श्री नारदीयमहापुराणम् - सप्ताशीतितमोऽध्यायः
`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।
सनत्कुमार उवाच ॥
अवतारत्रयं लक्ष्म्याः कथित ते द्विजोत्तम ॥ दुर्गायाश्वाभिधास्यामि सर्वलोकोपकारकान् ॥१॥
प्रणवः श्रीः शिवायुग्मं वाणीवैरोचनीपदम् ॥ वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नींदुसंयुता ॥२॥
प्रतिष्ठाप्य शिवा फट् च स्वाहांतोऽष्टिवर्णवान् भैरवोऽस्य मुनिः सम्राट् छन्दो मन्त्रस्य देवता ॥३॥
छिन्नमस्ता रमा बीजं स्वाहा शक्तिरुदीरिता ॥ आं खङाय ह्रदाख्यातमीं खङाय शिरः स्मृतम् ॥४॥
ऊं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छ दम् ॥ औमंकुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक् ॥५॥
मायायुग्मं चास्त्रमंत्रं मनवः प्रणवादिकाः ॥ स्वाहांताश्वैवमंगानि कृत्वा ध्यायेदथांबिकाम् ॥६॥
भानुमण्डलसंस्थानां प्रविकीर्णालंक शिरः ॥ छिन्नं स्वकं स्फारमुखं स्वरक्तं प्रपिबद्धलत् ॥७॥
उपरिस्थां रतासक्तरतिमन्मथयोर्निजे ॥ डाकिनीवर्णिनीसाख्यौ दृष्ट्रा मोदभराकुलाम् ॥८॥
ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ॥ पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः ॥९॥
आधारशक्तिमारभ्य परतत्त्वांतपूजिते ॥ पीठे जयाख्या विजया जिता चापि पराजिता ॥१०॥
नित्या विलासिनी षष्ठी दोग्ध्र्य घोरा च मंगला ॥ दिक्षु मध्ये च संपूज्या नव पीठस्य शक्तयः ॥११॥
सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुः सदृक् ॥ सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः ॥१२॥
खङीशो रोचनीयेंते भगं धेहि नमोंतकः ॥ तारादिपीठमन्त्रोंऽयं वेदरामाक्षरो मतः ॥१३॥
समर्ण्यासनमेतेन तत्र संपूजयेच्छिवाम् ॥ त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः ॥१४॥
बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः ॥ भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत् ॥१५॥
तदंतः सुरराजादीन्पूजयेद्धरितां पतीन् ॥ भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ ॥१६॥
करालविकरालाख्याव तिकालस्तृतीयकः ॥ महाकालश्वतुर्थः स्यादथ पद्मेष्टशक्तयः ॥१७॥
एकलिंगा योगिनी च डाकिनी भैरवी तथा ॥ महाभैअरवकेंद्राक्षी त्वसि तांगी तु सप्तमी ॥१८॥
संहारिण्यष्टमी चेति षट्कोणष्वंगर्मूतयः ॥ त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम् ॥१९॥
डाकिनीवर्णनीसंज्ञं तारावाग्भ्यां प्रपूजयेत् ॥ एवं पूजादिभिः सिद्धे मन्त्रे मंत्री मनोरथान् ॥२०॥
प्राप्नुयान्निखिलान्सद्यो दुर्लभांस्तत्प्रसादतः ॥ श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्व समीहितम् ॥२१॥
वाक्सिद्धिं मालतीपुष्पेश्वंपकैर्हवनात्सुखम् ॥ घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम् ॥२२॥
मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः ॥ करवीरसुमैः श्वेतेर्लक्षसंख्यैर्जुहोति यः ॥२३॥
रोगजालं पराभूय सुखी जीवेच्छतं समाः ॥ रक्तै स्तत्संख्यया हुत्वा वशेय्न्मंत्रिणो नृपान् ॥२४॥
फलैर्हुत्वामुयाल्लक्ष्ममुदुंबरपलाशजैः ॥ गोमायुमांसैस्तामेव पायसांधसा ॥२५॥
बंधूककुसमैभाग्यं कर्णिकारैः समीहितम् ॥ तिलतंडुलहोमेन वशयेन्निखिलाञ्जनान् ॥२६॥
नारीरजोभिआकृष्टैर्मृगमांसैः समीहितम् ॥ स्तंभनं माहिषै र्मासैः पंकजैः सघृतरपि ॥२७॥
चिताग्री परभृत्पक्षैर्जुर्हुयादस्मृत्यवे ॥ उन्मत्तकाष्ठदीप्तेऽग्रौ तत्फलं वायसच्छदैः ॥२८॥
द्यूते वने नृपद्वारे समरे वैरि संकटे ॥ विजयं लभते मंत्री ध्यायन्देवीं जपन्मनुम् ॥२९॥
भुक्तयै मुक्तयै सितां ध्यायेदुच्चाटे नीलरोचिषम् ॥ रक्तां वश्ये मृतौ धूम्रां स्तंभने कनकप्रभाम् ॥३०॥
निशि दद्याद्वलिं तस्यै सिद्धये मदिरादिना ॥ गोपनीयः प्रयोगोऽय प्रोच्यते सर्वसिद्धिदः ॥३१॥
भूताहे कृष्णपक्षस्य मध्यरात्रे तमोघने ॥ स्त्रात्वा रक्ताम्बरधरी रक्तमाल्यानुलेपनः ॥३२॥
आनीय पूजयेन्नारीं छिन्नमस्तास्वरुपिणीम् ॥ सुन्दरीं यौवनाक्रांतां नरपञ्चकगामिनीम् ॥३३॥
सुस्मितां मुक्तकबरीं भूषदानप्रतोषिताम् ॥ विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम् ॥३४॥
बलिं दत्त्वा निशां नीत्वा संप्रेष्य धनतोषिताम् ॥ भोजयेद्विविधरन्नैर्ब्राह्यणान्भोजनादिना ॥३५॥
अनेन विधिना लक्ष्मी पुत्रान्पौत्रान्धनं यशः ॥ नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात् ॥३६॥
तस्यां रात्रौ व्रतं कार्यं विद्याकामेन मंत्रिणा ॥ मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम् ॥३७॥
उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् ॥ षणमासाभ्यन्तरे मन्त्री कवित्वेन जयेत्कविम् ॥३८॥
शिवेन कीलिता चेयं तदुत्कीलनमुच्यते ॥ मायां तारपुटां मंत्री जपेदष्टोत्तर्म शतम् ॥३९॥
मन्त्रस्यादौ तथैवांते भवेत्सिद्धिप्रदा तु सा ॥ उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा ॥४०॥
अवतारांतरं देव्या वच्मि ते मुनिसत्तम ॥ ज्ञानामृतारुणा श्वेता क्रोधिनींदुसमन्विता ॥४१॥
शांतिस्तथाविधा चापि नीचसर्गान्वितास्तथा ॥ वाग्भवं कामराजाख्यं शक्तिबीजाह्रयं तथा ॥४२॥
त्रिभिर्बीजैः पंच कूटात्मिका त्रिपुरभैरवी ॥ ऋषिः स्याद्दक्षिणामूर्तिश्छ्न्दः पंक्तिरुदीरुता ॥४३॥
देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ॥ नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः ॥४४॥
त्दृदयान्नाभिपर्यंत कामबीजं प्रविन्यसेत् ॥ शिरसो ह्रत्प्रदेशांतं तार्तीयं विन्यसेत्ततः ॥४५॥
आद्यं द्वितीयं कर योस्तार्तीयमुभयं न्यसेत् ॥ मूलाधारे ह्रदि न्यस्य भूयो बीजत्रयं क्रमात् ॥४६॥
नवयोन्यात्मकं न्यासं कुर्याद्दजैस्त्रिभिः पुनः ॥ बालोदितप्रकारेण मूर्तिन्यासमथाचरेत् ॥४७॥
स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् ॥ न्यसेद्वक्रे तत्पुरुषं मकरध्वजमात्मवित ॥४८॥
त्दृद्यघोरकुमारादिकंदर्प्पं तदनंतरम् ॥ गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम् ॥४९॥
सद्योजातं कामदेवं पादयोर्विन्यसेत्ततः ॥ ऊर्द्ध प्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ॥५०॥
प्रविन्यसेद्य भृगुर्व्योमाग्निसंस्थितः सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम् ॥५१॥
षड्दीर्घयुक्तेनाद्येन बीजनांगक्रिया मता ॥ पञ्चबाणांस्ततो न्य त्रैलोक्यमोहनान् ॥५२॥
द्रामाद्यां द्राविणीं मूर्ध्नि द्रामाद्यां क्षोभणी पदे ॥ क्लींवशीकरणीं वक्रे गुह्ये ब्लूं बीजपूर्विकाम् ॥५३॥
आकर्षणीं ह्रदि पुनः सर्वांतभृगुसंस्थिताम् ॥ संमोहनीं क्रमादेवं बाणन्यासोऽयमीरितः ॥५४॥
भालभ्रूमध्यवदने घंटिकाकण्ठह्रत्सु च ॥ नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः ॥५५॥
मस्तकावधि नाभेश्व मंत्रिणा सुभगा भगा ॥ भगसर्पिण्यथ परा भगमालिन्यनंतरम् ॥५६॥
अनंगानंगमुसुमा भूयश्वानंगमेखला ॥ अनंगमदना सर्वा मदविभ्रममंथरा ॥५७॥
प्रधानदेवता वर्णभूषणोद्येरलंकृताः ॥ अक्षस्त्रपुस्तकाभीतिवरदाढ्यकरांबुजाः ॥५८॥
वाक्कामब्लूं स्त्रीं सरांते ताराः पंच प्रकीर्तिताः ॥ ततःकुर्याद्धूषणाख्यं न्यासमुक्तदिशी मुने ॥५९॥
एवं न्यस्तशरीरोऽसौ ध्यायेत्रिपुरभैरवीम् ॥ सहस्त्रभानुनुसंकाशामरुणक्षौमवाससीम् ॥६०॥
शिरोमालामसृग्लिप्तस्तनीं जपवटीं करैः ॥ विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम् ॥६१॥
दीक्षां प्राप्य जपेन्मंत्रं तत्त्वलक्षं जितेंद्रियः ॥ पुष्पैर्भानुसहस्त्राणि जुहुयाद्धह्यवृक्षजैः ॥६२॥
त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्धवैः ॥ पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम् ॥६३॥
इच्छा दिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् ॥ इच्छा ज्ञाना क्रिया पश्वात्कामिनी कामदायिनी ॥६४॥
रतिप्रिया मदानन्दा नवमी स्यान्मनोन्मनी ॥वरदाभ्यधारिण्यः संप्रोक्ता नव शक्तयः ॥६५॥
वाग्भवं लोहितो रायै श्रीकंठो लोहितोऽनलः ॥ दीर्घवान्ये परा पश्वादपरायौ हसौ युतः ॥६६॥
सदाशिवमहाप्रेतङेंत पद्मासनं नमः ॥ अनेन मनुना दद्यादासनं श्रीगुरुक्रमम् ॥६७॥
प्राङ्मध्ययोन्यंतराले पूजयेल्पल्पयेत्ततः ॥ पंचभिः प्रण्वैर्मूर्ति तस्यामावाह्य देवताम् ॥६८॥
पूजयेदागमोक्तेन विधानेन समाहितः ॥ तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः ॥६९॥
वामकोणे यजेद्देव्या रतिमिंदुदुसमप्रभाम् ॥ सृणिपाशधरां सौम्यां मदविभ्रमविह्रलाम् ॥७०॥
प्रीतिं दक्षिणकोणस्थां तप्त कांचनसन्निभाम् ॥ अङुशं प्रणंत दोभ्यां धारयन्ती समर्चयेत् ॥७१॥
अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलंकृताम् ॥ इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिमताननाम् ॥७२॥
अङुन्यर्भ्यंचयेत्प्रश्वाद्यथापूर्वं विधानवित् ॥ दिक्ष्वग्रे च निजैर्मंत्रैः पूजयेद्वाणदेवताः ॥७३॥
हस्ताब्जैर्धृत पुष्पेषुप्रणामा मृतसप्रभाः ॥ अष्टयोनिष्वष्टशक्तिः पूजयेत्सुभगादिकाः ॥७४॥
मातरो भैरवांकस्था मदविभ्रमविह्रलाः ॥ अष्टपत्रेषुं संपूज्या यथावत्कु सुमादिभिः ॥७५॥
लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्वद्दिः ॥ पूर्वजन्मकृतेः पुण्यैर्ज्ञात्वैनां परदेवताम् ॥७६॥
यो भजेदुक्तमार्गेण स भवेत्सं पदा परम् ॥ एवं सिद्धमुर्मंत्री साधयेदिष्टमात्मनः ॥७७॥
जुहुयादरुणां भोंजैरदोषैर्मधुराप्लुतैः ॥ लक्षसंख्यं तदर्द्धं वा प्रत्यहं भोजयेद्दि जान् ॥७८॥
वनिता युवती रम्याः प्रणियेद्देवताधिया ॥ होमांते धनधान्याद्यस्तोषयेरुमात्मनः ॥७९॥
एवं कृते जगद्वश्यो भवनं भवेत् ॥ रक्तोत्पलैस्त्रिमध्वक्तैररुणै र्वा हयारिजैः ॥८०॥
पुष्पैः पयोन्नैः सघृतैर्होमाद्विश्वं वशं नयेत् ॥ वाक्सिसद्धिं लभते मन्त्री पलाशकुसुमैर्हुतेः ॥८१॥
कर्पूरागुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः ॥ ज्ञानं दिव्यमवाप्नोति तनैव स भवेत्कविः ॥८२॥
क्षीराक्तैरमृताखंडैहोमः सर्वापमृत्युजित् ॥ दूर्वाभि रायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ॥८३॥
गिरिकर्णीभवैः पुष्पैर्ब्राह्मणान्वशयेद्धुतैः ॥ कह्रारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः ॥८४॥
मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेत् ॥ कोरंटकुसुमैर्वैश्यान्वृषलान्पाटलोद्धवैः ॥८५॥
अनुलोमां विलोमांतस्थितसाध्याह्रयान्वितम् ॥ मन्त्रमुच्चार्य जुहुयान्मंत्री मधुरलोलोतैः ॥८६॥
सर्षपेधुसंमिश्रैर्वशयेत्पार्थिवान् क्षणात् ॥ अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि ॥८७॥
जातिबिल्वभवैः पुष्पैर्मधुरत्रयसंयुतैः ॥ नरनारीनरपतीन्होमेन वशयेत्क्रमात् ॥८८॥
मालतीबकुलोद्धूतैः पुष्पैश्वन्दनलोलितैः ॥ जुहुयात्क वितां मन्त्री लभते वत्सरांतरे ॥८९॥
मधुरत्रसंयुक्तैः फलैर्बिल्वसमुद्धवैः ॥ जुहुयाद्वशयेल्लोकं श्रियं प्राप्नोति वांछिताम् ॥९०॥
साज्यमन्नं प्रजुहुयाद्धवेदन्नसमृद्धिमान् ॥ कस्तुरीकुंकुमोपेतं कर्पूरं जुहुयाद्वशी ॥९१॥
कन्दर्पादधिकं सद्यः सौदर्यमधिगच्छति ॥ लाजान्प्रजुहुयान्मंत्री दधिक्षीरमधुप्लु तान् ॥९२॥
विजित्य रोगानाखिलान्स जीवेच्छरदां शतम् ॥ पादद्वयं मलयजं पादं कुंकुमकेसरम् ॥९३॥
पादं गोरोचनांतानि त्रीणि पिष्ट्रा हिमांभसा ॥ विदध्यात्तिलकं भाले यान्पश्येद्यौर्विलोक्यते ॥९४॥
यान्स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् ॥ कर्पूरकपिचोराणि समभागानिं कल्पयेत् ॥९५॥
चतुर्भुजा जटामांसी तावती रोचना मता ॥ कुंकुम समभागं स्याद्दिग्भागं चन्दनं मतम् ॥९६॥
अगुरुर्नवभागं स्यादिति भागक्रमेण च ॥ हिमाद्धिः कन्यया पिष्टमेतत्सर्वं सुसाधितम् ॥९७॥
आदाय तिलकं भाले कुर्य्याद्धूमिपतीन्नरान् ॥ वनितामदगर्वाढ्या मदोन्मत्तान्मतंगजान् ॥९८॥
सिंहव्याघ्रान्महासर्पान्भूतवेतालराक्षसान् ॥ दर्शनादेव वशयेत्तिलकं धारयन्नरः ॥९९॥
इत्येषा भैरवी प्रोक्ता ह्यवतारांतरं श्रृणु ॥ वाड्माया कमला तारो नमोंते भगवत्यथ ॥१००॥
श्रीमातंगेश्वरि वदेत्सर्वजनमनोहरि ॥ सर्वादिसुखराज्यंते सर्वादिसुखरंजनी ॥१०१॥
सर्वराजवशं पश्वात्करिसर्वपदं वदेत् ॥ स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता ॥१०२॥
सर्वं दुष्टमृगवंश करिसर्वपदं ततः ॥ सर्वसत्त्ववशंकरि सर्वलोकं ततः परम् ॥१०३॥
अमुकं मे वशं पश्वादानयानलसुन्दरी ॥ अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः ॥१०४॥
न्यासान्मंत्री तनौ कुर्याद्वक्ष्यमाणान्यथाक्रमम् ॥ शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि ॥१०५॥
अनाहते भुजद्वंद्वे जठरे नाभिमण्डले ॥ स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्ष वामयोः ॥१०६॥
मूलाधारे गुदे न्यस्येत्पदान्यष्टादश क्रमात् ॥ गुणैकद्वचतुःषड्भर्वसुपर्वनवाष्टभिः ॥१०७॥
नंदपंक्यष्टवेदाग्निचन्द्रयुग्मगुणा क्षिभिः ॥ यकुक्लप्तिरियं प्रोक्ता मंत्रवर्णैर्यथाक्रमम् ॥१०८॥
रत्याद्या मूलत्दृदयभ्रूमध्येषु विचक्षणः ॥ वाक्शक्तिलक्ष्मीबीजाद्या मातंग्यंताः प्रविन्यसेत् ॥१०९॥
शिरोवदनत्दृद्धुह्यपादेषु विधिना न्यसेत् ॥ ह्रल्लेखां गगनां रक्तां मन्त्री करालिकाम् ॥११०॥
महोच्छुष्मां स्वनामादिवर्णबीजपुरः सराः ॥ मातंग्यंताः षडंगानि ततः कुर्वीत साधकः ॥१११॥
वर्णैश्वतुर्विशतिभिर्त्दृअयोदशभिः शिरः ॥ शिखाष्टादशभिः प्रोक्ता वर्म तावद्विरक्षरैः ॥११२॥
स्यात्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् ॥ बाणन्यासं ततः कुर्याद्धेरवीप्रोक्तवर्त्मना ॥११३॥
मातंगीपदयोश्वान्यं मन्मथान्वदनांशयोः ॥ पार्श्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः ॥११४॥
बीजत्रयादिकान्मंत्री मन्मथं कमरध्वजम् ॥ मदनं पुष्पधन्वानं पंचमं कुसुमायुधम् ॥११५॥
षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ ॥ मातंग्यंस्ततो न्यस्येत्स्थानेष्वेतेषु मंत्रवित् ॥११६॥
कुसुमा मेखला चैव मदना मदना तुरा ॥ मदनवेगा सम्भवा च भुवनपालेंदुरेखिका ॥११७॥
अनंगपदपूर्वाश्व मांतग्यंताः समीरिताः ॥ विन्यस्तव्यास्ततो मूलेऽधिष्ठाने मणिपूरके ॥११८॥
ह्रत्कंठास्ये भ्रूवोर्मध्ये मस्तके चापि मत्रिणा ॥ आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्व कृत्तिका ॥११९॥
शांतिः पुष्टिः पुनस्तुष्टिमार्तंगीपदशेखरा ॥ मूलमंन्त्रं पृथङ्न्यस्येंन्निजमूर्द्धनि मन्त्रवित् ॥१२०॥
आधारदेशेऽधिष्ठाने नाभौ पश्वादनाहतं ॥ कंठदेशे भ्रवोर्मध्ये बिंदौ भूयः कला पदोः ॥१२१॥
निरोधिकायामर्द्धैदुनादे नादांतयोः पुनः ॥ उन्नतांसेषु वक्रे च ध्रुवमण्डलके शिवे ॥१२२॥
मातंग्यंताः प्रविन्यस्ये द्वामां ज्येष्ठमतः परम् ॥ रौद्रीं प्रशांतां श्रद्धाख्यां पुनर्माहेश्वरीमथ ॥१२३॥
क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं संज्ञां च मोहिनीम् ॥ प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ ॥१२४॥
ततश्व सुन्दरीं निदां नन्दबुद्धिमिमाः क्रमात् ॥ शिरोभालह्रदाधारेष्वेता बीजत्रयाधिकाः ॥१२५॥
मातंरयाद्याः प्रविन्यस्येद्यथावद्देशिकोत्तमः ॥ मांतगीं महदाद्यां तां महालक्ष्मीपदादिकाम् ॥१२६॥
सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलम् ॥ न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः ॥१२७॥
एवं न्यस्तशरीरोऽसौं चिंतयेन्मंत्रदेवताम् ॥ श्यामां शुकोक्तिं श्रॄण्वंती न्यस्तैकांघ्रिशिरोरुहाम् ॥१२८॥
शशिखण्डधरां वीणां वादंयतीं मधून्मदाम् ॥ रक्ताशुकां च कह्रारमालाशोभितचूलिकाम् ॥१२९॥
शंखपत्रां तु मातंगी चित्रकोद्धसिमस्त काम् ॥ अयुतं प्रजपेन्मंत्रं तद्दशांश मधूकजैः ॥१३०॥
पुष्पैस्त्रिमधुरोपेतर्जुहुयानंत्रासिद्धये ॥ त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत् ॥१३१॥
अष्टपत्रावृतं बाह्ये वृतं षोडशभिर्दलेः ॥ चतुरस्त्रीकृतं बाह्ये कांत्या दृष्टिमनोहरम् ॥१३२॥
एतस्मिन्पूजयेत्पीठे नवशक्तिः क्रमादिमाः ॥ विभूतिपूर्वाः पूर्वोक्ता मातंगापदपश्चिमाः ॥१३३॥
सवति शक्तिकमलासनाय नम इत्यथ ॥ वाक्यसत्यलक्ष्मी बीजाद्य उक्तपीठार्चने मनुः ॥१३४॥
मूलेन मूर्तिं संकल्प्य तस्यामावाह्य देवताम् ॥ अर्चयाद्विधिनानेन वक्ष्यमाणेन मन्त्रवित् ॥१३५॥
रत्याद्यास्त्रिषु कोणेषु पूजयेत्पूर्ववत्सुधीः ॥ ह्रह्रल्लेखाः पंचपूजय मध्ये दिक्षु च मंत्रिणा ॥१३६॥
पाशांकुशाभयाभीष्टधारिण्यो भूतसप्रभाः ॥ अंगानि पूज्येत्पश्वाद्यथापूर्वं विधानवित् ॥१३७॥
बाणानभ्यर्चयेद्दिक्षु पंचमं पुरतो यजेत् ॥ दलमध्येऽथ संपूज्या अनंगकुसुमादिकाः ॥१३८॥
पाशांकुशा भयाभीष्टधारिण्याण्योऽरुणविग्रहा ॥ पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः ॥१३९॥
बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः ॥ अपरांगा निषंगाद्याः पुष्पास्त्रेषुधनुर्द्धराः ॥१४०॥
पत्रस्था मातरः पूज्या ब्राह्मयाद्याः प्रोक्तलक्षणाः ॥ तदग्रेष्वर्चयेद्विद्वानसितांगादिभैरवान् ॥१४१॥
पुनः षोडश पत्रेषु पूज्याः षोडशः शक्तयः ॥ वामाद्याः कलवीणाभिर्गायंत्यः श्यामविग्रहाः ॥१४२॥
चतुरस्त्रे चतुर्दिक्षु चतस्त्रः पूजयेत्पुनः ॥ मातंग्याद्या मदोन्मत्ता वीणोल्लसितपाणयः ॥१४३॥
आग्न्यकोणे विघ्रेशं दुर्गां नैशाचरे यजेत् ॥ वायव्ये बटुकान् पश्वादीशाने क्षेत्रपं यजेत् ॥१४४॥
लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह ॥ मंत्रेऽस्मिन्संधिते मन्त्री साधयेदिष्टमात्मनः ॥१४५॥
मल्लिकाजातिपुन्नागैर्होमाद्धाग्यालयो भवेत् ॥ फलौर्बिल्वसमुद्धतैस्तत्पत्रैर्वा हुताद्धवेत् ॥१४६॥
राजपुत्रस्य राज्याप्तिः पंकजैः श्रियमाप्नुयात् ॥ उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम् ॥१४७॥
वंजुलस्य समिद्धोमो वृष्टिं वितनुतेऽचिरात् ॥ क्षीराक्तैरमृताखंडैर्होमान्नाशयति ज्वरम् ॥१४८॥
दुर्वाभिरायुराप्नोति तन्दुलैर्धनवान्भवेत् ॥ कदंबैर्व श्यममाप्नोती सर्वं त्रिमधुरप्लुतम् ॥१४९॥
नंद्यावर्तभवैः पुष्पेर्होमो वाक्सिद्धिदायकः ॥ निंबप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये ॥१५०॥
पलाशकुसु मैर्होमात्तेत्तेजस्वी जायते नरः ॥ चन्दनागुरुकस्तूरीचन्द्रकुंकुमरोचनाः ॥१५१॥
वश्याय च प्रियत्वाय हुताश्व तिलकीकृताः ॥ निर्गृडीमूलहोमेन निगडान्मुच्यते नरः ॥१५२॥
निंबतैलान्वितैर्लोणैर्होमः शत्रुविनाशनः ॥ हरिद्राचूर्णसंमिश्रैर्लवणैः स्यंभयेज्जगत् ॥१५३॥
मातंगीसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तम ॥ अवतारांतरं भूयो वर्णयामि निशामय ॥१५४॥
दीपिकाप्रीतिचन्द्राढ्या द्विधा चेद्राञ्जिता पुनः ॥ वतिवह्रिप्रियांत्रो धूमावत्या गजाक्षरः ॥१५५॥
पिप्पलादो मुनिश्छंदो निवृद्धूमावतीश्वरी ॥ बीजेन षडीर्घजातियुक्तेन परिकल्पयेत् ॥१५६॥
ततो धूमावतीं ध्यायेच्छत्रुनिग्रहकारिणीम् ॥ विवर्णां चंचलां दीर्घां च मलिनांबराम् ॥१५७॥
विमुक्तकुंतलां सूक्ष्मां विधवां विरलद्विजाम् ॥ कंकध्वजरथारुढां प्रलंबितपयोधराम् ॥१५८॥
सूर्यहस्तां निरुक्षांकधृतहस्तांबरान्विताम् ॥ प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम् ॥१५९॥
क्षुत्पिपासार्दितां नित्यं भयदां कलहप्रियाम् ॥ एवंविधां तु संचित्यं नमः स्वाहा फडंतकम् ॥१६०॥
बीजं साध्योपरि नस्य नस्मिन्स्थाप्य शवं जपेत् ॥ अवष्टभ्य शवं शत्रुनाम्राथ प्रजपेन्मनुम् ॥१६१॥
सोष्णीषंकचुको विद्वान्कृष्णे भूते दिवानिशम् ॥ उपवासी श्मशाने वा विपिने शून्यमंदिरे ॥१६२॥
मंत्रस्य सिद्धयै यतवाग्ध्यायन्देवीं निरंतरम् ॥ सहस्त्रादूर्द्ध्तः शत्रुर्ज्वरेण परिगुह्यते ॥१६३॥
पंचगव्येन शांतिः स्याज्ज्वरस्य पयसापि वा ॥ मंत्राद्या क्षरमालिख्य शत्रुनाम ततः परम् ॥१६४॥
द्वितीयं मनुवर्णं च शत्रुनामैवमालिखेत् ॥ सर्वं मनुदिक्सहस्त्रजपाच्छमृतिर्भवेत् ॥१६५॥
दग्ध्वा कंकं श्मशानाग्रौ तद्धस्मादाय मन्त्रवित् ॥ विरोधिनाम्राष्टाशतं जप्तच्चाटनं रिपोः ॥१६६॥
श्मशानभस्मना कृत्वा शव्म तस्योपरि न्यसेत् विरोधिनाम्संरुद्धं कृष्णे समुच्चरेत् ॥१६७॥
महिषीक्षीरधूपं च दद्याच्छत्रुविपत्करम् ॥ एवं संक्षेपतः प्रोक्तं अवतारचतुष्टयम् ॥१६८॥
दुर्गाया जगदंबायाः किं पुनः प्रष्टुमिच्छसि ॥१६९॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥८७॥
N/A
References : N/A
Last Updated : June 06, 2011
TOP