आर्या सप्तशती - व-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


वर्ण-हृतिर् न ललाटे न लुलितम् अङ्गं न चाधरे दंशः ।
उत्पलम् अहारि वारि च न स्पृष्टम् उपाय-चतुरेण ॥५१३॥


विविधायुध-व्रणार्बुद-विषमे वक्षः-स्थले प्रियतमस्य ।
श्रीर् अपि वीर-वधूर् अपि गर्वोत्पुलका सुखं स्वपिति ॥५१८॥


वैमुख्येऽपि विमुक्ताः शरा इवान्याय-योधिनो वितनोः ।
भिन्दन्ति पृष्ठ-पतिताः प्रिय हृदयं मम तव श्वासाः ॥५१९॥


व्यक्तम् अधुना समेतः खण्डो मदिराक्षि दशन-वसने ते ।
यन् नव-सुधैक-सारे लोभिनि तत् किम् अपि नाद्राक्षम् ॥५२०॥


वीजयतोर् अन्योन्यं यूनोर् वियुतानि सकल-गात्राणि ।
सन् मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥५२१॥


व्यारोषं मानिन्यास् तमो दिवः कासरं कलम् अभूमेः ।
बद्धम् अलिं च नलिन्याः प्रभात-सन्ध्यापसारयति ॥५२२॥


वक्षसि विजृम्भमाणे स्तन-भिन्नं त्रुटति कञ्चुकं तस्याः ।
पूर्व-दयितानुरागस् तव हृदि न मनाग् अपि त्रुटति ॥५२३॥


व्यक्तिम् अवेक्ष्य तद् अन्यां तस्याम् एवेति विदितम् अधुना तु ।
हर्म्य-हरि-मुखम् इव त्वाम् उभयोः साधारणं वेद्मि ॥५२४॥


व्यजनस्येव समीपे गतागतैस् ताप-हारिणो भवतः ।
अञ्चलम् इव चञ्चलतां मम सख्याः प्रापितं चेतः ॥५२५॥


वितरन्ती रसम् अन्तर् ममार्द्र-भावं तनोषि तनु-गात्रि ।
अन्तः-सलिला सरिद् इव यन् निवससि बहिर् अदृश्यापि ॥५२६॥


विहित-विविधानुबन्धो मानोन्नतयावधीरितो मानी ।
लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥५२७॥


व्रीडा-विमुखीं वीत-स्नेहाम् आशङ्क्य काकु-वाङ्-मधुरः ।
प्रेमार्द्र-सापराधां दिशति दृशं वल्लभे बाला ॥५२८॥


वक्षः-प्रणयिनि सान्द्र-श्वासे वाङ्-मात्र-सुभटि घन-घर्मे ।
सुतनु ललाट-निवेशित-ललाटिके तिष्ठ विजितासि ॥५२९॥


विचरति परितः कृष्णे राधायां राग-चपल-नयनायाम् ।
दश-दिग्-वेध-विशुद्धं विशिखं विदधाति विषमेषुः ॥५३०॥


विमुखे चतुर्मुखे श्रितवति चानीश-भावम् ईशेऽपि ।
मग्न-मही-निस्तारे हरिः परं स्तब्ध-रोमाभूत् ॥५३२॥


वापी-कच्छे वासः कण्टक-वृतयः सजागरा भ्रमराः ।
केतक-विटप किम् एतैर् ननु वारय मञ्जरी-गन्धम् ॥५३३॥


विचलसि मुग्धे विधृता यथा तथा विशसि हृदय-मदये मे ।
शक्तिः प्रसून-धनुषः प्रकम्प-लक्ष्यं स्पृशन्तीव ॥५३४॥


विहितआसम-शर-समरो जित-गाङ्गेय-च्छविः कृताटोपः ।
पुरुषायिते विराजति देहस् तव सखि शिखण्डीव ॥५३५॥


वृति-विवर-निर्गतस्य प्रमदा-बिम्बाधरस्य मधु पिबते ।
अवधीरित-पीयूषः स्पृहयति देवाधिराजो ऽपि ॥५३६॥


वासित-मधुनि वधूनाम् अवतंसे मौलि-मण्डने यूनाम् ।
विलसति सा पुरु-कुसुमे मधुपीव वन-प्रसूनेषु ॥५३७॥


व्रीडा-प्रसरः प्रथमं तद् अनु च रस-भाव-पुष्ट-चेष्टेयम् ।
जवनी-विनिर्गमाद् अनु नटीव दयिता मनो हरति ॥५३८॥


वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः ।
पिशुनेन सो ऽपनीतः सहसा पतता जलेनेव ॥५३९॥


विष्वग्-विकासि-सौरभ-रागान्ध-व्याघ-बाधनीयस्य ।
क्वचिद् अपि कुरङ्ग भवतो नाभीम् आदाय न स्थानम् ॥५४०॥


वट-कुटज-शाल-शाल्मलि-रसाल-बहु-सार-सिन्धु-वाराणाम् ।
अस्ति भिदा मलयाचल-सम्भव-सौरभ्य-साम्येऽपि ॥५४१॥


विनिहित-कपर्द-कोटिं चापल-दोषेण शङ्करं त्यक्त्वा ।
वटम् एकम् अनुसरन्ती जाह्नवि लुठसि प्रयाग-तटे ॥५४२॥


वेद चतुर्णां क्षणदा प्रहराणां सङ्गमं वियोगं च ।
चरणानाम् इव कूर्मी सङ्कोचम् अपि प्रसारम् अपि ॥५४३॥


वृति-विवरेण विशन्ती सुभग त्वाम् ईक्षितुं सखी दृष्टिः ।
हरति युव-हृदय-पञ्जर-मध्यस्था मन्मथेषुर् इव ॥५४४॥


विपणितुला-सामान्ये मा गणयैनं निरूपणे निपुण ।
धर्म-घटो ऽसाव् अधरीकरोति लघुम् उपरि नयति गुरुम् ॥५४५॥


वासर-गम्यम् अनूरोर् अम्बरम् अवनी च वामनैक-पदम् ।
जलधिर् अपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥५४६॥


वितत-तमो-मषिलेखालक्ष्मोत्सङ्ग-स्फुटाः कुरङ्गाक्षि ।
पत्राक्षर-निकरा इव तारा नभसि प्रकाशन्ते ॥५४७॥


विविधाङ्ग-भङ्गिषु गुरुर् नूतन-शिष्यां मनोभवाचार्यः ।
वेत्र-लतयेव बालां तल्पे नर्तयति रत-रीत्या ॥५४८॥


विपरीतम् अपि रतं ते स्रोतो नद्या इवानुकूलम् इदम् ।
तट-तरुम् इव मम हृदयं समूलम् अपि वेगतो हरति ॥५४९॥


वैभव-भाजां दूषणम् अपि भूषण-पक्ष एव निक्षिप्तम् ।
उग्णम् आत्मनाम् अधर्मं द्वेषं च गृणन्ति काणादाः ॥५५०॥


वक्राः कपट-स्निग्धाः मलिनाः कर्णान्तिके प्रसज्जन्तः ।
कं वञ्चयन्ति न सखे खलाश् च गणिका-कटाक्षाश् च ॥५५१॥


विद्युज्-ज्वाला-वलयित-जलधर-पिठरोदराद् विनिर्यान्ति ।
विशदौदन-द्युति-मुषः प्रेयसि पयसा समं करकाः ॥५५२॥


व्यजनादिभिर् उपचारैः किं मरु-पथिकस्य गृहिणि विहितैर् मे ।
तापस् त्वद्-ऊरु-कदली-द्वय-मध्ये शान्ति-मयम् एति ॥५५३॥


वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै ।
दुर्वह-नितम्ब-मन्थरम् अपि हरति नितम्बिनी-नृत्यम् ॥५५४॥


वीक्ष्य सतीनां गणने रेखाम् एकां तया स्व-नामाङ्काम् ।
सन्तु युवानो हसितुं स्वयम् एवापारि नावरितुम् ॥५५५॥


विन्ध्याचल इव देहस् तव विविधावर्त-नर्मद-नितम्बः ।
स्थगयति गतिं मुनेर् अपि सम्भावित-रवि-रथ-स्तम्भः ॥५५६॥


वृति-भञ्जन गञ्जन-सह निकामम् उद्दाम दुर्नयाराम ।
परवाटी-शत-लम्पट दुष्ट-वृष स्मरसि गेहम् अपि ॥५५७॥

वंशावलम्बनं यद् यो विस्तारो गुणस्य यावनतिः ।
तज् जालस्य खलस्य च निजाङ्क-सुप्त-प्रणाशाय ॥५५८॥


विन्ध्य-महीधर-शिखरे मुदिर-श्रेणी-कृपाण-मयम् अनिलः ।
उद्यद्-विद्युज्-ज्योतिः पथिक-वधायैव शातयति ॥५५९॥


व्यालम्बमान-वेणी-धुत-धूलि प्रथमम् अश्रुभिर् धौतम् ।
आयातस्य पदं मम गेहिन्या तद् अनु सलिलेन ॥५६०॥


वक्षः-स्थल-सुप्ते मम मुखम् उपधातुं न मौलिम् आलभसे ।
पीनोत्तुङ्ग-स्तन-भर-दूरी-भूतं रत-श्रान्तौ ॥५६१॥


वदन-व्यापारान्तर्भावाद् अनुरक्तमानयन्ती त्वम् ।
दूति सती-नाशार्थं तस्य भुजङ्गस्य दंष्ट्रासि ॥५६२॥


इति विभाव्याख्या-समेता व-कार-व्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP