आर्या सप्तशती - क-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


केलि-निलयं सखीम् इव नयति नवोढां स्वयं न मां भजते ।
इत्थं गृहिणीम् अर्ये स्तुवति प्रतिवेशिना हसितम् ॥१५०॥


काल-क्रम-कमनीय-क्रोडेयं केतकीति काशंसा ।
वृद्धिर् यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥१५१॥


कृतकस्वाप मदीय-श्वास-ध्वनि-दत्त-कर्ण किं तीव्रैः ।
विध्यसि मां निःश्वासैः स्मरः शरैः शब्द-वेधीव ॥१५२॥


क्व स निर्मोक-दुकूलः क्वालङ्करणाय फणि-मणि-श्रेणी ।
कालिय-भुजङ्ग-गमनाद् यमुने विश्वस्य गम्यासि ॥१५३॥


किञ्चिन् न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।
मयि पद-पतिते केवलम् अकारि शुक-पञ्जरो विमुखः ॥१५४॥


कृत-हसित-हस्त-तालं मन्मथ-तरलैर् विलोकितां युवभिः ।
क्षिप्तः क्षिप्तो निपतन्न् अङ्गे नर्तयति भृङ्गस् ताम् ॥१५५॥


कमल-मुखि सर्वतोमुख-निवारणं विदधद् एव भूषयति ।
रोधो ऽरुद्ध-स्वरसास् तरङ्गिणीस् तरल-नयनाश् च ॥१५६॥


कितव प्रपञ्चिता सा भवता मन्दाक्ष-मन्द-सञ्चारा ।
बहु-दायैर् अपि सम्प्रति पाशकसारीव नायाति ॥१५७॥


कः श्लाघनीय-जन्मा माघ-निशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिल-दीर्घः कथयति काञ्ची-निनादो ऽयम् ॥१५८॥


किम् अशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।
सा गिरिश-भुज-भुजङ्गम-फेणोपधानाद्य निद्राति ॥१५९॥

कृत्रिम-कनकेनेव प्रेम्णा मुषितस्य वार-वनिताभिः ।
लघुर् इव वित्त-विनाश-क्लेशो जन-हास्यता महती ॥१६०॥


किं पर्व-दिवसम् आर्जित-दन्तोष्ठि निजं वपुर् न मण्डयसि ।
स त्वां त्यजति न पर्वस्व् अपि मधुराम् इक्षु-यष्टिम् इव ॥१६१॥


कष्टं साहस-कारिणि तव नयनार्धेन सो ऽध्वनि स्पृष्टः ।
उपवीताद् अपि विदितो न द्विज-देहस् तपस्वी ते ॥१६२॥


क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्य् एव ।
रौद्रेऽनभ्रेऽपि नभः-सुरापगा-वारि-वृष्टिर् एव ॥१६३॥


कूप-प्रभवाणां परम् उचितम् अपां पट्ट-बन्धनं मन्ये ।
याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥१६४॥


कररुह-शिखा-निखात भ्रान्त्वा विश्रान्त रजनि-दुरवाप ।
रविर् इव यन्त्रोल्लिखितः कृशो ऽपि लोकस्य हरसि दृशम् ॥१६५॥


किं करवाणि दिवा-निशम् अपि लग्ना सहज-शीतल-प्रकृतिः ।
हन्त सुखयामि न प्रियम् आत्मानम् इवात्मनश् छाया ॥१६६॥


केशैः शिरसो गरिमा मरणं पीयूष-कुण्ड-पातेन ।
दयित-वहनेन वक्षसि यदि भारस् तद् इदम् अचिकित्स्यम् ॥१६७॥


किञ्चित् कर्कशताम् अनु रसं प्रदास्यन् निसर्ग-मधुरं मे ।
इक्षोर् इव ते सुन्दरि मानस्य ग्रन्थिर् अपि काम्यः ॥१६८॥


केन गिरिशस्य दत्ता बुद्धिर् भुजगं जटावनेऽर्पयितुम् ।
येन रति-रभस-कान्ता-कर-चिकुराकर्षणं मुषितम् ॥१६९॥


कर-चरण-काञ्चि-हार-प्रहारम् अवचिन्त्य बल-गृहीत-कचः ।
प्रणयी चुम्बति दयिता-वदनं स्फुरद्-अधरम् अरुणाक्षम् ॥१७०॥


कुरुतां चापलम् अधुना कलयतु सुरसासि यादृशी तद् अपि ।
सुन्दरि हरीतकीम् अनु परिपीता वारिधारेव ॥१७१॥


कज्जल-तिलक-कलङ्कित-मुख-चन्द्रे गलित-सलिल-कण-केशि ।
नव-विरह-दहन-तूलो जीवयितव्यस् त्वया कतमः ॥१७२॥


कृच्छ्रानुवृत्तयो ऽपि हि परोपकारं त्यजन्ति न महान्तः ।
तृण-मात्र-जीवना अपि करिणो दान-द्रवार्द्र-कराः ॥१७३॥


किं हसथ किं प्रधावथ किं जनम् आह्वयथ बालका विफलम् ।
तद् अथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे ॥१७४॥


कातरता-केकरित-स्मर-लज्जा-रोष-मसृण-मधुराक्षी ।
योक्तुं न मोक्तुम् अथवा वलतेऽसाव् अर्थ-लब्ध-रतिः ॥१७५॥


केतक-गर्भे गन्धादरेण दूराद् अमी द्रुतम् उपेताः ।
मदन-स्यन्दन-वाजित इव मधुपा धूलिम् आददते ॥१७६॥


को वक्रिमा गुणाः के का कान्तिः शिशिर-किरण-लेखानाम् ।
अन्तः प्रविश्य यासाम् आक्रान्तं पशु-विशेषेण ॥१७७॥


कृत-विविध-मथन-यत्नः पराभावाय प्रभुः सुरासुरयोः ।
इच्छति सौभाग्यम् अदात् स्वयंवरेण श्रियं विष्णुः ॥१७८॥


किं पुत्रि गण्ड-शैल-भ्रमेण नव-नीरदेषु निद्रासि ।
अनुभव चपलाविलसित-गर्जित-देशान्तर-भ्रान्तीः ॥१७९॥


कान्तः पदेन हत इति सरलाम् अपराध्य किं प्रसादयथ ।
सो ऽप्य् एवम् एव सुलभः पद-प्रहारः प्रसादः किम् ॥१८०॥


कर्ण-गतेयम् अमोघा दृष्टिस् तव शक्तिर् इन्द्र-दत्ता च ।
सा नासादित-विजया क्वचिद् अपि नापार्थ-पतितेयम् ॥१८१॥


क्लेशयसि किम् इति दूतीर् यद् अशक्यं सुमुखि तव कटाक्षेण ।
कामो ऽपि तत्र सायकम् अकीर्ति-शङ्की न सन्धत्ते ॥१८२॥


को वेद मूल्यम् अक्ष-द्यूते प्रभुणा पणीकृतस्य विधोः ।
प्रतिविजये यत् प्रतिपणम् अधरं घर-नन्दिनी विदधे ॥१८३॥


कुपितां चरण-प्रहरण-भयेन मुञ्चामि न खलु चण्डि त्वाम् ।
अलिर् अनिल-चपल-किसलय-ताडन-सहनो लतां भजते ॥१८४॥


कोपाकृष्ट-भ्रू-स्मर-शरासने संवृणु प्रिये पततः ।
छिन्न-ज्या-मधुपान् इव कज्जल-मलिनाश्रु-जल-बिन्दून् ॥१८५॥


कामेनापि न भेत्तुं किम् उ हृदयम् अपारि बाल-वनितानाम् ।
मूढ-विशिख-प्रहारोच्छूनम् इवाभाति यद्-वक्षः ॥१८६॥


किं पर-जीवैर् दीव्यसि विस्मय-मधुराक्षि गच्छ सखि दूरम् ।
अहिम् अधिचत्वरम् उरग-ग्राही खेलयतु निर्विघ्नः ॥१८७॥


कर-चरणेन प्रहरति यथा यथाङ्गेषु कोप-तरलाक्षी ।
रोषयति परुष-वचनैस् तथा तथा प्रेयसीं रसिकः ॥१८८॥


कस् तां निन्दति लुम्पति कः स्मर-फलकस्य वर्णकं मुग्धः ।
को भवति रत्न-कण्टकम् अमृते कस्यारुचिर् उदेति ॥१८९॥


कोपवति पाणि-लीला-चञ्चल-चूताङ्कुरे त्वयि भ्रमति ।
कर-कम्पित-करवाले स्मर इव सा मूर्च्छिता सुतनुः ॥१९०॥


कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति ।
तद्-भावनेन भजतो मम गोत्र-स्खलनम् अनिवार्यम् ॥१९१॥


कुत इह कुरङ्ग-शावक केदारे कलम् अमञ्जरीं त्यजसि ।
तृण-बाणस् तृण-धन्वा तृण-घटितः कपट-पुरुषो ऽयम् ॥१९२॥


इति विभाव्याख्या-समेता क-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP