संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
द्वितीयोऽध्यायः

भर्गाख्यः पञ्चमांशः - द्वितीयोऽध्यायः

श्रीशिवरहस्यम्


सूतः -
ततस्ते प्रमथेशानपदाम्बुजविचिन्तकाः । सानन्दलोचनाः सर्वे मुनयोऽध्यात्मवेदिनः ॥१॥
आजग्मुर्नृपतिं द्रष्टुं भस्मपाण्डरमूर्तयः । रुद्राक्षमालाभरणाः सदा पञ्चाक्षरप्रियाः ॥२॥
पञ्चास्यध्याननिरताः पञ्चब्रह्मविशारदाः । पञ्चेषुबाणधाराग्रतिरस्कृतिमहोपलाः ॥३॥
सनातनश्च सनकस्तथैव च सनन्दनः । सनत्सुजातश्च तथा जातहर्षा नृपेक्षणे ॥४॥
स तान् प्रत्युज्जगामाथ सार्घ्यहस्तः कृताञ्जलिः । प्रणनाम महीपालः साष्टाङ्ग स्पृष्टभूतलः ॥५॥
आसनेषु सुनिष्टाप्तहेमक्लृप्तेषु भूसुरान् । गामर्ध्यमुदकं तेषां स्पर्शयामास शास्त्रतः ॥६॥
ओमुत्सृष्टेति तैरुक्तो निषसाद वरासने । शैवसन्दर्शनानन्दसञ्जातपुलको नृपः ॥७॥
प्रमोदवर्षधाराभिः परिप्लुतकलेबरः । मोदाम्बुनिधिमग्नश्च तदा चित्ररथो नृपः ॥८॥
साञ्जलिः प्राह वाक्यानि सुधासाराणि सादरम् ।
चित्ररथः -
अहो धन्योऽस्मि विप्रेन्द्र भवत्सन्दर्शनादहम् । अद्य मत्पूर्वराजेन्द्रा याता वोऽनुग्रहाद् दिवम् ॥९॥
भवतां दर्शनं मेऽद्य कामधेनुः किलार्थदा । भावाङ्गसङ्गजनितो वातोऽपि सुखदायका ॥१०॥
किं किं न सूते भाग्यनि विविधान्यमितान्यपि । महाकलप्रहेशस्य कृपा पूर्णा मयि स्थिरा ॥११॥
भवतां भवभक्तानां दर्शनं जातमद्य मे । इति चित्ररथोदारां वाणीं वाणीप्रतिप्रभाः ॥१२॥
श्रुत्वा ते मुनयः सर्वे परं हर्षभवाप्नुवन् । ऊचुस्ते मुनयः सर्वे नृपं शाम्भवपुङ्गवम् ॥१३॥
कम्पयित्वात्मनः शीर्षं जटाभारविदीपितम् ॥१४॥
मुनयः -
त्वमेव धन्योऽसि महीतलेऽस्मिन् मान्योऽसि पूज्योऽसि विशिष्टशिष्टः ।
तव प्रभावं प्रवदन्ति देवाः विधीन्द्रपूर्वा मुनयश्च सिद्धाः ॥१५॥
भूमण्डलाखण्डल एव नूनं त्वया महीमण्डनगण्डमण्डिता ।
त्वं वै सुनाथः प्रथितः पृथिव्यां यतो महाकालपदानुरक्तः ॥१६॥
माता पिता तेऽद्य पितामहोऽपि पुत्रास्तथा भ्रातरस्तेऽद्य दाराः ।
सर्वे महेशानुचरा नृपेन्द्र त्वं शाङ्कलिङ्गार्चनसक्तचित्तः ॥१७॥
श्रुत्वा मुनीनां वचनं प्रणतः स नृपाग्रणीः । तैः सर्वैर्मुनिभिः सार्धं महाकालालयं ययौ ॥१८॥
स्नात्वा क्षिप्रानदीतोये भस्मरुद्राक्षभूषणः । निःसारद्दुन्दुभिरवैंरमात्यैर्मुनिभिर्वृतः ॥१९॥
वृतो दारसहस्रैश्च पुत्रैरमरसुन्दरैः । सदश्वैर्मत्तमातङ्गैः स्यन्दनैः शिबिकागणैः ॥२०॥
भटैरनेकसाहस्रैः बन्दिभिः सूतमागधैः । स्तुतो ययौ महाकालं द्रष्टुमिन्द्रनिभो नृपः ॥२१॥
अतवीर्य रथेभ्यस्ते नृपेण सहिताः शिवम् । द्रष्टुसभ्यागताः सर्वे सकलत्राः कुमारकाः ॥२२॥
पद्भ्यामनुययुः सर्वे तद्भृत्यास्तस्य सैनिकाः । सोपहारा महोदारा उदाराः सुमनोहराः ॥२३॥
मुख्यामात्यास्तदाप्ताश्च ( समेता ? ) गिरिशं भवम् । प्रदक्षिणप्रणामाद्यैः स्तुत्वा रुद्रैर्महेश्वरम् ॥२४॥
समभ्यर्च्य च मध्याह्ने भुक्त्वा नैवेद्यमीशितुः । दारैः पुत्रैः परिवृताः शांभवैः स्वभटैः सह ॥२५॥
उपोपविविशुः सर्वे [ शिवाग्रे स्वर्णमण्टपे । कल्लोलतीर्थं च परं पीत्वा स्वर्णाब्जिनीपयः ॥२६॥
भवलिङ्गार्चनपरा मुनयस्ते नृपादयः । एवं सभासदः सर्वे ] सभापतिमुपासते ॥२७॥
शिवार्पितैर्गन्धवरैस्ताम्बूलैश्च मनोरमैः । स्रग्मिश्च सुमनोमोदपरिभ्रमितषट्पदैः ॥२८॥
तानभ्यर्च्य यथान्यायं स्वयञ्चान्यांस्तथा नृपः । स्वदारतनयाद्यांश्च तथामात्यान् भृतं जनम् ॥२९॥
विचित्राभिः कथाभिश्च शैवीभिर्नृपसत्तमः । चकार कालनयनं महाकालार्चनप्रियः ॥३०॥
ततस्ते मुनयः सर्वे दृष्ट्वा तल्लिङ्गमैश्वरम् । प्रणभ्य विनयोपेताः तुष्टुवुः शङ्करं तदा ॥३१॥
मुनयः -
कृतानङ्गभङ्गं महाङ्गत्वगङ्गं सदा जह्नुकन्यातरङ्गोत्तमाङ्गम् ।
शिवं भक्तहृत्पद्मसद्मैकxङ्गं महाकाललिङ्गं भजामो भजामा ॥३२॥
महेशाङ्गलिङ्गं विपत्क्षोभभङ्गं भुजङ्गाङ्गसङ्गं कुरङ्गाङ्गसङ्गम् ।
तरङ्गालिमालीनिषङ्गं शुभाङ्गं महाकाललिङ्गं भजामो भजामः ॥३३॥
अनङ्गं पतन्तं पतङ्गैकभङ्ग्या निजाक्षिस्फुलिङ्गे दहन्तं शयान्ते ।
कुरङ्गं वहन्तं पतङ्गेन्दुनेत्रं महाकाललिङ्गं भजामो भजामा ॥३४॥
जटाजूटपिङ्गं दयास्राव्यपाङ्गं कृताङ्गानुषङ्गं कयाचित् कृशाङ्ग्या ।
असङ्गान्तरङ्गं महालिङ्गसङ्गं महाकाललिङ्गं भजामो भजामः ॥३५॥
महोक्षाङ्गसङ्गं महोक्षाभसङ्गं स्वकाक्षिस्फुलिङ्गं सुगन्धोत्तमाङ्गम् ।
महः शोणिताङ्गं महानङ्गभङ्गं महाकाललिङ्गं भजामो भजामः ॥३६॥
सूतः -
एवं संस्तुत्य ते सर्वें मुनयो हृष्टमानसाः । राजानं विनयोपेतं वाचमूचुस्तदा द्विजाः ॥३७॥
मुनयः -
धन्योऽसि कृतकृत्योऽसि सर्वमान्योऽसि भूपते । पश्य देवस्य माहात्म्यं महाकालस्य सादरम् ॥३८॥
मेरुम्तृणति राजेन्द्र तृणं याति गिरीन्द्रताम् । भवद्वृत्तान्तमखिलं श्रृणुष्व गदतां हि नः ॥३९॥
भवान् पूर्वभवे राजन् ब्राह्मणाः कणयाचकः । मातापितृविहीनश्च दारेण च समन्वितः ॥४०॥
उंछवृत्तिपरो नित्यं सततं क्षुच्छ्रमान्वितः । पटाञ्चले गहीत्वैकां कणानां मुष्टिमादरात् ॥४१॥
पत्न्या सार्धं भ्रमन् राजन् ग्रामेषु नगरेषु च । स द्विजो हि दिवारात्रं दिनान्ते नगराद्वहिः ॥४२॥
कदाचित् सायमश्नानो द्वितीये दिवसे क्कचित् । तृतीये वाऽथ षष्ठे वा भुङ्क्ते दारिद्र्यपीडितः ॥४३॥
अत्यन्तं सूर्यकिरणैस्तप्तगात्रः सदा द्विजः । भेरुण्डपक्षिसदृशो हिण्डते प्रतिवासरम् ॥४४॥
प्रतिग्रामं प्रतिद्वारं लज्जासर्वस्ववर्जितः । क्कचिन्मूर्छान्वितः शेते क्कचिद्याति स्खलत्पदः ॥४५॥
भार्यास्कन्धकरो याति रुदन् प्रतिगृहं तदा । दत्वा दत्वा च विरताः पुनस्तान याचयत्ययम् ॥४६॥
असूयाविष्टमनसो दर्शनात्तव भूसुराः । क्षत्रियाश्च विशश्चैव शूद्रा अपि च सङ्कराः ॥४७॥
भ्रुकुटीकुटिलं वक्त्रं कुर्वन्त्येव मुहुर्मुहुः । गच्छ गच्छेति तं केचिन्मूढेति च वदन्ति ते ॥४८॥
दूरादालोक्य तं विप्रं कवाटैरर्गलान्वितैः । गृहद्वाराणि कुर्वन्ति साधवोऽपि भिया तदा ॥४९॥
कणमुष्टिं गृहीत्वैव निर्यात्युत्क्रोशयन् जनम् । ग्रामस्था नागराश्चैव जना निर्भर्त्सयन्ति तम् ॥५०॥
निःसार्योऽयं सुदुष्टात्मा कदा मरणभेष्यति । द्विजं दण्डकशाघातैस्ताडयन्त्यतिवेगतः ॥५१॥
पांसुकर्दमपिण्डैश्च कुमाराः पीडयन्ति तम् । जीर्णं पटं तस्य कट्यां निष्कास्यन्त्यतिवेगतः ॥५२॥
एवं स पीडितो विप्रश्चौर्येणापि स जीवति । विपण्यापणवीथीषु धनिकानां गृहेषु च ॥५३॥
कणान् पणांश्चोरयति दृष्ट्वा सन्ताडयन्ति तम् । एवं वसंस्तदा विप्रो भार्यया जीर्णया वृतः ॥५४॥
कालं निनाय बहुशो विनयाचारवर्जितः । भार्यामाह तदा विप्रो दुःखादश्रु प्रवर्तयन् ॥५५॥
उवाच भार्यां दीनात्मा मन्दात्मा कृपणः कृशः ।
ब्राह्मणः -
हा कष्टं प्रेतनाथोऽपि मयि नैष्ठुर्यमागतः । कदा मरणमेष्यापि प्राणाः कष्टतरा मम ॥५६॥
सत्वरं गत्वरं लोकं दृष्ट्वाऽहं दुःखवर्जितः । याच्ञादौ महती लज्जा जाथते मेऽधुना प्रिये ॥५७॥
दारिद्र्यं नाम मरणं सर्वस्यापि न संशयः । भक्षिष्ये गरलं तीव्रं जीवितान्तकरं मम ॥५८॥
तरङ्गमालाकलितं प्रवेक्ष्ये निधिमम्भसाम् । ज्वलज्ज्वलनज्वालाभिः दाहयिष्ये कलेबरम् ॥५९॥
इत्युक्तवन्तं तं विप्रं भार्या प्राहाश्रुलोचना ॥६०॥
ब्राह्मणी -
ब्राह्मणानां कुले जातो ब्राह्मणस्त्वं न संशयः । किमर्थं दुद्यते तीव्रं दुःखापनयनं कुरु ॥६१॥
अनिष्टं नाम मरणं लोकेषु प्रथितं सदा । यया कथा च वृत्त्या च जीवावो नात्र संशयः ॥६२॥
यस्मिन् काले यदा देशे यद्यद्भावि भविष्यति । यस्मिन् काले यदा राद्धं अन्नमित्याह हि श्रुतिः ॥६३॥
शिवक्षेत्रमिदं तावद्बहु शैवविराजितम् । अत्र शङ्का न कर्तव्या कृतान्तादपि भूसुर ॥६४॥
वृथायासकरः कालः शरीरस्यापि सर्वथा । अतः परं शिवद्वारि वसावो बलिभोजनौ ॥६५॥
एवं संवदतोस्तत्र दम्पत्योः कश्चिदागतः । शैववर्यः प्रहृष्टात्मा शिपिविष्टेष्टमानसः ॥६६॥
भस्मरुद्राक्षसंपन्नो महाकालं निरीक्षितुम् । बभाषे वचनं चारु तौ तदा हर्षयन्निव ॥६७॥
शैवः -
किमर्थं दुःखितौ ब्रूतं तीव्रशोकेन कर्शितौ । यदि क्षमं मयि ब्रूतामुपायं चिन्तयाम्यहम् ॥६८॥
प्राप्तमन्नं मया भुक्तं सदान्नपतिपूजनात् । अस्मिन्नेव शिवक्षेत्रे दद्यादन्नं सुसंस्कृतम् ॥६९॥
यस्मै कस्मैचिदत्यन्तं तुष्टस्तेन महेश्वरः । किं पुनः शैववर्येषु दत्तं भवति चाक्षयम् ॥७०॥
भस्मफालस्त्वमत्यन्तं त्रिपुण्ट्रावलिभासुरः । रुद्राक्षमालाभरणो द्विजोऽ‍प्यत्यन्ततर्षितः ॥७१॥
सदारश्च विशेषेण त्रिनेत्रप्रियकृत्तमः । इति शैववचः श्रुत्वा सभार्यो हर्षितो द्विजः ॥७२॥
यथोदकं मरौ प्राप्य घासमिष्टं यथैव गौः । तृषितस्तद्वदेवायं प्राञ्जलिः प्रणनाम तम् ॥७३॥
उवाचोत्फुल्लवदनो हर्षगद्गदया गिरा ।
ब्राह्मणः -
किं करोमि द्विजेन्द्राद्य याचकोय़्हं सदातुरः । बहुभक्षः सदारश्च मासमात्रमुपोषणः ॥७४॥
मद्याचनाभिया लोके नैव दास्यन्ति केचन । धनधान्योदपूर्णेषु गृहेषु गृहिणः सदा ॥७५॥
तिरस्कुर्वन्ति मां नित्यं कुप्यन्ति च हसन्ति च । दारिद्र्यपीडितस्याद्य जीवनं मे न विद्यते ॥७६॥
म्रियेऽहमधुना विप्र दुर्भाग्यार्णवमध्यगः । सदारः पश्यतस्तेऽद्य महाकालशिवाग्रतः ॥७७॥
शिवाग्रे मरणं शैव धन्यानां किल जायते । मत्पापगणनां नूनं शेषो वक्तुं हि न क्षमः ॥७८॥
तस्माच्छिवक्षेत्रगतस्त्यक्ष्यामीदं कलेबरम् । नैव पातकसङ्गो मे शैवेत्थं सत्यमुच्यते ॥७९॥
इति तद्वचनं श्रुत्वा स शैवो दुःखितोऽवदत् ॥८०॥
शैवः -
त्वयान्नपतये पूर्वं न दत्तं चान्नमुत्तमम् । तेन त्वं दुःखभाङ्नूनं दरिद्रश्च विशेषतः ॥८१॥
जनैस्तिरस्कृतश्चासि सदा धिक्शब्दवादिभिः । धनधान्यसमायुक्तजनतायां त्वयाऽधुना ॥८२॥
नैव संप्राप्यते चान्नं पश्य त्वं कालपर्ययम् । उपायमेकं वक्ष्यामि सावधानमनाः श्रृणु ॥८३॥
वृद्धस्त्वं जरया व्याप्तः चलितोरुशिरोऽङ्गकः । मुहुर्मुहुर्जायते ते हृदये चैव वेपथुः ॥८४॥
तूष्णीं स्थितिस्ते युक्ता हि हितमात्यन्तिकं श्रृणु । अस्मिन्नेव शिवक्षेत्रे वसन् सुनियतो भव ॥८५॥
शङ्करं भज हे विप्र भस्मरुद्राक्षभूषणः । सर्वपापविनाशाय तव दास्याम्यहं मनुम् ॥८६॥
पञ्चाक्षरं महद्विप्र तेन लिङ्गार्चको भव । हरेण कथितं गौर्या हितं दारिद्र्यनाशनम् ॥८७॥
तत्तुभ्यं श्रृणु वक्ष्यामि हितमात्यन्तिकं द्विज ॥८८॥
अखण्डशुभ्रोत्तमधौततण्डुलान् हैयङ्गवीनेन विलोड्य पक्त्वा ।
दत्वा तदन्नं स भवेदथान्नपतिः प्रजाः पालयिताऽद्य गौरि ॥८९॥
शिवे शिरसि मे शिवे ददति योन्नमत्यादरात् स एव निधिसंपदां भवति भाग्यपूर्णो जनः ।
स एव सुकृती परं मुहुरनन्यचेता मयि स्थिरो मम सपर्यया भवति मुक्तये चाम्बिके ॥९०॥
सुकृष्टभुवि वर्षतः प्रसृतसल्लिवल्लीलस -
द्वसन्तनवकुड्मलिविरलपुञ्जवन्मञ्जुलम् ।
द्रोणाच्छाभ्रनिभान्नराशिभिरुमे संछाद्य राकाशर -
द्याश्विन्यां तदपारसिक्थगणनापुण्यैरनल्पैर्भवेत् ॥९१॥
सर्वाश्वमेधशतकोत्थफलाद्यगर्वनिर्वापणायालमुमेऽद्य पुण्यम् ।
कियत् तदन्नधिपपादपूजनं ततो भवेद्गौरि विशिष्टमेतत् ॥९२॥
अहो पामरा वानरा एव नित्यं शिवाराधनासाधनाद्विप्रहीणाः ।
न चाचारधाराविहारैकशूरा खरापारयोनिद्रावासरतृष्णाः ॥९३॥
महाबिल्वमूले महाशैवमेकं समभ्यर्च्य संभोजयित्वा घृतान्नैः ।
स चान्नाधिपत्यं लभेतैव कामं महान्नाधिपस्यैव शीघ्रं प्रसादात् ॥९४॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे सनकादिचित्ररथसंवादे चित्ररथपूर्वजन्मवृत्तान्तकथनं नाम द्वितीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP