आर्या सप्तशती - उ-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


उल्लसित-भ्रू-धनुषा तव पृथुना लोचनेन रुचिराङ्गि ।
अचला अपि न महान्तः के चञ्चल-भावम् आनीताः ॥११७॥


उपनीय यन् नितम्बे भुजङ्गम् उच्चैर् अलम्बि विबुधैः श्रीः ।
एकः स मन्दर-गिरिः सखि गरिमाणं समुद्वहतु ॥११८॥


उल्लसित-लाञ्छनो ऽयं ज्योत्स्ना-वर्षी सुधाकरः स्फुरति ।
आसक्त-कृष्ण-चरणः शकट इव प्रकटित-क्षीरः ॥११९॥


उपचारानुनयास् ते कितवस्योपेक्षिताः सखी-वचसा ।
अधुना निष्ठुरम् अपि यदि स वदति कलिकैतवाद् यामि ॥१२०॥


उषसि परिवर्तयन्त्या मुक्ता-दामोपवीततां नीतम् ।
पुरुषायित-वैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥१२१॥


उड्डीनानाम् एषां प्रासादात् तरुणि पक्षिणां पङ्क्तिः ।
विस्फुरति वैजयन्ती-पवन-च्छिन्नापविद्धेव ॥१२२॥


उज्जागरित-भ्रामित-दन्तुर-दल-रुद्ध-मधुकर-प्रकरे ।
काञ्चन-केतकि मा तव विकसतु सौरभ्य-सम्भारः ॥१२३॥


उल्लसित-भ्रूः किम् अतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
क्षुद्रापचार-विरसः पाकः प्रेम्णो गुडस्येव ॥१२४॥


उद्दिश्य निःसरन्तीं सखीम् इयं कपट-कोप-कुटिल-भ्रूः ।
एवम् अवतंसम् आक्षिपद् आहत-दीपो यथा पतति ॥१२५॥


उदितो ऽपि तुहिन-गहने गगन-प्रान्ते न दीप्यते तपनः ।
कठिन-घृत-पूर-पूर्णे शराव-शिरसि प्रदीप इव ॥१२६॥


उद्गमनोपनिवेशन-शयन-परावृत्ति-वलन-चलनेषु ।
अनिशं स मोहयति मां हृल्-लग्नः श्वास इव दयितः ॥१२७॥


उज्झित-सौभाग्य-मद-स्फुट-याच्ञानङ्ग-भीतयोर् यूनोः ।
अकलित-मनसोर् एका दृष्टिर् दूती निसृष्टार्थी ॥१२८॥


उत्तम-भुजङ्ग-सङ्गम-निस्पन्द-नितम्ब-चापलस् तस्याः ।
मन्दर-गिरिर् इव विबुधैर् इतस् ततः कृष्यते कायः ॥१२९॥


उपनीय कलम-कुडवं कथयति सभयश् चिकित्सके हलिकः ।
शोणं सोमार्ध-निभं वधू-स्तने व्याधिम् उपजातम् ॥१३०॥


उन्मुकुलिताधर-पुटे-भूति-कण-त्रास-मीलितार्धाक्षि ।
धूमो ऽपि नेह विरम-भ्रमरो ऽयं श्वसितम् अनुसरति ॥१३१॥


उपरि परिप्लवते मम बालेयं गृहिणि हंस-मालेव ।
सरस इव नलिन-नाला त्वम् आशयं प्राप्य वससि पुनः ॥१३२॥


उत्कम्प-घर्म-पिच्छिल-दोः-साधिक-हस्त-विच्युतश् चौरः ।
शिवम् आशास्ते सुतनु-स्तनयोस् तव पञ्चलाञ्चलयोः ॥१३३॥


उत्क्षिप्त-बाहु-दर्शित-भुज-मूलं चूत-मुकुल मम सख्या ।
आकृष्यमाण राजति भवतः परम् उच्च-पद-लाभः ॥१३४॥


उच्च-कुच-कुम्भ-निहितो हृदयं चालयति जघन-लग्नाग्रः ।
अतिनिम्न-मध्य-सङ्क्रम-दारु-निभस् तरुणि तव हारः ॥१३५॥


उल्लसित-शीत-दीधिति-कलोपकण्ठे स्फुरन्ति तारौघाः ।
कुसुमायुध-विधृत-धनुर्-निर्गत-मकरन्द-बिन्दु-निभाः ॥१३६॥


उपनीय प्रियम् असमय-विदं च मे दग्ध-मानम् अपनीय ।
नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥१३७॥


उत्तम-वनितैक-गतिः करीव सरसी-पयः सखी-धैर्यम् ।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥१३८॥


इति विभाव्याख्या-समेता उ-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP