आर्या सप्तशती - न-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
नीरावतरण-दन्तुरसैकत-सम्भेद-मेदुरैः शिशिरे ।
राजन्ति तूल-राशि-स्थूल-पटैर् इव तटैः सरितः ॥३०८॥
निज-काय-च्छायायां विश्रम्य निदाघ-विपदम् अपनेतुम् ।
बत विविधास् तनु-भङ्गीर् मुग्ध-करङ्गीयम् आचरति ॥३०९॥
न हसन्ति जरठ इति यद् वल्लव-वनिता नमन्ति नन्दम् अपि ।
सखि स यशोदा-तनयो नित्यं कन्दलित-कन्दर्पः ॥३१०॥
नीता स्वभावम् अर्पित-वपुर् अपि वाम्यं न कामिनी त्यजति ।
हर-देहार्ध-ग्रथिता निदर्शनं पार्वती तत्र ॥३११॥
नागर-भोगानुमित-स्व-वधू-सौन्दर्य-गर्व-तरलस्य ।
निपतति पदं न भूमौ ज्ञाति-पुरस् तन्तु-वायस्य ॥३१२॥
निपतति चरणे कोणे प्रविश्य निशि यन् निरीक्षते कस् तत् ।
सखि स खलु लोक-पुरतः खलः स्व-गरिमाणम् उद्गिरति ॥३१३॥
न विमोचयितुं शक्यः क्षमां महान् मोचितो यदि कथंचित् ।
मन्दर-गिरिर् इव गरलं निवर्तते ननु समुत्थाप्य ॥३१४॥
नियतैः पदैर् निषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।
सम्भवद् अन्य-गतिः कः सङ्क्रम-काष्ठं दुरीशं च ॥३१५॥
निज-पद-गति-गुण-रञ्जित-जगतां करिणां च सत्-कवीनां च ।
वहताम् अपि महिमानं शोभायै सज्जना एव ॥३१६॥
नोत्तपने न स्नेहं हरति न निर्वाति न मलिनो भवति ।
तस्योज्ज्वलो निशि निशि प्रेमा रत्न-प्रदीप इव ॥३१७॥
निहितान् निहितान् उज्झति नियतं मम पार्थिवान् अपि प्रेम ।
भ्रामं भ्रामं तिष्ठति तत्रैव कुलाल-चक्रम् इव ॥३१८॥
निर्भरम् अपि सम्भुक्तं दृष्ट्या प्रातः पिबन् न तृप्यामि ।
जघनम् अनंशुकम् अस्याः कोक इवाशिशिर-कर-बिम्बम् ॥३१९॥
निविड-घटितोरु-युगलां श्वासोत्तब्ध-स्तनार्पित-व्यजनाम् ।
तां स्निग्ध-कुपित-दृष्टिं स्मरामि रत-निःसहां सुतनुम् ॥३२०॥
निर्गुण इति मृत इति च द्वाव् एकार्थाभिधायिनौ विद्धि ।
पश्य धनुर्-गुण-शून्यं निर्जीवं तद् इह शंसन्ति ॥३२१॥
निज-सूक्ष्म-सूत्र-लम्बी विलोचनं तरुण ते क्षणं हरतु ।
अयम् उद्गृहीत-वडिशः कर्कट इव मर्कटः पुरतः ॥३२२॥
नागर गीतिर् इवासौ ग्राम-स्थित्यापि भूषिता सुतनुः ।
कस्तूरी न मृगोदर-वास-वशाद् विस्रताम् एति ॥३२३॥
नख-लिखित-स्तनि कुर-बक-मय-पृष्ठे भूमि-लुलित-विरसाङ्गि ।
हृदय-विदारण-निःसृत-कुसुमास्र-शरेव हरसि मनः ॥३२४॥
नीता लघिमानम् इयं तस्यां गरिमाणम् अधिकम् अर्पयसि ।
भार इव विषम-भार्यः सुदुर्वहो भवति गृह-वासः ॥३२५॥
न च दूती न च याच्ञा न चाञ्जलिर् न च कटाक्ष-विक्षेपः ।
सौभाग्य-मानिनां सखि कच-ग्रहः प्रथमम् अभियोगः ॥३२६॥
निशि विषम-कुसुम-विशिख-प्रेरितयोर् मौन-लब्ध-रति-रसयोः ।
मानस् तथैव विलसति दम्पत्योर् अशिथिल-ग्रन्थिः ॥३२७॥
निज-गात्र-निर्विशेष-स्थापितम् अपि सारम् अखिलम् आदाय ।
निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वार-वधूः ॥३२८॥
नृत्य-श्रम-घर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु ।
मकरन्दोदक-जुष्टं मदन-धनुर्-वल्लिर् इव चोलम् ॥३२९॥
नाहं वदामि सुतनु त्वम् अशीला वा प्रचण्ड-चरिता वा ।
प्रेम-स्वभाव-सुलभं भयम् उदयति मम तु हृदयस्य ॥३३०॥
न निरूपितो ऽसि सख्या नियतं नेत्र-त्रिभाग-मात्रेण ।
हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥३३१॥
नख-दशन-मुष्टि-पातैर् अदयैर् आलिङ्गनैश् च सुभगस्य ।
अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः ॥३३२॥
न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।
त्वयि सौरभेयि घण्टा कपिला-पुत्रीति बद्धेयम् ॥३३३॥
निष्कारणापराधं निष्कारण-कलह-रोष-परितोषम् ।
सामान्य-मरण-जीवन-सुख-दुःखं जयति दाम्पत्यम् ॥३३४॥
न प्राप्यसे कराभ्यां हृदयान् नापैषि वितनुषे बाधाम् ।
त्वं मम भग्नावस्तित-कुसुमायुध-विशिख-फलिकेव ॥३३५॥
नाथेति परुषम् उचितं प्रियेति दासेत्य् अनुग्रहो यत्र ।
तद्-दाम्पत्यम् इतो ऽन्यन् नारी रज्जुः पशुः पुरुषः ॥३३६॥
निहितायाम् अस्याम् अपि सैवैका मनसि मे स्फुरति ।
रेखान्तरोपधानात् पत्त्राक्षर-राजिर् इव दयिता ॥३३७॥
निधि-निक्षेप-स्थानस्योपरि चिह्नार्थम् इव लता निहिता ।
लोभयति तव तनूदरि जघन-तटाद् उपरि रोमाली ॥३३८॥
निहितार्ध-लोचनायास् त्वं तस्या हरसि हृदय-पर्यन्तम् ।
न सुभग समुचितम् ईदृशम् अङ्गुलि-दाने भुजं गिलसि ॥३३९॥
नीत्वागारं रजनी-जागरम् एकं च सादरं दत्त्वा ।
अचिरेण कैर् न तरुणैर् दुर्गा-पत्त्रीव मुक्तासि ॥३४०॥
नक्षत्रेऽग्नाव् इन्दाव् उदरे कनके मणौ दृशि समुद्रे ।
यत् खलु तेजस् तद् अखिलम् ओजायितम् अब्ज-मित्रस्य ॥३४१॥
न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।
बाला त्वद्-विरहापदि जातापभ्रंश-भाषेव ॥३४२॥
न विभूषणे तवास्था वपुर् गुणेनैव जयसि सखि यूनः ।
अवधीरितास्त्र-शस्त्रा कुसुमेषोर् मल्ल-विद्येव ॥३४३॥
नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथास्ति तथा ।
सखि मन्थयति मनो मम दधि-भाण्डं मन्थ-दण्ड इव ॥३४४॥
नाना-वर्णक-रूपं प्रकल्पयन्ती मनोहरं तन्वी ।
चित्रकर-तूलिकेव त्वां सा प्रतिभित्ति भावयति ॥३४५॥
इति विभाव्याख्या-समेता न-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP