहंतश्चायसां भारं शिश्र्नागे्रण प्रयांति वै ॥१३॥
अयोभारद्वयं केचिन्नासाग्रेण तथापरे ॥ कर्णाभ्यां च तथा केचिद्वहंतो यांति पापिनः ॥१४॥
केचिच्च स्खलिता यांति ताड्यमानास्तथापरे ॥ अत्यर्थोच्छ्वसिताः केचित्केचिदाच्छन्नलोचनाः ॥१५॥
छायाजलविहीने त पथि यांत्यतिदुःखिताः ॥ शोचन्तः स्वानि कर्माणि ज्ञानाज्ञानकृतानि च ॥१६॥
ये तु नारद धर्मिष्ठा दानशीला सुबुद्धयः ॥ अतीव सुखसंपन्नास्ते यांति धर्ममंदिरम् ॥१७॥
अन्नदास्तु मुनिश्रेष्ठ भुंजतः स्वादु यांति वै ॥ नीरदायांति सुखिनः पिबंतः क्षीरमुत्तमम् ॥ तक्रदा दधिदाश्चैव तत्तद्भोगं लभंति वै ॥
घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम ॥१८॥
सुधापानं प्रकुर्वतो यांति वै धर्ममंदिरम् ॥ शाकदाः पायसं भुंजंन्दीपदो ज्वलयन्दिशः ॥१९॥
वस्रदो मुनिशार्दूल याति दिव्याम्बरावृतः ॥ पुराकरप्रो याति स्तूयमानोऽमरैः पथि ॥२०॥
गोदानेन नरो याति सर्वसौख्यसमन्वितः ॥ भूमिदो गृहदश्चैव विमाने सर्वसंपदि ॥२१॥
अप्सरोगणसंकीर्णे क्रीडन्याति वृषालयम् ॥ हयदो यानदश्चापि गजदश्च द्विजोत्तम ॥२२॥
धर्मालयं विमानेन याति भोगान्वितेन वै ॥ अनडुद्दो मुनिश्रेष्ठ यानारूढः प्रयाति वै ॥२३॥
फलदः पुष्पदश्चापि याति संतोषसंयुतः ॥ तांबूलदो नरो याति प्रहृष्टो धर्ममंदिरम् ॥२४॥
मातापित्रोश्च शुश्रूषां कृतवान्यो नरोत्तमः ॥ स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः ॥२५॥
शुश्रूषां यस्तु यतीनां व्रतचारिणाम् ॥ द्विजाग्रयब्राह्मणानां च स यात्यतिसुखान्वितः ॥२६॥
सर्वभूतदयायुक्तः पूज्यमानोऽमरैर्द्विजः ।ं सर्वभोगान्वितेनासौ विमानेन प्रयाति च ॥२७॥
विद्यादानरतो याति पूज्यमानोऽब्जसूनुभिः ॥ पुराणपाठको याति स्तूयमानो मुनीश्वरैः ॥२८॥
एवं धर्मपरा यांति सुखं धर्मस्य मंदिरम् ॥ यमश्चतुर्मुखो भूत्वा शंखचक्रगदासिभृत् ॥२९॥
पुण्यकर्मरतं सम्यक्सनेहान्मित्रमिवार्चति ॥ भो भो बुद्धिमतां श्रष्ठानरकक्लेशभीरवः ॥३०॥
युष्माभिः साधिंत पुण्यमत्रामुत्रसुखावहम् ॥ मनुष्य जन्म यः प्राप्य सुकृतं न करोति च ॥३१॥
स एव पापिनां श्रेष्ठ आत्मघातं करोति च । अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत् ॥३२॥
स याति नरकं घोरं कोऽन्यस्तस्मादचेतनः ॥ शरीरं यातनारूपं मलाद्यैः परिदूषितम् ॥३३॥
तस्मिन्यो याति विश्वास त विद्यादात्मघातकम् ॥ सर्वेषु प्राणिनः श्रेष्ठास्तेषु वै बुद्धिजीविनः ॥३४॥
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा ॥ ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ॥३५॥
कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवादिनः ॥ ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते ॥३६॥
एतेभ्योऽपि परो ज्ञेयो नित्यं ध्यानपरायणः॥ तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः ॥३७॥
सर्वत्र पूज्यते जंतुर्धर्मवान्नात्र संशयः ॥ गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम् ॥३८॥
अस्ति चेद्दुष्कृतं किंचित्पश्चादत्रैव भोक्ष्यसे ॥ एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्रतिम् ॥३९॥
आहुय पापिनश्चैव कालदंडेन तर्जयेत् ॥ प्रलयांबुदनिर्घोषो ह्यंजनाद्रिसमप्रभः ॥४०॥
विद्युत्प्रभायुधैर्भीमो द्वात्रिंशद्भुजसंयुतः ॥ योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः ॥४१॥
दंष्ट्राकरालवदनो वापीतुल्योग्रलोचनः ॥ मृत्युज्वरादार्युक्तश्चित्रगुप्तोऽपि भीषणः ॥४२॥
सर्वे दूताश्च गर्जति यमतुल्यविभीषणाः ॥ ततो ब्रवीति तान्सवान्कंपमानांश्च पापिनः ॥४३॥
शोचन्तः स्वानि कर्माणि चित्रगुप्तो यमाज्ञया ॥ भो भो पापा दुराचारा अहंकारप्रदूषिताः ॥४४॥
किमर्थमर्जितं पापं युष्माभिरविवेकिभिः ॥ कामक्रोधादिदृष्टेन सगर्वेण तु चेतसा ॥४५॥
यद्यत्पापतरं तत्तत्किमर्थं चरितं जनाः ॥ कृतवंतः पुरा यूयं पापान्यतयंतहर्षिताः ॥४६॥
तथैव यातना भोज्याः किं वृथा ह्यतिदुखिताः ॥ भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा ॥४७॥
तथा कर्मवशात्प्राप्ता यूयमत्रातिदूःखिताः ॥ युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः ॥४८॥
युष्माकमेव तत्पापं किं दुःखकारणम् ॥ यथा कृतानि पापानि युष्माभिः सुबहूनि वै ॥४९॥
तथा प्राप्तानि दुःखानि किमर्थमिह दुःखिताः॥ विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा ॥५०॥
यमः करिष्यते दंडमिति किं न विचारतिम् ॥ दरिद्रेऽपि च मूर्खे च पंडिते वाश्रियान्विते ॥५१॥
कांदिशीके च वीरे च समवर्तीः यमः स्मृतः ॥ चित्रगुप्तेरितं वाक्यं श्रुत्वा ते पापिनस्तदा ॥५२॥
शौचंतः स्वानि कर्माणि तूष्णीं तिष्ठंति भीषिताः यमाज्ञाकारिणः क्रूराश्चंडा दूता भयानकाः ॥५३॥
चंडालाद्याः प्रसह्यैतान्नरकेषु क्षिपंति च ॥ स्वदुष्कर्मफलं ते तु भुक्त्वांते पाप शेषतः ॥५४॥
महीतरल च संप्राप्य भवंति स्थावरादयः ॥ नारद उवाच । भगवन्संशयो जातो मच्चेतसि दयानिधे ॥५५॥
त्वं समर्थोऽसि तच्छेतुं यतो नो ह्यग्रजो भवान् ॥ धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च ॥५६॥
चिरभोज्यं फलं तेषामुक्तं बहुविदा त्वया ॥
दिनांते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै ॥५७॥
परार्द्धद्वितयांते तु ब्रह्माण्डस्यापि संक्षयः ॥ ग्रामदानादिपुण्यानां त्वयैव विधिनंदन ॥५८॥
कल्पकोटिसहस्रेषु महान्भोग उदाहृतः॥ सर्वेषामेव लोकानां विनाशः प्राकृते लये ॥५९॥
एकः शिष्यत एवेति त्वया प्रोक्तं जनार्दनः ॥ एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति ॥६०॥
पुण्यपापोपभोगानां समाप्तिर्नास्य संप्लवे ॥ सनक उवाच ॥ साधु साधु महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम् ॥६१॥
पृष्टं तत्तेऽभिधास्यामि श़ृणुष्व सुसमाहितः ॥ नारायणोऽक्षरोऽनंतः परं ज्योतिः सनातनः ॥६२॥
विशुद्धो निर्गुणो नित्यो मायामोहविवर्जितः ॥ निर्गुणोऽपि परानन्दो गुणवानिव भाति यः ॥६३॥
ब्रह्मविष्णुशिवाद्यैस्तु भेदवानिव लक्ष्यते ॥ गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन ॥६४॥
संयोज्य मायामखिलं जगत्कार्यं करोति च ॥ ब्रह्मरूपेण सृजति विष्णुरूपेण पाति च ॥६५॥
अंते च रुद्ररूपेण सर्वमत्तीति निश्चितम् ॥ प्रलयांते समुत्थाय ब्रह्मरूपी जनार्दनः ॥६६॥
चरारात्मकं विश्वं यथापूर्वमकल्पयत् ॥ स्थावराद्याश्च विप्रेंद्र यत्र यत्र व्यवस्थिताः ॥६७॥
ब्रह्मा तत्तज्जगतसर्वं यथापूर्वं करोति वै ॥ तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम ॥६८॥
अवश्यमेव भोक्तव्यं कर्मणा ह्यक्षयं फलम् ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥६९॥
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ यो देवः सर्वलोकानामंतरात्मा जगन्मयः ॥ सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः ॥७०॥
योऽसौ विश्वंभरो देवो गुणभेदव्यवस्थियतः ॥ सृजत्यवति चात्त्येतत्सर्व सर्वभुगव्ययः ॥७१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरूपणं नामैकत्रिंशोऽध्यायः ॥३१॥