आर्या सप्तशती - च-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
चपलस्य पलित-लाञ्छित-चिकुरं दयितस्य मौलिम् अवलोक्य ।
खेदोचितेऽपि समये संमदम् एवाददे गृहिणी ॥२२१॥
चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् ।
तृप्यामि पङ्किलाम् इव पिबन् नदीं नलिन-नालेन ॥२२२॥
चपल-भुजङ्गी-भुक्तोज्झित शीतल-गन्धवह निशि भ्रान्त ।
अपराशां पूरयितुं प्रत्यूष-सदागते गच्छ ॥२२३॥
चिर-पथिक द्राघिम-मिलद्-अलक-लता-शैवलावलि-ग्रथिला ।
कर-तोयेव मृगाक्ष्या दृष्टिर् इदानीं सदानीरा ॥२२४॥
चण्डि दर-चपल-चेल-व्यक्तोरु-विलोकनैक-रसिकेन ।
धूलि-भयाद् अपि न मया चरण-हृतौ कुञ्चितं चक्षुः ॥२२५॥
चल-कुण्डल-चलद्-अलक-स्खलद्-उरसिज-वसन-सज्जद्-ऊरु-युगम् ।
जघन-भर-क्लम-कूणित-नयनम् इदं हरति गतम् अस्याः ॥२२६॥
चरणैः पराग-सैकतम् अफलम् इदं लिखसि मधुप केतक्याः ।
इह वसति कान्ति-सारे नान्तः-सलिलापि मधु-सिन्धुः ॥२२७॥
चिर-काल-पथिक शङ्का-तरङ्गिताक्षः किम् ईक्षसे मुग्ध ।
त्वन्-निस्त्रिंशाश्लेष-व्रण-किणराजीयम् एतस्याः ॥२२८॥
चपलां यथा मदान्धश् छायामयम् आत्मनः करो हन्ति ।
आस्फालयति करं प्रतिगजस् तथायं पुरो रुद्धः ॥२२९॥
चुम्बन-लोलुप-मद्-अधर-हृत-काश्मीरं स्मरन् न तृप्यामि ।
हृदय-द्विरदालान-स्तम्भं तस्यास् तद्-ऊरु-युगम् ॥२३०॥
चिकुर-विसारण-तिर्यङ्-नत-कण्ठी विमुख-वृत्तिर् अपि बाला ।
त्वाम् इयम् अङ्गुलि-कल्पित-कचावकाशा विलोकयति ॥२३१॥
चुम्बन-हृताञ्जनार्घं स्फुट-जागर-रागम् ईक्षणं क्षिपसि ।
किम् उषसि वियोग-कातरम् असमेषुर् इवार्ध-नाराचम् ॥२३२॥
इति विभाव्याख्या-समेता च-कार-व्रज्या ॥
छ-कार-व्रज्या
छाया-ग्राही चन्द्रः कूटत्वं सततम् अम्बुजं व्रजति ।
हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥२३३॥
छाया-मात्रं पश्यन्न् अधोमुखो ऽप्य् उद्गतेन धैर्येण ।
तुदति मम हृदय-निपुणा राधा-चक्रं किरीतीव ॥२३४॥
इति विभाव्याख्या-समेता छ-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP