सनक उवाच ॥
भूयः श़ृणुष्व विप्रेंद्र माहात्म्यं परमेष्ठिनः ॥ सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ॥१॥
अहो हरिकथा लोके पापघ्नी पुण्यदायिनी ॥ श़ृण्वतां वदतां चैव तद्भक्तानां विशेषतः ॥२॥
हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः ॥ नमस्करोम्यहं तेभ्यो यत्संगान्मुक्ति भाग्नरः ॥३॥
हरिभक्तिपरा ये तु हरिनामपरायणाः ॥ दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः ॥४॥
संसारसागरं तर्तुं य इच्छेन्मु निपुङ्गव ॥ स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः ॥५॥
दृष्टः स्मृतः पूजितो वा ध्यातः प्रणमितोऽपि वा ॥ समुद्धरति गोविंदो दुस्तराद्भव सागरात् ॥६॥
स्वपन्भुंजन् व्रजंस्तिष्ठन्नतिष्ठंश्र्च वदंस्तथा ॥ चिंतयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः ॥७॥
अहो भाग्यमहो भाग्यं विष्णु भक्तिरतात्मनाम् ॥ येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा ॥८॥
अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥ वदतां श़ृष्वतां चैव सर्वपाप प्रणाशनम् ॥९॥
आसीत्पुरा महीपालः सोमवंशसमुद्भवः ॥ जयध्वज इति ख्यातो नारायणपरायणः ॥१०॥
विष्णोर्देवालये नित्यं समार्जनपरायणः ॥ दीपदानरतश्र्चैव सर्वभूतदयापरः ॥११॥
स कदाचिन्महीपालो रेवातीरे मनोरमे ॥ विचित्रकुसुमोपेतं कृतवान्विष्णुमंदिरम् ॥१२॥
स तत्र नृपशार्दूलः सदा संमार्जने रतः ॥ दीपदानपरश्र्चैव विशेषेण हरिप्रियः ॥१३॥
हरिनामपरो नित्यं हरिसंसक्तमानसः ॥ हरिप्रणामनिरतो हरिभक्तिजनप्रियः ॥१४॥
वीतिहोत्र इति ख्यातो ह्यासीत्तस्य पुरोहितः ॥ जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः ॥१५॥
कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् ॥ अपृच्छद्वीतिहोत्रस्तु वेदवेदांगपारगः ॥१६॥
वीतिहोत्र उवाच ॥
राजप्रमधर्मज्ञ हरिभक्तिपरायण ॥ विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि भरतर्षभ ॥१७॥
संमार्जनपरो नित्यं दीपदानरतस्तथा ॥ तन्मे वद महाभाग किं त्वया विदितं फलम् ॥१८॥
संपादनेन वर्त्तीनां तैलसंपादनेन च ॥ संयुक्तोऽसि सदा भद्रयद्विष्णोर्गृहमार्जने ॥१९॥
कर्माण्यन्यानि संत्येव विष्णोः प्रीतिकराणि च ॥ तथापि किं महाभाग एतयोः सततोद्यतः ॥२०॥
सर्वात्मना महापुण्यं नरेश विदित च यत् ॥ तदू ब्रूहि मे गृह्यतमं प्रीतिर्मयि तवास्ति चेत् ॥२१॥
पुरोधसैवमुक्तस्तु प्रहसन्स जयध्वजः ॥ विनयावनतो भूत्वा प्रोवाचेदं कतांजलिः ॥२२॥
जयध्वज उवाच ॥
श़ृणुष्व विप्रशार्दूल मयैवाचरितं पुरा ॥ जातिस्मरत्वाज्जानामि श्रोतृणां विस्मयप्रदम् ॥२३॥
आसीत्पुरा कृतयुगे ब्रह्मन्स्वारोचिषेंऽतरे ॥ रैवतो नाम विप्रद्रो वेदवेदांगपारगः ॥२४॥
अयाज्ययाजकश्र्चैव सदैव ग्रामयाजकः ॥ पिशुनो निष्ठुरश्र्चैव ह्यपण्यानां च विक्रयी ॥२५॥
निषिद्धकर्माचरणात्परित्यक्तः स बन्धुभिः ॥ दरिद्रो दुःखितश्र्चैव शीर्णांगो व्याधितोऽभवत् ॥२६॥
स कदाचिद्धनार्थं तु पृथिव्यां पर्यटन् द्विजः ॥ ममार नर्मदातीरे श्र्वासकासप्रपीडितः॥२७॥
तस्मिमन्मृते तस्य भार्या नाम्ना बन्धुमती मुने ॥ कामचारपरा सा तु परित्यक्ता च बन्धुभिः ॥२८॥
तस्यां जातोऽस्मि चण्डालो दण्डकेतुरिति श्रुतः ॥ महापापरतो नित्यं ब्रह्मद्वेषपरायणः ॥२९॥
परदारपरद्रव्यलोलुपो जन्तुहिंसकः ॥ गावश्र्च विप्रा बहवो निहता मृगपक्षिणः ॥३०॥
मेरुतुल्यसु बहून्यपहृतानि च ॥ मद्यपानरतो नित्यं बहुशो मार्गरोधकृत् ॥३१॥
पशुपक्षिमृगादीनां जन्तूनामन्तकोपमः ॥ कदाचित्कामसंतप्तो गतु कामो रतिं स्त्रियः ॥३२॥
शून्यं विष्णुगृहं दृष्ट्वा प्रविष्टश्र्च स्त्रिया सह ॥ निशि रामोपभोगार्थं शयितं तत्र कामिना ॥३३॥
ब्रह्मन्स्ववस्त्रप्रांतेन कियद्देशः प्रमार्जितः ॥ यावंत्यः पांशुकणिकास्तत्र संमार्जिता द्विज ॥३४॥
तावज्जन्मकृतं पापं तदैव क्षयमागतम् ॥ प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ॥३५॥
तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् ॥ एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः ॥३६॥
जारोऽयमिति मां तां च हतवंतः प्रसह्य वै ॥ आवां निहत्य ते सर्वे निवृत्ताः पुररक्षकाः ॥३७॥
यदा तदैव संप्राप्ता विष्णुदूताश्र्चतुर्भुजाः ॥ किरीटकुंडलधरा वनमालाविभूषिताः ॥३८॥
तैस्तु संप्रेरितावावां विष्णुदूतैरकल्मषैः ॥ दिव्यं विमानमारुह्य सर्वभोगसमन्वितम् ॥३९॥
दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ ॥ तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम ॥४०॥
दिव्यभोगसमायुक्तो तावत्कालं दिवि स्थितौ ॥ ततश्र्च भूमिभागेषु देवयोगेषु वै क्रमात् ॥४१॥
तेन पुण्यप्रभावेण यदूनां वंशसंभवः तेनैव मेऽच्युता संपत्तथा राज्यमकंटकम् ॥४२॥
ब्रह्मन्कृत्वोपभोगार्थमेवं श्रेयो ह्यवाप्तवान् ॥ भक्तया कुर्वंति ये संतस्तेषां पुण्यं न वेदृयहम् ॥४३॥
तस्मात्संमार्जने नित्यं दीपदाने च सत्तम ॥ यतिष्ये परया भक्तया ह्यहं जातिस्मरो यतः ॥४४॥
यः पूजयेज्जगन्नाथमेकाकी विगतस्पृहः ॥ सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ॥४५॥
अवशेनापि यत्कर्मं कृत्वेमां श्रियमागतः ॥ भक्तिमद्भिः प्रशांतैश्र्च किं पुनः सम्यगर्चनात् ॥४६॥
इति भूपवचः श्रुत्वा वीतिहोत्रो द्विजोत्तमः ॥ अनंततुष्टिमापन्नो हरिपूजापरोऽभवत् ॥४७॥
तस्माच्छृणुष्व विप्रेंद्र देवो नारायणोऽव्ययः ॥ ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥४८॥
अनित्या बांधवाः सर्वे विभवो नैव शाश्र्वतः ॥ नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥४९॥
अज्ञो लोको वृथा गर्वं करिष्यति महोद्धतः ॥ कायः संनिहितापायो धनादीनां किमुच्यते ॥५०॥
जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् ॥ तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ॥५१॥
सुलभं जाह्नवींस्नानं तथैवातिथिपूजनम् ॥ सुलभाः सर्वयज्ञाश्र्च विष्णुभक्तिः सुदुर्लभा ॥५२॥
दुर्लभा तुलसीसेवा दुर्लभः संगमः सताम् ॥ सर्वभूतदया वापि सुलभा यस्य कस्य चित् ॥५३॥
सत्संगस्तुलसीसेवा हरिभक्तिश्र्च दुर्लभा ॥५४॥
दुर्लभं प्राण्य मानुष्यं न तथा गमयेदू बुधः ॥ अर्चयेद्धि जगन्नाथं सारमेतद्दिजोत्तमा ॥५५॥
तर्त्तुं यदीच्छति जनो दुस्तरं भवसागरम् ॥ हरिभक्तिपरो भूयादेतदेव रसायनम् ॥५६॥
भ्रातराश्रय गोविंदं मा विलबं कुरु प्रिय ॥ आसन्नमेव नगरं कृतांतस्य हि दृश्यत ॥५७॥
नारायणं जगद्योनिं सर्वकारणकारणम् ॥ समर्चयस्व विप्रेंद्र यदि मुक्तिमभीप्यसि ॥५८॥
सर्वाधार सर्वयोनिं सर्वांतर्यामिणं विभुम् ॥ ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः ॥५९॥
ते वंद्यास्ते प्रपूज्याश्र्च नमस्कार्या विशेषतः ॥ येऽर्चयंति महाविष्णुं प्रणतार्तिप्रणाशनम् ॥६०॥
ये विष्णुभक्ता निष्कामा यजंति परमेश्र्वरम् ॥ त्रिः सप्तकुलसंयुक्तास्ते यांति हरिमंदिरम् ॥६१॥
विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने ॥ पानीयं वा फलं वापि स एव भगवत्प्रियः ॥६२॥
विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये ॥ ते यान्ति विष्णुभुवनं यावदाभूतसंप्लवम् ॥६३॥
ये यंजति स्पृहाशून्या हरिभक्तान् हरिं तथा ॥ त एव भुवनं सर्वं पुंनति स्वांघ्रिपांशुना ॥६४॥
देवपूजापरो यस्य गृहे वसति सर्वदा ॥ तत्रैव सर्वदेवाश्र्च तिष्ठन्ति श्रीहरिस्तथा ॥६५॥
पूज्यमाना च तुलसी यस्य तिष्ठति वेश्मनि ॥ तत्र सर्वाणि श्रेयांसि वर्द्धंत्यहरर्द्विज ॥६६॥
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥ न बाधंते ग्रहास्तत्र भूतवेतालकादयः ॥६७॥
शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् ॥ यतः संनिहितस्तत्र भगवान्मधुसूदनः ॥६८॥
यद्रृहे नास्ति देवर्षे शालग्रामशिलार्चनम् ॥ श्मशानसदृशं विद्यात्तद् गृहं शुभवर्जितम् ॥६९॥
पुराणन्यायमीमांसा धर्मशास्त्राणि च द्विज ॥६९॥
सांगा वेदास्तथा सर्वै विष्णोरूपं प्रकी र्तितम् ॥७०॥
भक्त्या कुर्वंति ये विष्णोः प्रदक्षिणचतुष्टयम् ॥ तेऽपि यांति परं स्थानं सर्वकर्मनिबर्हणम् ॥७१॥
इति बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं नाम एकोनचत्वारिंशोऽध्यायः ॥३९॥