आर्या सप्तशती - ग्रन्थारम्भ-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
पाणि-ग्रहे पुलकितं वपुर् ऐशं भूति-भूषितं जयति ।
अङ्कुरित इव मनो-भूर् यस्मिन् भस्मावशेषो ऽपि ॥१॥
मा वम संवृणु विषम् इदम् इति सातङ्कं पितामहेनोक्तः ।
प्रातर् जयति सलज्जः कज्जल-मलिनाधरः शम्भुः ॥२॥
जयति प्रिया-पदान्ते गरल-ग्रैवेयकः स्मरारातिः ।
विषम-विशिखे विशन्न् इव शरणं गल-बद्ध-करवालः ॥३॥
जयति ललाट-कटाक्षः शशि-मौलेः पक्ष्मलः प्रियाग्रणतौ ।
धनुषि स्मरेण निहितः स-कण्टकः केतकेषुर् इव ॥४॥
जयति जटा-किञ्जल्कं गङ्गा-मधु मुण्ड-वलय-बीजम् अयम् ।
गल-गरल-पङ्क-सम्भवम् अभोरुहम् आननं शम्भोः ॥५॥
सन्ध्या-सलिलाञ्जलिम् अपि कङ्कण-फणि-पीयमानम् अविजानन् ।
गौरी-मुखार्पित-मना विजया-हसितः शिवो जयति ॥६॥
प्रतिबिम्बित-गौरी-मुख-विलोकनोत्कम्प-शिथिल-कर-गलितः ।
स्वेद-भर-पूर्यमाणः शम्भोः सलिलाज् जलिर् जयति ॥७॥
प्रणय-कुपित-प्रिया-पद-लाक्षा-सन्ध्यानुबन्ध-मधुरेन्दुः ।
तद्-वलय-कनक-निकष-ग्राव-ग्रीवः शिवो जयति ॥८॥
पूर्ण-नखेन्दुर् द्विगुणित-मञ्जीरा प्रेम-शृङ्खला जयति ।
हर-शशि-लेखा गौरी-चरणाङ्गुलि-मध्य-गुल्फेषु ॥९॥
श्री-कर-पिहितं चक्षुः सुखयतु वः पुण्डरीक-नयनस्य ।
जघनम् इवेक्षितुम् आगतम् अब्ज-निभं नाभि-सुषिरेण ॥१०॥
श्यामं श्री-कुच-कुङ्कुम-पिञ्जरितम् उरो मुरद्विषो जयति ।
दिन-मुख-नभ इव कौस्तुभ-विभाकरो यद् विभूषयति ॥११॥
प्रतिबिम्बित-प्रिया-तनु स-कौस्तुभं जयति मधुभिदो वक्षः ।
पुरुषायितम् अभ्यस्यति लक्ष्मीर् यद् वीक्ष्य मुकुरम् इव ॥१२॥
केलि-चलाङ्गुलि-लम्भित-लक्ष्मी-नाभिर् मुरद्विषश् चरणः ।
स जयति येन कृता श्रीर् अनुरूपा पद्मनाभस्य ॥१३॥
रोमावली मुरारेः श्रीवत्स-निषेविताग्र-भागा वः ।
उन्नाल-नाभि-नलिन-च्छायेवोत्तापम् अपहरतु ॥१४॥
आदाय सप्त-तन्त्रोचितां विपञ्चीम् इव त्रयीं गायन् ।
मधुरं तुरङ्ग-वदनोचितं हरिर् जयति हय-मूर्धा ॥१५॥
स जयति महाबाहो जल-निधि-जठरे चिरं निमग्नापि ।
येनान्त्रैर् इव सह फणि-गणैर् बलाद् उद्धृता धरणी ॥१६॥
ब्रह्माण्ड-कुम्भकारं भुजगाकारं जनार्दनं नौमि ।
स्फारे यत्-फण-चक्रे धरा शराव-श्रियं वहति ॥१७॥
चण्डी-जङ्घा-काण्डः शिरसा चरण-स्पृशि प्रिये जयति ।
शङ्कर-पर्यन्त-जितो विजय-स्तम्भः स्मरस्येव ॥१८॥
उन्नाल-नाभि-पङ्केरुह इव येनावभाति शम्भुर् अपि ।
जयति पुरुषायितायास् तद्-आननं शैल-कन्यायाः ॥१९॥
अङ्क-निलीन-गजानन-शङ्काकुल-बाहुलेय-हृत-वसनौ ।
स-स्मित-हर-कर-कलितौ हिम-गिरि-तनया-स्तनौ जयतः ॥२०॥
कण्ठोचितो ऽपि हुङ्कृति-मात्र-निरस्तः पदान्तिके पतितः ।
यस्याश् चन्द्र-शिखः स्मर-भल्ल-निभो जयति सा चण्डी ॥२१॥
देवेऽर्पित-वरण-स्रजि बहुमाये वहति कैटभी-रूपम् ।
जयति सुरासुर-हसिता लज्जा-जिह्मेक्षणा लक्ष्मीः ॥२२॥
तान् असुरान् अपि हरिम् अपि तं वन्दे कपट-कैटभी-रूपम् ।
यैर् यद् बिम्बाधर-मधु-लुब्धैः पीयुषम् अपि मुमुचे ॥२३॥
तल्पी-कृताहिर् अगणित-गरुडो हाराभिहत-विधिर् जयति ।
फण-शत-पीत-श्वासो रागान्धायाः श्रियः केलिः ॥२४॥
स्मेरान् अनेन हरिणा यत् स्पृहम् आकार-वेदिनाकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभी-ध्यानम् ॥२५॥
कृत-कान्त-केलि-कुतुक-श्री-शीत-श्वास-सेक-निद्राणः ।
घोरित-विततालि-रुतो नाभि-सरोजे विधिर् जयति ॥२६॥
एक-रद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्च-कर ।
जय षण्-मुख-नुत सप्त-च्छद-गन्धि-मदाष्ट-तनु-तनय ॥२७॥
मङ्गल-कलश-द्वय-मय-कुम्भम् अदम्भेन भजत गज-वदनम् ।
यद्-दान-तोय-तरलैस् तिल-तुलनालम्बि रोलम्बैः ॥२८॥
याभिर् अनङ्गः साङ्गी-कृतः स्त्रियो ऽस्त्री-कृताश् च ता येन ।
वामाचरण-प्रवणौ प्रणम्ततौ कामिनी-कामौ ॥२९॥
विहित-घनालङ्कारं विचित्र-वर्णावली-मय-स्फुरणम् ।
शक्रायुधम् इव वक्रं वल्मीक-भुवं कविं नौमि ॥३०॥
व्यास-गिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
भूषणयैव सञ्ज्ञां यद् अङ्कितां भारती वहति ॥३१॥
सति काकुत्स्थ-कुलोन्नति-कारिणि रामायणे किम् अन्येन ।
रोहति कुल्या गङ्गा-पूरे किं बहुरसे वहति ॥३२॥
अतिदीर्घ-जीवि-दोषाद् व्यासेन यशो ऽपहारितं हन्त ।
कैर् नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥३३॥
श्री-रामायण-भारत-बृहत्-कथानां कवीन् नमस्कुर्मः ।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर् भिन्ना ॥३४॥
साकूत-मधुर-कोमल-विलासिनी-कण्ठ-कूजित-प्राये ।
शिक्ष-समयेऽपि मुदे रत-लीला-कालिदासोक्ती ॥३५॥
भवभूतेः सम्बन्धाद् भूधर-भूर् एव भारती भाति ।
एतत्-कृत-कारुण्ये किम् अन्यथा रोदिति ग्रावा ॥३६॥
जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यम् अधिकम् आप्तुं वाणी बाणो बभूवेति ॥३७॥
यं गणयति गुरोर् अनु यस्यास् ते धर्म-कर्म सङ्कुचितम् ।
कविम् अहम् उशनसम् इव तं तातं नीलाम्बरं वन्दे ॥३८॥
सकल-कलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुद-बन्धोश् च ।
सेन-कुल-तिल-भूपतिर् एको राका-प्रदोषश् च ॥३९॥
काव्यस्याक्षर-मैत्री-भाजो न च कर्कशा न च ग्राम्याः ।
शब्दा अपि पुरुषा अपि साधव एवार्थ-बोधाय ॥४०॥
वंशे घुण इव न विशति दोषो रस-भाविते सतां मनसि ।
रसम् अपि तु न प्रतीच्छति बहु-दोषः सन्निपातीव ॥४१॥
विगुणो ऽपि काव्य-बन्धः साधूनाम् आननं गतः स्वदते ।
फूत्कारो ऽपि सुवंशैर् अनूद्यमानः श्रुतिं हरति ॥४२॥
स्वयम् अपि भूरि-च्छिद्रश् चापलम् अपि सर्वतोमुखं तन्वन् ।
तितौस् तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥४३॥
अन्तर्-गूढानर्थानव्यञ्जयतः प्रसाद-रहितस्य ।
सन्दर्भस्य नदस्य च न रसः प्रीत्यै रस-ज्ञानाम् ॥४४॥
यदसेवनीयम् असताम् अमृत-प्रायं सुवर्ण-विन्यासम् ।
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥४५॥
सत्-कवि-रसना-शूर्पी-निस्तुषतर-शब्द-शालि-पाकेन ।
तृप्तो दयिताधरम् अपि नाद्रियते का सुधा दासी ॥४६॥
अकलित-शब्दालङ्कृतिर् अनुकूला स्खलि-पद-निवेशापि ।
अभिसारिकेव रमयति सूक्तिः सोत्कर्ष-शृङ्गारा ॥४७॥
अध्वनि पद-ग्रह-परं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यम् अभिज्ञ-सभायां मञ्जीरं केलि-वेलायाम् ॥४८॥
आस्वादित-दयिताधर-सुधा-रसस्यैव सूक्तयो मधुराः ।
अकलित-रसाल-मुकुलो न कोकिलः कलम् उदञ्चयति ॥४९॥
बाला-कटाक्ष-सूत्रितम् असती-नेत्र-त्रिभाग-कृत-भाष्यम् ।
कवि-माणवका दूती-व्याख्यातम् अधीयते भावम् ॥५०॥
मसृण-पद-गीति-गतयः सज्जन-हृदयाभिसारिकाः सुरसाः ।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥५१॥
वाणी प्राकृत-समुचित-रसा बलेनैव संस्कृतं नीता ।
निम्नानुरूप-नीरा कलिन्द-कन्येव गगन-तलम् ॥५२॥
आर्या-सप्तशतीयं प्रगल्भ-मनसाम् अनादृता येषाम् ।
दूती-रहिता इव ते न कामिनी-मनसि निविशन्ते ॥५३॥
रत-रीति-वीत-वसना प्रियेव शुद्धापि वाङ्-मुदे सरसा ।
अरसा सालङ्कृतिर् अपि न रोचते शालभञ्जीव ॥५४॥
इति ग्रन्थारम्भ-व्रज्या समाप्ता ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP