आर्या सप्तशती - द-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
दर्शन-विनीत-माना गृहिणी हर्षोल्लसत्-कपोल-तलम् ।
चुम्बन-निषेध-मिषतो वदनं पिदधाति पाणिभ्याम् ॥२७६॥
देह-स्तम्भः स्खलनं शैथिल्यं वेपथुः प्रिय-ध्यानम् ।
पथि पथि गगनाश्लेषः कामिनि कस् तेऽभिसार-गुणः ॥२७७॥
द्राघयता दिवसानि त्वदीय-विरहेण तीव्र-तापेन ।
ग्रीष्मेणेव नलिन्या जीवनम् अल्पीकृतं तस्याः ॥२७८॥
दुर्जन-सहवासाद् अपि शीलोत्कर्षं न सज्जनस् त्यजति ।
प्रतिपर्व-तपन-वासी निःसृत-मात्रः शशी शीतः ॥२७९॥
दयित-प्रहितां दूतीम् आलम्ब्य करेण तमसि गच्छन्ती ।
स्वेद-च्युत-मृगनाभिर् दूराद् गौराङ्गि दृश्यासि ॥२८०॥
दयिता-गुणः प्रकाशं नीतः स्वस्यैव वदन-दोषेण ।
प्रतिदिन-विदलित-वाटी-वृति-गह्टनैः खिद्यसे किम् इति ॥२८१॥
दाक्षिण्यान् म्रदिमानं दधतं मा भानुम् एनम् अवमंस्थाः ।
रौद्रीम् उपागतेऽस्मिन् कः क्षमते दृष्टिम् अपि दातुम् ॥२८२॥
दृष्ट्यैव विरह-कातर-तारकया प्रिय-मुखे समर्पितया ।
यान्ति मृग-वल्लभायाः पुलिन्द-बाणार्दिताः प्राणाः ॥२८३॥
दूर-स्थापित-हृदयो गूढ-रहस्यो निकामम् आशङ्कः ।
आश्लेषो बालानां भवति खलानां च सम्भेदः ॥२८४॥
द्वारे गुरवः कोणे शुकः सकाशे शिशुर् गृहे सख्यः ।
कालासह क्षमस्व प्रिय प्रसीद प्रयात-महः ॥२८५॥
दधि-कण-मुक्ता-भरण-श्वासोत्तुङ्ग-स्तनार्पण-मनोज्ञम् ।
प्रियम् आलिङ्गति गोपी मन्थन-श्रम-मन्थरैर् अङ्गैः ॥२८६॥
दलितोद्वेगेन सखि प्रियेण लग्नेन रागम् आवहता ।
मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥२८७॥
दृष्टम् अदृष्ट-प्रायं दयितं कृत्वा प्रकाशितस् तनया ।
हृदयं करेण ताडितम् अथ मिथ्या व्यञ्जित-त्रपया ॥२८८॥
दर्शित-यमुनोच्छ्राये भ्रू-विभ्रम-भाजि वलति तव नयने ।
क्षिप्त-हले हलधर इव सर्वं पुरमर्जितं सुतनु ॥२८९॥
दयित-प्रार्थित-दुर्लभ-मुख-मदिरा-सारसेक-सुकुमारः ।
व्यथयति विरहे बकुलः क्व परिचयः प्रकृति-कठिनानाम् ॥२९०॥
द्वित्रैर् एष्यामि दिनैर् इति किं तद् वचसि सखि तवाश्वासः ।
कथयति चिर-पथिकं तं दूर-निखातो नखाङ्कस् ते ॥२९१॥
दयित-स्पर्शोन्मीलित-धर्म-जल-स्खलित-चरण-खलाक्षे ।
गर्व-भर-मुखरिते सखि तच्-चिकुरान् किम् अपराधयसि ॥२९२॥
दुष्ट-ग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।
भौमेनेव निजं कुलम् अङ्गार-कवत्-कृतं येन ॥२९३॥
दर्शित-चापोच्छ्रायैस् तेजोवद्भिः सुगोत्र-सञ्जातैः ।
हीरैर् अप्स्व् अपि वीरैर् आपत्स्व् अपि गम्यते नाधः ॥२९४॥
दर-निद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून् मे ।
मुग्धे तव दृष्टिर् असाव् अर्जुन-यन्त्रेषुर् इव हन्ति ॥२९५॥
दुर्गत-गृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥२९६॥
दुर्गत-गेहिनि जर्जर-मन्दिर-सुप्तैव वन्दसे चन्द्रम् ।
वयम् इन्दु-वञ्चित-दृशो निचुलित-दोला-विहारिण्यः ॥२९७॥
दीप-दशा कुल-युवतिर् वैदग्ध्येनैव मलिनताम् एति ।
दोषा अपि भूषायै गणिकायाः शशि-कलायाश् च ॥२९८॥
दीर्घ-गवाक्ष-मुखान्तर्-निपातिनस् तरणि-रश्मयः शोणाः ।
नृहरि-नखा इव दानव-वक्षः प्रविशन्ति सौध-तलम् ॥२९९॥
दर-तरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दर-हसिते ।
आस्तां कुसुमं वीरः स्मरो ऽधुना चित्र-धनुषापि ॥३००॥
दुष्ट-सखी-सहितेयं पूर्णेन्दु-मुखी सुखाय नेदानीम् ।
राकेव विष्टि-युक्ता भवतो ऽभिमताय निशि भवतु ॥३०१॥
दलिते पलाल-पुञ्जे वृषभं परिभवति गृह-पतौ कुपिते ।
निभृत-निभालित-वदनौ हलिक-वधू-देवरौ हसतः ॥३०२॥
दीप्यन्तां ये दीप्त्यै घटिता मणयश् च वीर-पुरुषाश् च ।
तेजः स्व-विनाशाय तु नृणां तृणानाम् इव लघूनाम् ॥३०३॥
इति विभाव्याख्या-समेता द-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP