संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
चतुर्विंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - चतुर्विंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
श्रीगौरि भार्गवो रामो मामाराध्यावसद्यदा । तदा तदाख्यानवरं तेऽद्य वक्ष्ये श्रृणुष्व तत् ॥१॥
देवी -
कथमाराधयद्रामस्त्वत्पादाम्बुजमीश्वरः । कृपया देवदेवेश तद्वदस्वानुपूर्वशः ॥२॥
ईश्वरः -
कृतवीर्यो महादेवि माहिष्मत्यामभून्नृपः । यज्वास विभवोपेतो धर्मात्मा क्षत्रियर्षमः ॥३॥
कुमुद्वती तस्य भार्या तस्यां तस्य सुतोऽभवत् । कार्तवीर्यार्जुनो नाम्ना स शान्ति पृथिवीमिमाम् ॥४॥
दत्तात्रेयो गुरुस्तस्य सदा मद्भक्तिभावितः । स पर्यटन्नर्मदायास्तीरे सुन्दरकानने ॥५॥
ददर्शाश्रममेकान्ते क्षुच्छ्रमाभ्यां समन्वितः । जमदग्निं मुनिवरं शाम्भवं प्रणनाम च ॥६॥
पृष्टस्तेनापि कुशलमातिथ्येन न्यमन्त्रयत् । कामधेनुपयोभूतैर्विभवैस्तं समर्चयत् ॥७॥
स कामधेनुं चकमे नृपो बाहुबलोद्धतः । तन्नैश्चज्जमदग्निश्च गोगणानां शतैरपि ॥८॥
विदूध्वा शरशतैर्विप्रं कामधेनुं नृपोऽग्रहीत् । विद्धं सा स्वपतिं दृष्ट्वा रामं विपिनगं तदा ॥९॥
रुरोद रेणुका दीना दृष्ट्वा पुत्रं समागतम् । उवाच रुदती माता राम रामेति सुस्वरम् ॥१०॥
तदा तत् करुणं श्रुत्वा स्वमातुः परिदेवनम् । स क्रुद्धो वचनं रामः श्रुत्वोदन्तं तपस्विभिः ॥११॥
उवाच मातरं दीनां भर्तारमनुगच्छतीम् ॥
रामः -
मैवं रुदो विशालाक्षि भर्तुर्गच्छ सलोकताम् । अस्य शांभववर्यस्य हनने कः सुखी भवेत् ॥१२॥
अपराध्यपि विर्पो वै न हन्तव्य इति श्रुतिः । शांभवश्चेत् दशगुणं तस्य पापं भविष्यति ॥१३॥
ब्रह्मघ्ने निष्क्रुतिर्मातः कल्पितास्ति क्कचित् सुरैः । अबुद्धिपूर्वं बुद्धौ तु मरणान्तमिति श्रुतिः ॥१४॥
शांभवस्याद्य हनने विद्धि बुद्धिकृतांहसाम् । नैव निष्कृतिको भूयाद्रुद्रकोपोन्मुखो हि सः ॥१५॥
रुद्रकोपाग्निदग्धस्य को वा त्राणकरो भवेत् । अमरैश्च वृतः पूर्वं स्मरो देवादिकार्यकृत् ॥१६॥
विष्णोः लक्ष्म्याश्च यः पुत्रः पुष्पैरिषुगणैः शिवम् । अन्यसाधारणं ज्ञात्वा अविध्यत महेश्वरम् ॥१७॥
क्षणेन भस्मतां नीतः किं पुनर्द्रोहकृज्जनः । शांभवो हि शिवस्यैव चरा मूर्तिरिति श्रुतिः ॥१८॥
ब्रह्मा ब्रह्माभवद्यस्य सदस्यो विष्णुरेव हि । रुद्रकोपाग्निदग्धस्य को दक्षस्य परायणम् ॥१९॥
पश्यतां सर्वदेवानां वीरभद्रेण नाशितः । दक्षमन्युस्तदा मातः स ममास्ते परायणम् ॥२०॥
शांभवस्य च बालस्य मार्कण्डेयस्य पीडनात् । कालमृत्योरपि शिवान्मातर्मृत्युरुपागतः ॥२१॥
शिवे शांभववर्ये च नान्तरं पश्य मेऽधुना । क्षत्रबन्धुरयं पापी न चिराद्वर्तयिष्यति ॥२२॥
शाम्भवद्रोहकृन्मर्त्यः सुरो वाप्यसुरोऽपि वा । न ब्रह्मा न हरिर्वापि किमन्ये पामरा नराः ॥२३॥
कृत्वाऽपि सर्वपापानि यो रुद्रं मनसा स्मरेत् । सद्यस्तत्कृतपापानि भस्मीभूतानि शोभने ॥२४॥
तस्यैव चापराधेन को वा तन्मोचको भवेत् । तमाराध्यतमं देवं समाराध्यैव भक्तितः ॥२५॥
कार्तवीर्यकुलं सर्वं निहन्ता विज्वरा भव । अहं सत्यप्रतिज्ञश्च त्वत्तो जातोऽस्मि माशुचः ॥२६॥
इति सा सान्त्विता माता रामेणाक्लिष्टकर्मणा । भर्तारमनुगच्छत् सा ध्यायन्ती साम्बमीश्वरम् ॥२७॥
नैधनेन विधानेन रामः संस्कृत्य तौ तदा । श्रीमद्गोकर्णभगमत्त् कोपदुख्हसमन्वितः ॥२८॥
स सागरे तदा स्नात्वा भस्मरुद्राक्षभूषणः । रुद्रमावर्तयन् मां स बत्सरत्रयमादरात् ॥२९॥
बिल्वपत्रैः समभ्यर्च्य पञ्चाक्षरपरायणः । विनिःश्वासपरो नित्यं कुम्भरुद्धोऽहिराडिव ॥३०॥
मातापित्रोस्तदा दुःखं संस्मृत्य मनसा शिवे । कृतं तत् कार्तवीर्येण पापिना क्षत्रबन्धुना ॥३१॥
क्षत्रमुत्सादयन् रामः तताप परमं तपः । पञ्चाग्निमध्यनिरतः फलपर्णाम्बुभोजनः ॥३२॥
भस्मनिष्ठो भस्मशायी रुद्राध्यायपरायणः । गोकर्णेशं लिङ्गरूपं मां तुष्टाव समर्चयन् ॥३३॥
रामः -
महेश्वर हरामरप्रवर धीर विश्वेश्वर प्रसीद परमेश्वर प्रमथनाथ नाथाव माम् ।
भवच्चरणसारसप्रवरगन्धमन्दानिलो विनाशयतु मच्छुचं पितृबधेन सन्तापितम् ॥३४॥
त्वं मातां जनकस्त्वमेव भगवन् त्वत्पादुकाराधकं
त्वत्सङ्गानिलगन्धबन्धुरयुतं दृष्ट्या सदा शीलये ।
त्वत्पादाब्जरजोविधूर्णितशिरा विष्णुः समस्तासुरान्
सञ्जघ्ने त्रिपुरान्तकान्तक विभो चक्रप्रदानात् पुरा ॥३५॥
त्वत्पादाब्जप्रणमनपरः शक्तिहस्तः कुमारः
शूरादींस्तानसुरगणपान् सङ्गरादौ निहत्य ।
स्वर्गं शक्रे दददखिलपो वीरवीरस्त्वमीशो
मामालोक्याऽऽधितप्तं हरहर भवहन् पाहि गोकर्णनाथ ॥३६॥
तदा रामस्तुतिं श्रुत्वा तुष्टोऽहं परमेश्वरि । प्रसन्नोऽहं तदा राममवोचं दुःखितं शिवे ॥३७॥
तस्मै दत्तो मया देवि स्वहस्तपरशुस्तदा । सान्त्वितश्च तदा रामः प्रणतः पुरतः स्थितः ॥३८॥
ईश्वरः -
पिता ते जमदग्निश्च शांभवो मत्परायणः । तस्याद्य हनने राम कः सुखी भविता सुत ॥३९॥
कृतवीर्यादयः पूर्वं स्वर्गलोके च संस्थिताः । शांभवस्याद्य हननात् लम्बन्ते नरके नृपाः ॥४०॥
दत्तस्ते परशुस्तेऽद्य निष्टप्तकनकत्सरुः । अनेन सेनाजालं तद् गजवाजिरथाकुलम् ॥४१॥
निहन्ताऽसि न सन्देहः क्षयद्वीरपरो यतः । गच्छ राम प्रहृष्टात्मा जहि क्षत्रियपांसनम् ॥४२॥
निःक्षत्रियां च पृथिवीं कृत्वा त्वं मामगाः पुनः । शांभवेष्वद्य पापेषु यः पापं सम्यगाचरेत् ॥४३॥
तान् हनिष्यामि तद्वेश्यान् नाशयामि सुखं व्रज । इत्युक्तवन्तं मां देवि प्रणम्य स विनिर्गतः ॥४४॥
दत्तो मया रथस्तस्प्तै साश्वस्तूणीरखङ्गवान् । शरी निषङ्गी कवची सपताकोरुकूबरः ॥४५॥
सहाध्याय्यभवत् तस्य अकृतव्रणसारथिः । स मां प्रणम्य देवेशि लसत्तूणीशरासनः ॥४६॥
कवची स शरी खङ्गी तदा रथपतिं मुदा । शैवः शङ्खरो दत्तस्तदा रामजयाय मे ॥४७॥
शङ्खमाध्प्रापयद्रामः अकृतव्रणसारथिः । श्रुत्वा शङ्खरवं सर्वे क्षत्रिया निष्प्रभास्तदा ॥४८॥
अभवन् कान्दिशीकास्ते केचिदाजिं गतास्तदा । वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ॥४९॥
हस्तिनोऽपि मदान्धा ये निर्मदास्तेऽभवन् शिवे । माहिष्प्रतीं तदा प्राप्य रामोऽ‍प्यर्जुनसैनिकान् ॥५०॥
गजोरुशुण्डादण्डेषु हस्तिमात्रेषु रक्षिषु । रथेषु वाहनाश्वेषु तदा योक्त्रकशासु च ॥५१॥
चक्रकूबरसंघेषु व्यधमत् तिलशः शरैः । शूराणां च विशीर्णानां शिरोहस्ताङ्गसन्धिषु ॥५२॥
शतं सहस्रमयुतं नियुतं प्रयुतं तथा । चकार शरवर्षाणि गिरावम्बुदबृष्टिवत् ॥५३॥
ते रामं शरवर्षेण समन्तात् पर्यवारयन् । शतघ्नीभिर्भुसुण्ठीभिः लगुडैः प्रासमुद्गरैः ॥५४॥
चक्रैः खङ्गोरुधाराभिः तदा तेऽर्जुनसैनिकाः । आपतन्ति गजैरश्वैः स्यन्दनैरतूर्यनादितैः ॥५५॥
तान् रामः समरे सर्वाननयद्यमसादनम् । शरोरुकाण्डैः शतशः चिच्छेद करवालतः ॥५६॥
केचित् द्विधा कृताः खङ्गैः चक्रवृत्तास्तथाऽपरे । भुसुण्डीनिहताश्चान्ये शरकृत्तास्तथाऽपरे ॥५७॥
गिरिमात्रा गजास्तत्र शेरते गतजीविताः । छिन्नभाण्डोरुमस्तिष्का निर्जिह्वान्त्रास्तथाऽपरे ॥५८॥
अश्वा विनिहतास्तत्र शतशः परमेश्वरि । कबन्धाश्च समुप्तेतुः खङ्गहस्ताः शरार्दिताः ॥५९॥
रामं ते ददृशुः सर्वे धनुर्मण्डलमध्यगम् । किरन्तं शरवर्षाणि प्रावृट्कालाम्बुदप्रभम् ॥६०॥
विसारथिरथास्तत्र बभ्रमुः चस्खलुः पथि । रथिनो रथमध्यस्था गतासव इवासते ॥६१॥
तान् रामः शरवर्षेण चिच्छेद तिलशोऽम्बिके । मनुष्यशीर्षपाषाणां गजोरुपुलिनां नदीम् ॥६२॥
असृग्वाहां भेदपङ्कां केशशैवलशाद्वलाम् तां कापुरुष दुस्तारां शरैस्तस्तार तां नदीम् ॥६३॥
कङ्कगृध्रवलारावैः फेरुनादैश्च भीतिदाम् । चकार क्षणमात्रेण रामो युद्धं सुदारुणम् ॥६४॥
विनाशितं तदा सैन्यं दृष्ट्वा पुत्रैः समन्वितः । हयस्थैश्च गजस्थैश्च रथस्थैश्च तदा नृपः ॥६५॥
सोऽर्जुनः क्काद्य रामेति भ्रुकुटीकुटिलाननः । आभिमुख्येनाजगाम तदा रामरथं प्रति ॥६६॥
रथेनायाति सैन्येन पुत्रैश्चाश्वैः परीवृतः । सहस्रभुजदोर्दण्डैः मण्डलीकृतकार्मुकैः ॥६७॥
किरन्निषुगणान् रामं यन्तारं चोदयन्नगात् । स रथं चोदयामास अग्निमारुतसारथिः ॥६८॥
जवनाश्वैस्तदा देवि शीघ्रं माहिष्मतीपतिः । आपतन्तं तदा राम अकृतव्रण सारथिः ॥६९॥
चिराद् दृष्टोऽयमधुना दृष्टो मे पितृघातकः । सञ्चोदयाश्वान् सुप्रीतोऽस्म्यद्याह्वमकृतब्रण ॥७०॥
क्षणेन तं निहन्तास्मि शीघ्रं त्र्यक्षप्रसादतः । तच्छ्रुत्वा रामवचनं चोदयश्चाकृतव्रणः (?) ॥७१॥
अश्वान् मनोजवांस्तस्मै तद्वै रथमभृच्छिवे । कृतप्रतिकृतैरश्वैः शतेनोत्तमधन्विनम् ॥७२॥
रामं चकर्त निशितैः भल्लैः सोऽच्छिनदन्तरा । पुनर्नवत्या रामोऽपि अर्जुनं समवाकिरत् ॥७३॥
अर्जुनं तमथो रामः शिरोवक्षोरुवाहुषु । विशिरस्कांस्तदा कांश्चित् चक्रे रामो महाबलः ॥७४॥
भल्लैश्च वत्सदन्तैश्च क्षुरप्रैर्निचकर्त ह । ते रामशरनिभिन्न ब्यसवः पतिताः क्षितौ ॥७५॥
वाजिभ्योऽथ गजेभ्यस्ते रथोपस्थे तथा परे । रथाश्च गजसंघाश्च हयास्तदनुयायिनः ॥७६॥
व्यसवः पतिता भूमौ छिन्नभाण्डकुथाङ्कुशाः । निरस्तजिह्वा मातङ्गा रथाश्च शकलीकृताः ॥७७॥
बिकूबरयुगाश्चैव विचक्राः शीर्णबान्धनाः । सिन्धुरा भिन्नकुम्भाश्च नराः कृत्ताः सहस्रशः ॥७८॥
तत्सार शरवर्षेण स रामश्चार्जुनीं चमृम् । दृष्ट्वा विनिहतान् पुत्रानर्जुनः कोपमाददे ॥७९॥
शरैः किरंस्तदा रामं याहि सूनेत्यचोदयत् । तं रामः शरवर्षेण महता समवाकिरत् ॥८०॥
सोऽपि चिच्छेद रामस्य ध्वजं कार्मुकमेव च । तस्याश्वान् सारथिं चापि ललाटे च त्रिभिः शरैः ॥८१॥
स रामोऽप्यर्जुनं संख्ये नवभिर्मर्मभेदिभिः । शरैर्जघान कवचे धनुर्मुष्टौ तथाम्बिके ॥८२॥
चिच्छेद तद्वाहुजालं उत्प्लुत्योत्प्लुत्य वेगतः । पश्यतां देवसंघानां साधु रामेति वादिनाम् ॥८३॥
वसन्ते किंशुकस्येव तदार्जुनशराहतः । रामो बभौ महादेवि सोऽपि खङ्गैरताडयत् ॥८४॥
तं रामो लाघवाद्देवि चकार विफलं तदा । तदा परशुधारेण सकुण्डलशिरो महत् ॥८५॥
अर्जुनस्याथ भूपृष्ठे पातयामास शङ्करि । ववर्षुx पुष्पवर्षाणि देवास्तन्मूर्ध्नि सत्तमे ॥८६॥
प्रावाद्यन्त तदा भेरीनिस्साणपणवादयः । मां प्रणम्य तदा रामः संपूज्य परशुं मम ॥८७॥
तद्रक्तैस्तर्पयामास स पितॄन् क्रोधमूर्छितः । एवं निःक्षत्रियां रामश्चक्रे पृथ्वीं तदाम्बिके ॥८८॥
पितृभिः स निषिद्धश्च रामो घोरपराक्रमः । संन्यस्तशस्त्रो मेधावी परशुं तं समर्च्य च ॥८९॥
तदा परशुरामाख्यां प्राप मत्पादपूजकः । स्वपावनार्थं देवेशि हयमेधमुपाहरत् ॥९०॥
तुष्टयै मेधपतिं मां स अयजद्भूरिदक्षिणः । स्वाद्वन्नैस्तर्पयन् विप्रान् गोभिः कनकपर्वतैः ॥९१॥
कश्यपे काश्यपीं दत्वा मां तदा पुनरागतः । तस्याश्रमपदं देवि कृतं शूर्पाकरं मया ॥९२॥
षट्शतं धनुषोऽन्ते मे स्थापितो लवणाकरः । तप्त्वा मां स तदा रामो लेभे शान्तिं मुदाम्बिके ॥९३॥
गोकर्णेशं समाराध्य प्रापायं चण्दविक्रमम् । क्षत्रियान्तकरो घोरो भक्तो रामः सदा मयि ॥९४॥
ईश्वरः -
इदं ते परमाख्यानमुक्तं मे गिरिकन्यके । गोकर्णेशप्रसादेन सर्वां सिद्धिं लभेन्नरः ॥९५॥
यो गोकर्णेश्वरं भक्त्या शिवरात्रौ समर्चयेत् । तस्य मुक्तिप्रदं ज्ञानं भविष्यति न संशयः ॥९६॥
महाबलं महादेवं गोकर्णेशं महेश्वरम् । सकृद् दृष्ट्वाऽपि मनुजो गाणपत्यं स विन्दति ॥९७॥
गोकर्णे परमा सिद्धिर्गोकर्णे परमं तपा । गोकर्णे परमं ज्ञानं साधको लभते शिवे ॥९८॥
सूतः -
श्रीमद्गोकर्णलिङ्गं भवशतजनितापारपापैकभङ्गं
शान्तस्वान्तैकसङ्गं करतलविलसद्वाललीलाकुरङ्गम् ।
वन्दे भूमीशताङ्गं फणिगणविलसत्तुङ्गगङ्गोत्तमाङ्गं
लीलाक्लृप्त्यै धृताङ्गं हरिशरकलितापारसिन्धूनिषङ्गम् ॥९९॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे परशुरामेतिहासवर्णनं नाम चतुर्विशो‍ऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP