आर्या सप्तशती - त-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
तां तापयन्ति मन्मथ-बाणास् त्वां प्रीणयन्ति बत सुभग ।
तपन-करास् तपन-शिलां ज्वलयन्ति विधुं मधुरयन्ति ॥२४८॥
तव सुतनु सानुमत्या बहु-धातु-जनित-नितम्ब-रागायाः ।
गिरि-वर-भुव इव लाभेनाप्नोमि द्व्य्-अङ्गुलेन दिवम् ॥२४९॥
त्यक्तो मुञ्चति जीवनम् उज्झति नानुग्रहेऽपि लोलुत्वम् ।
किं प्रावृषेव पद्माकरस्य करणीयम् अस्य मया ॥२५०॥
त्वद्-विरहापदि पाण्डुस् तन्वङ्गी छाययैव केवलया ।
हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥२५१॥
त्वयि विनिवेशित-चित्ता सुभग गता केवलेन कायेन ।
घन-जाल-रुद्ध-मीना नदीव सा नीर-मात्रेण ॥२५२॥
त्वयि संसक्तं तस्याः कठोरतर हृदयम् असम-शर-तरलम् ।
मारुत-चलम् अञ्चलम् इव कण्टक-सम्पर्कतः स्फुटितम् ॥२५३॥
त्वम् असूर्यंपश्या सखि पदम् अपि न विनापवारणं भ्रमसि ।
छाये किम् इह विधेयं मुञ्चन्ति न मूर्तिमन्तस् त्वाम् ॥२५४॥
तव विरहे विस्तारित-रजनौ जनितेन्दु-चन्दन-द्वेषे ।
विसिनीव माघ-मासे विना हुताशने सा दग्धा ॥२५५॥
तरुणि त्वच्-चरणाहति-कुसुमित-कङ्केल्लि-कोरक-प्रकरम् ।
कुटिल-चरिता सपत्नी न पिबति बत शोक-विकलापि ॥२५६॥
तल्पे प्रभुर् इव गुरुर् इव मनसिज-तन्त्रे श्रमे भुजिष्येव ।
गेहे श्रीर् इव गुरु-जन-पुरतो मूर्तेव सा व्रीडा ॥२५७॥
त्वम् अलभ्या मम तावन् मोक्तुम् अशक्तस्य संमुखं व्रजतः ।
छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥२५८॥
तपसा क्लेशित एष प्रौढ-बलो न खलु फाल्गुनेऽप्य् आसीत् ।
मधुना प्रमत्तम् अधुना को मदनं मिहिरम् इव सहते ॥२५९॥
त्वद्-गमन-दिवस-गण-नावलक्ष-रेखाभिर् अङ्किता सुभग ।
गण्ड-स्थलीव तस्याः पाण्डुरिता भवन-भित्तिर् अपि ॥२६०॥
तस्याग्राम्यस्याहं सखि वक्र-स्निग्ध-मधुरया दृष्ट्या ।
विद्धा तद्-एक-नेया पोत्रिण इव दंष्ट्रया धरणी ॥२६१॥
त्वयि कुग्राम-वट-द्रुम वैश्रवणो वसतु वा लक्ष्मीः ।
पामर-कुठार-पातात् कासर-शिरसैव ते रक्षा ॥२६२॥
तव मुखर वदन-दोषं सहमाना मोक्तुम् अक्षमा सुतनुः ।
सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥२६३॥
तृण-मुखम् इव न खलु त्वां त्यजन्त्य् अमी हरिण वैरिणः शवराः ।
यशसैव जीवितम् इदं त्यज योजित-शृङ्ग-सङ्ग्रामः ॥२६४॥
त्रिपुर-रिपोर् इव गङ्गा मम मानिनि जनित-मदन-दाहस्य ।
जीवनम् अर्पित-शिरसो ददासि चिकुर-ग्रहेणैव ॥२६५॥
त्वत्-सङ्कथासु मुखरः सनिन्द-सानन्द-सावहित्थ इव ।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥२६६॥
त्वयि सर्पति पथि दृष्टिः सुन्दर वृति-विवर-निर्गता तस्याः ।
दर-तरल-भिन्न-शैवल-जाला शफरीव विस्फुरति ॥२६७॥
ते सुतनु शून्य-हृदया ये शङ्खं शून्य-हृदयम् अभिदधति ।
अङ्गीकृत-कर-पत्त्रो यस् तव हस्त-ग्रहं कुरुते ॥२६८॥
ते श्रेष्ठिनः क्व सम्प्रति शक्र-ध्वज यैः कृतस् तवोच्छ्रायः ।
ईषां वा मेढिं वाधुनातनास् त्वां विधित्सन्ति ॥२६९॥
तानवम् एत्य छिन्नः परोपहित-राग-मदन-सङ्घटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥२७०॥
तस्मिन् गतार्द्र-भावे वीत-रसे शुण्ठि-शकल इव पुरुषे ।
अपि भूति-भाजि मलिने नागर-शब्दो विडम्बाय ॥२७१॥
तमसि घने विषमे पथि जम्बुकम् उल्का-मुखं प्रपन्नाः स्मः ।
किं कुर्मः सो ऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥२७२॥
त्वाम् अभिलषतो मानिनि मम गरिम-गुणो ऽपि दोषतां यातः ।
पङ्किल-कूलां तटिनीं यियासतः सिन्धुर् अस्य् एव ॥२७३॥
तिमिरेऽपि दूर-दृश्या कठिनाश्लेषे च रहसि मुखरा च ।
शङ्ख-मय-वलय-राजी गृह-पति-शिरसा सह स्फुटतु ॥२७४॥
तव वृत्तेन गुणेन च समुचित-सम्पन्न-कण्ठ-लुठनायाः ।
हार-स्रज इव सुन्दरि कृतः पुनर् नायकस् तरलः ॥२७५॥
इति विभाव्याख्या-समेता त-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP