सूत उवाच ॥
एतन्निशम्य सनकोदितमप्रमेय पुण्यं हरेर्दिनभवं निखिलोत्तमं च ॥ पापौघशांतिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः ॥१॥
नारद उवाच ॥ कथितं भवता सर्वं मुने तत्त्वार्थकोविद ॥ व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम् ॥२॥
इदानीं श्रोतुमिच्छामि वर्णाचारविधिं मुने ॥ तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा ॥३॥
एतत्सर्वं महाभाग सर्वतत्त्वार्थकोविद ॥ कृपया परया मह्यं यथावद्वक्तुमर्हसि ॥४॥
सनक उवाच ॥ श़ृणुष्व मुनिशार्दूल यथा भक्तप्रियंकरः ॥ वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः ॥५॥
मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबंधनम् ॥ तत्ते वक्ष्यामि विधिवद्भक्तोऽसि त्वमधोक्षजे ॥६॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वार एव ते ॥ वर्णा इति समाख्याता एतेषु ब्राह्मणोऽधिकः ॥७॥
ब्राह्मणाः क्षत्रिया वैश्या द्विजाः प्रोक्तास्त्रयस्तथा ॥ मातृतश्चोपनयनाद्वि जत्वं प्राप्यते त्रिभिः ॥८॥
एतैर्वर्णैः सर्वधर्माः कार्या वर्णानुरूपतः॥ स्ववर्णधर्मत्यागेन पाषंडः प्रोच्यते बुधैः ॥९॥
स्वगृह्यचोदितं कर्म द्विजः कुर्वन्कृती भवेत् ॥ अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः ॥१०॥
युगधर्मः परिग्राह्यो वर्णैरेतैर्यथो चितम् ॥ देशाचारास्तथा ग्राह्याः स्मृतिधर्माविरोधतः॥११॥
कर्मणा मनसा वाचा यत्नाद्धर्म्मं समाचरेत् ॥ अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु ॥१२॥
समुद्रयात्रास्वीकारः कमंडलुविधारणम् ॥ द्विजानामसवर्णासु कन्या सूपयमस्तथा ॥१३॥
देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः ॥ मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥१४॥
दत्ताक्षतायाः कन्यायाः पुनर्दानं वराय च ॥ नैष्ठिकं ब्रह्मचर्य च नरमेधाश्वमेधकौ ॥१५॥
महाप्रस्थानगमनं गोमेधश्च तथा मखः ॥ एतान्धर्मान्कलियुगे वर्ज्यानाहुर्मनीषिणः ॥१६॥
देशाचाराः परिग्राह्यस्तत्तद्देशगतैर्नरैः। अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥१७॥
ब्राह्मणक्षत्रियविशां शूद्राणां च द्विजोत्तम ॥ क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः ॥१८॥
दानं दद्याद्ब्रह्मणेभ्यस्तथा यज्ञैर्यजेत्सुरान् ॥ वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा ॥१९॥
याजयेद्यजने योग्यान्विप्रो नित्योदको भवेत् ॥ कुर्य्याच्च वेदग्रहणं तथाग्नेश्च परिग्रहम् ॥२०॥
ग्राह्ये द्रव्ये च पारक्ये समबुद्धिर्भवेत्तथा ॥ सर्वलोकहितं कुर्यान्मृदुवाक्यमुदीरयेत् ॥२१॥
ऋतावभिगमः पत्न्यां शस्यते ब्राह्मणस्य वै ॥ न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत् ॥२२॥
दयाद्दानानि विप्रेभ्यः क्षत्रियोऽपि द्विजोत्तम ॥ कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा ॥२३॥
शस्त्राजीवी भवेच्चैव पालयेद्धर्मतो महीम् ॥ दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा ॥२४॥
पाशुपाल्यं च वाणिज्यं कृषिश्च द्विजसत्तम ॥ वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम् ॥२५॥
कुर्याच्च दारग्रहणं धर्माश्चैव समाचरेत् । क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः ॥२६॥
दद्याद्दानानि शूद्रोऽपि पाकयज्ञैर्यजेन्न च ॥ ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत् ॥२७॥
ऋतुकालाभिगामी च स्वदारेषु भवेत्तथा ॥ सर्वलोकहितैषित्वं मंगलं प्रियवादिता ॥२८॥
अनायासो मनोहर्षस्तितिक्षा नातिमानिता ॥ सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम् ॥२९॥
सर्वे च मुनितां यांति स्वाश्रमोचितकर्मणा ॥ ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज ॥३०॥
क्षत्रियोऽपि च विड्वृत्तिमत्यापदि समाश्रयेत् ॥ नाश्रयेच्छूद्रवृत्ति तु अत्यापद्यपि वै द्विजः ॥३१॥
यद्याश्रयोद्विजो मूढस्तदा चांडालतां व्रजेत् ॥ ब्राह्मणक्षत्रियविशा त्रयाणां मुनिसत्तम ॥३२॥
चत्वार आश्रमाः प्रोक्ताः पंचमो नोपद्यते ॥ ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम ॥३३॥
चतुर्भिराश्रमैरेभिः साध्यते धर्म उत्तमः ॥ विष्णुस्तुष्यति विप्रेंद्र कर्मयोगरतात्मनः ॥३४॥
निःस्पृहाशांतमनसः स्वकर्मनिरतस्य च ॥ ततो याति परं स्थानं यतो नावर्त्तते पुनः ॥३५॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथपादे सदाचारो नाम चतुर्विंशोऽध्यायः ॥२४॥