आर्या सप्तशती - य-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
यूनः कण्टक-विटपानि विआञ्चल-ग्राहिणस् त्यजन्ती सा ।
वन इव पुरेऽपि विचरति पुरुषं त्वाम् एव जानन्ती ॥४६२॥
युष्मासूपगताः स्मो विबुधा वाङ्-मात्र-पाटवेन वयम् ।
अन्तर्भवति भवत्स्व् अपि नाभक्तस् तन् न विज्ञातम् ॥४६३॥
यत्र न दूती यत्र स्निग्धा न दृशो ऽपि निपुणया निहिताः ।
न गिरो ऽद्यापि व्यक्तीकृतः स भावो ऽनुरागेण ॥४६४॥
या नीयते सपत्न्य् प्रविश्य यावर्जिता भुजङ्गेन ।
यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥४६५॥
यस्मिन्न् अयशो ऽपि यशो ह्रीर् विघ्नो मान एव दौःशील्यम् ।
लघुता गुणज्ञता किं नवो युवा सखि न ते दृष्टः ॥४६६॥
यद् वीक्ष्यते खलानां माहात्म्यं क्वापि दैव-योगेन ।
काकानाम् इव शौक्ल्यं तद् अपि हि न चिराद् अनर्थाय ॥४६७॥
यत् खलु खल-मुख-हुत-वह-विनिहितम् अपि शुद्धिम् एव परमेति ।
तद् अनल-शौचम् इवांशुकम् इह लोके दुर्लभं प्रेम ॥४६८॥
यन् नावधिम् अर्थयते पाथेयार्थं ददाति सर्वस्वम् ।
तेनानयाति-दारुण-शङ्काम् आरोपितं चेतः ॥४६९॥
यूनाम् ईर्ष्या-वैरं वितन्वता तरुणि चक्र-रुचिरेण ।
तव जगह्नेनाकुलिता निखिला पल्ली खलेनेव ॥४७०॥
यावज् जीवन-भावी तुल्याशयोयोर् नितान्त-निर्भेदः ।
नदयोर् इवैष युवयोः सङ्गो रसम् अधिकम् आवहतु ॥४७१॥
यन् निहितां शेखरयसि मालां सा यातु शठ भवन्तम् इति ।
प्रहरन्तीं शिरसि पदा स्मरामि तां गर्व-गुरु-कोपाम् ॥४७२॥
यौवन-गुप्तिं पत्यौ बन्धुषु मुग्धत्वम् आर्जवं गुरुषु ।
कुर्वाणा हलिक-वधूः प्रशस्यते व्याजतो युवभिः ॥४७३॥
यो न गुरुभिर् न मित्रैर् न विवेकेनापि नैव रिपु-हसितैः ।
नियमित-पूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥४७४॥
यन्-मूलम् आर्द्रम् उदकैः कुसुमं प्रतिपर्व फल-भरः परितः ।
द्रुम तन् माद्यसि वीची-परिचय-परिणामम् अविचिन्त्य ॥४७५॥
यस्याङ्के स्मर-सङ्गर-विश्रान्ति-प्राञ्जला सखी स्वपिति ।
स वहतु गुणाभिमानं मदन-धनुर्-वल्लि-चोल इव ॥४७६॥
यदि दान-गन्ध-मात्राद् वसन्ति सप्त-च्छदेऽपि दन्तिन्यः ।
किम् इति मद-पङ्क-मलिनां करी कपोल-स्थलीं वहति ॥४७७॥
यद्-अवधि विवृद्ध-मात्रा विकसित-कुसुमोत्करा शण-श्रेणी ।
पीतांशुक-प्रियेयं तदवधि पल्ली-पतेः पुत्री ॥४७८॥
यमुना-तरङ्ग-तरलं न कुवलयं कुसुम-लावि तव सुलभम् ।
यदि सौरभानुसारी झङ्कारी भ्रमति न भ्रमरः ॥४७९॥
इति विभाव्याख्या-समेता य-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP