आर्या सप्तशती - अ-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
अवधि-दिनावधि-जीवाः प्रसीद जीवन्तु पथिक-जनजायाः ।
दुर्लङ्घ्य-वर्त्म-शैलौ स्तनौ पिधेहि प्रपापालि ॥१॥
अतिवत्सला सुशीला सेवा-चतुरा मनो ऽनुकूला च ।
अजनि विनीता गृहिणी सपदि सप्त्नी-स्तनोद्भेदे ॥२॥
अयि कूल-निचुल-मूलोच्छेदन-दुःशील-वीचि-वाचाले ।
बक-विघस-पङ्क-सारा न चिरात् कावेरि भवितासि ॥३॥
अयि विविध-वचन-रचने ददासि चन्द्रं करे समानीय ।
व्यसन-दिवसेषु दूति क्व पुनस् त्वं दर्शनीयासि ॥४॥
अस्तु म्लानिर् लोको लाञ्छनम् अपदिशतु हीयताम् ओजः ।
तद् अपि न मुञ्चति स त्वां वसुधा-छायाम् इव सुधांशुः ॥५॥
अतिचापलं वितन्वन्न् अन्तर्निविशन् निकाम-काठिन्यः ।
मुखरयसि स्वयम् एतां सद्-वृत्तां शङ्कुर् इव घण्टाम् ॥६॥
अङ्गेषु जीर्यति परं खञ्जन-यूनोर् मनोभव-प्रसरः ।
न पुनर् अनन्तर्-गर्भित-निधिनि धरा-मण्डले केलिः ॥७॥
अन्धत्वम् अन्ध-समये बधिरत्वं बधिर-काल आलम्ब्य ।
श्री-केशवयोः प्रणयी प्रजापतिर् नाभि-वास्तव्यः ॥८॥
अयि कोष-कार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।
यन् न विदार्य विचारित-जठरस् त्वं स खलु ते लाभः ॥९॥
अगणित-महिमा लङ्घित-गुरुर् अधनेहः स्तनन्धय-विरोधी ।
इष्टाकीर्तिस् तस्यास् त्वयि रागः प्राण-निरपेक्षः ॥१०॥
अपराधाद् अधिकं मां व्यथयति तव कपट-वचन-रचनेयम् ।
शस्त्राघातो न तथा सूची-व्यध-वेदना यादृक् ॥११॥
असती-लोचन-मुकुरे किम् अपि प्रतिफलति यन् मनोवर्ति ।
सारस्वतम् अपि चक्षुः सतिमिरम् इव तन् न लक्षयति ॥१२॥
अन्य-मुखे दुर्वादो यः प्रिय-वदने स एव परिहासः ।
इतरेन्धन-जन्मा यो धूमः सो ऽगुरुभवो धूपः ॥१३॥
अयि सुभग कुतुक-तरला विचरन्ती सौरभानुसारेण ।
त्वयि मोहाय वराकी पतिता मधुपीव विष-कुसुमे ॥१४॥
अयि मुग्ध-गन्ध-सिन्धुर-शङ्का-मात्रेण दन्तिनो दलिताः ।
उपभुञ्जते करेणूः केवलम् इह मत्-कुणाः करिणः ॥१५॥
अतिविनय-वामन-तनुर् विलङ्घते गेह-देहलीं न वधूः ।
अस्याः पुनर् आरभटीं कुसुम्भवाटी विजानाति ॥१६॥
अन्तर्-गतैर् गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर् यद् असौ वनेचरं हरिणम् अपि हरति ॥१७॥
अलुलित-सकल-विभूषां प्रातर् बालां विलोक्य मुदितं प्राक् ।
प्रिय-शिरसि वीक्ष्य यावकम् अथ निःश्वसितं सपत्नीभिः ॥१८॥
अयि लज्जावति निभर-निशीथ-रत-निःसहाङ्गि सुख-सुप्ते ।
लोचन-कोकनद-च्छदम् उन्मीलय सुप्रभातं ते ॥१९॥
अमिलित-वदनम् अपीडित-वक्षोरुहम् अतिविदूर-जघनोरु ।
शपथ-शतेन भुजाभ्यां केवलम् आलिङ्गितो ऽस्मि तया ॥२०॥
अतिपूजित-तारेयं दृष्टिः श्रुति-लङ्घन-क्षमा सुतनु ।
जिन-सिद्धान्त-स्थितिर् इव स-वासना कं न मोहयति ॥२१॥
अलम् अविषय-भय-लज्जा-वञ्चितम् आत्मानम् इयम् इयत् समयम् ।
नव-परिचित-दयित-गुणा शोचति नालपति शयन-सखीः ॥२२॥
अनुराग-वर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुर-रिपुणेव गौरी वर-तनुर् अर्धावशिष्टैव ॥२३॥
अन्य-प्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
तद्-गतिम् इच्छन्त्यः सखि भवन्ति विफल-श्रमाः हास्याः ॥२४॥
अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।
स लुठति विरहे जीवः कण्ठेऽस्यास् त्वम् इव सम्भोगे ॥२५॥
अनयन-पथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
म्लानैव केवलं निशि तपन-शिला वासरे ज्वलति ॥२६॥
अविभाव्यो मित्रेऽपि स्थिति-मात्रेणैव नन्दयन् दयितः ।
रहसि व्यपदेशाद् अयम् अर्थः इवाराजके भोग्यः ॥२७॥
अश्रौषीर् अपराधान् मम तथ्यं कथय मन्-मुखं वीक्ष्य ।
अभिधीयते न किं यदि न मान-चौराननः कितवः ॥२८॥
अन्योन्यम् अनु स्रोतसम् अन्यद् अथान्यत् तटात् तटं भजतोः ।
उदितेऽर्केऽपि न माघ-स्नानं प्रसमाप्यते यूनोः ॥२९॥
अयि चूत-वल्लि फल-भर-नताङ्गि विष्वग्-विकासि-सौरभ्ये ।
श्वपच-घट-कर्पराङ्का त्वं किल फलितापि विफलैव ॥३०॥
अञ्जलिर् अकारि लोकैर् म्लानिम् अनाप्तैव रञ्जिता जगती ।
सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥३१॥
अगृहीतानुनयां माम् उपेक्ष्य सख्यो गता बतैकाहम् ।
प्रसभं करोषि मयि चेत् त्वद् उपरि वपुर् अद्य मोक्ष्यामि ॥३२॥
अस्थिर-रागः कितवो मानी चपलो विदूषकस् त्वम् असि ।
मम सख्याः पतसि करे पश्यामि यथा ऋजुर् भवसि ॥३३॥
अकरुण कातर-मनसो दर्शित-नीरा निरन्तरालेयम् ।
त्वाम् अनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥३४॥
अन्तः-कलुष-स्तम्भित-रसया भृङ्गारनालयेव मम ।
अप्य् उन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥३५॥
अयि सरले सरल-तरोर् मद-मुदित-द्विप-कपोल-पालेश् च ।
अन्योन्य-मुग्ध-गन्ध-व्यतिहारः कषणम् आचष्टे ॥३६॥
अस्याः कर-रुह-खण्डित-काण्ड-पट-प्रकट-निर्गता दृष्टिः ।
पट-विगलित-निष्कलुषा स्वदते पीयूष-धारेव ॥३७॥
अस्याः पति-गृह-गमने करोति माताश्रु-पिच्छिलां पदवीम् ।
गुण-गर्विता पुनर् असौ हसति शनैः शुष्क-रुदित-मुखी ॥३८॥
अङ्के निवेश्य कूणित-दृशः शनैर् अकरुणेति शंसन्त्याः ।
मोक्ष्यामि वेणि-बन्धं कदा नखैर् गन्ध-तैलाक्तैः ॥३९॥
अलम् अनलङ्कृति-सुभगे भूषणम् उपहास-विषयम् इतरासाम् ।
कुरुषे वनस्पति-लता प्रसूनम् इव बन्ध्य-वल्लीनाम् ॥४०॥
अबुधा अजङ्गमा अपि कयापि गत्या परं पदम् अवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नय-बल-गुटिका इव जनेन ॥४१॥
अतिशील-शीत-लतया लोकेषु सखी मृदु-प्रतापा नः ।
क्षण-वाम्य-दह्यमानः प्रतापम् अस्याः प्रियो वेद ॥४२॥
अन्यास्व् अपि गृहिणीति ध्यायन्न् अभिलषितम् आप्नोति ।
पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥४३॥
अनुपेत्य नीच-भावं बालक परितो गभीर-मधुरस्य ।
अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥४४॥
अधिवासनम् आधेयं गुण-मार्गम् अपेक्षते न च ग्रथनाम् ।
कलयति युवजन-मौलिं केतक-कलिका स्वरूपेण ॥४५॥
अपनीत-निखिल-तापां सुभग स्व-करेण विनिहितां भवता ।
पतिशयन-वार-पालि-ज्वरौषधं वहति सा मालाम् ॥४६॥
अगणित-गुणेन सुन्दर कृत्वा चारित्रम् अप्य् उदासीनम् ।
भवतानन्य-गतिः सा विहितावर्तेन तरणिर् इव ॥४७॥
अनुरक्त-रामया पुनर् आगतये स्थापितोत्तरीयस्य ।
अप्य् एक-वाससस् तव सर्व-युवभ्यो ऽधिका शोभा ॥४८॥
अर्धः प्राणित्य् एको मृत इतरो मे विधुन्तुदस्येव ।
सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥४९॥
अवधीरितो ऽपि निद्रा-मिषेण माहात्म्यम् असृणया प्रियया ।
अवबोधितो ऽस्मि चपलो बाष्प-स्थित-मितेन तल्पेन ॥५०॥
अयि शब्द-मात्र-साम्याद् आस्वादित-शर्करस्य तव पथिक ।
स्वल्पो रसना-च्छेदः पुरतो जन-हास्यता महती ॥५१॥
अभिनव-यौवन-दुर्जय-विपक्ष-जन-हन्यमानमानापि ।
सूनोः पितृ-प्रियत्वाद् बिभर्ति सुभगा-मदं गृहिणी ॥५२॥
अपमानितम् इव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।
स्नानोत्सुक-तरुणी-स्तन-कलश-निबद्धं पयो विशति ॥५३॥
अलसयति गात्रम् अखिलं क्लेशं मोचयति लोचनं हरति ।
स्वाप इव प्रेयान् मम मोक्तुं न ददाति शयनीयम् ॥५४॥
अंसावलम्बि-कर-धृत-कचम् अभिषेकार्द्र-धवल-नख-रेखम् ।
धौताधर-नयनं वपुर् अस्त्रम् अनङ्गस्य तव निशितम् ॥५५॥
अविनिहितं विनिहितम् इव युवसु स्वच्छेषु वार-वाम-दृशः ।
उपदर्शयन्ति हृदयं दर्पण-बिम्बेषु वदनम् इव ॥५६॥
अतिलज्जया त्वयैव प्रकटः प्रेयान् अकारि निभृतो ऽपि ।
प्रासाद-मौलिर् उपरि प्रसरन्त्या वैजयन्त्य् एव ॥५७॥
अन्योन्य-ग्रथनागुण-योगाद् गावः पदार्पणैर् बहुभिः ।
खलम् अपि तुदन्ति मेढी-भूतं मध्य-स्थम् आलम्ब्य ॥५८॥
अननुग्रहेण न तथा व्यथयति कटु-कूजितैर् यथा पिशुनः ।
रुधिरादानाद् अधिकं दुनोति कर्णे क्वणन् मशकः ॥५९॥
अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।
वामन इति त्रिविक्रमम् अभिदधति दशावतार-विदः ॥६०॥
अङ्के स्तनन्धयस् तव चरणे परिचारिका प्रियः पृष्ठे ।
अस्ति किम् उ लभ्यम् अधिकं गृहिणि यदा शङ्कसे बालाम् ॥६१॥
अधर उदस्तः कूजितम् आमीलितम् अक्षि लोलितो मौलिः ।
आसादितम् इव चुम्बन-सुखम् अस्पर्शेऽपि तरुणाभ्याम् ॥६२॥
अतिरभसेन भुजो ऽयं वृति-विवरेण प्रवेशितः सदनम् ।
दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥६३॥
अम्बर-मध्य-निविष्टं तवेदम् अतिचपलम् अलघु जघन-तटम् ।
चातक इव नवम् अभ्रं निरीक्षमाणो न तृप्यामि ॥६४॥
अयम् अन्धकार-सिन्धुर-भाराक्रान्तावनी-भराक्रान्तः ।
उन्नत-पूर्वाद्रि-मुखः कूर्मः सन्ध्यास्रम् उद्वमति ॥६५॥
अन्तर्भूतो निवसति जडे जडः शिशिर-महसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टो ऽपि निःसरति ॥६६॥
अगणित-जनापवादा त्वत्-पाणि-स्पर्श-हर्ष-तरलेयम् ।
आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥६७॥
अप्य् एक-वंश-जनुषोः पश्यत पूर्णत्व-तुच्छता-भाजोः ।
ज्या-कार्मुकयोः कश्चिद् गुण-भूतः कश्चिद् अपि भर्ता ॥६८॥
अभिनव-केलि-क्लान्ता कलयति बाला क्रमेण घर्माम्भः ।
ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर् लतेव मधु ॥६९॥
असती कुलजा धीरा प्रौढा प्रतिवेशिनी यद् आसक्तिम् ।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥७०॥
अविरल-पतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतम् इदम् ।
शत-धौतम् आज्यम् इव मे स्मर-शर-दाह-व्यथां हरति ॥७१॥
अन्तर् निपतित-गुञ्जा-गुण-रमणीयश् चकास्ति केदारः ।
निज-गोपी-विनय-व्यय-खेदेन विदीर्ण-हृदय इव ॥७२॥
अमुना हतम् इदम् इदम् इति रुदती प्रतिवेशिनेऽङ्गम् अङ्गम् इयम् ।
रोष-मिष-दलित-लज्जा गृहिणी दर्शयति पति-पुरतः ॥७३॥
इति विभाव्याख्या-समेता अ-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP