संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
पञ्चत्रिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - पञ्चत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
श्रृणु देवि कथामेकां ब्रह्मणः परमाद्भुताम् । यां श्रुत्वा मयि विन्दन्ते भक्तिं सर्वार्थदायिनीम् ॥१॥
सत्यलोके स्थितो ब्रह्मा यियक्षुरभवच्छिवे । स्वहस्तपद्मं धाता च पातयामास भूतले ॥२॥
क्षेत्राणामुत्तमे तन्मे पुष्करे पुष्करं तदा । तत्र मे संस्थितं पूर्वं पुष्करेश्वरसंज्ञितम् ॥३॥
लिङ्गं मङ्गलदं पुण्यं तन्मौलौ नलिनं पतत् । वेणुगुल्मावृतं भद्रं नानावृक्षसमन्वितम् ॥४॥
तत्राम्तरेऽभवद्वाणी श्रुत्वा(?) वाणीपतिस्तदा ॥
वाणी -
एतद्विधातः क्षेत्रणामुत्तमं पुष्करं शिवम् । यजतो देवयजनं तव भृयात् सुपावनम् ॥५॥
पुष्करं ते यतः पुण्यं पतितं पुष्करं हि तत् । अत्र लिङ्गमिदं श्रेष्ठं देवदेवस्य शूलिनः ॥६॥
पश्य संपूजयात्रैव कार्तिकोऽयं सुपावनः । मासो हि पुण्यनिलये गङ्गेयं पावनी सरित् ॥७॥
कार्तिके सोमवारेषु पुष्करे पुष्करेश्वरम् । यः समर्चयिता गत्रौ बिल्वैर्द्रोणैश्च धुत्तुरैः ॥८॥
तस्य पुण्यस्य नान्तोऽस्ति स च शङ्करवल्लभः । तदा वाणीवचः श्रुत्वा विश्वकर्माणमाह्वयत् ॥९॥
ब्रह्मणा स्मृतमात्रः स विश्वकर्मा ततो विधिम् । प्राह किं करवाणीति क्षेत्रं विस्तारयेति तम् ॥१०॥
व्यधाद् वेधास्तदा शालामाश्रमं सरितस्तटे । मण्टपं गोपुरं दिव्यं पुष्करेशस्य शूलिनः ॥११॥
तद्ब्रह्मणोवचः श्रुत्वा नानाशिल्पसमन्वितः । शालां निर्मापयामास नानामण्टपशोभिताम् ॥१२॥
भक्ष्यैर्भोज्यैस्तथैवान्नैः सूपापूपैर्मनोरमेः । वाससां राशयस्तत्र ब्राह्मणावसथादयः ॥१३॥
पुष्करेश्वरलिङ्गस्य चक्रे सोऽपि शिवालयम् । प्राकारगोपुरोपेतमाश्रमैः सुमनोहरम् ॥१४॥
तत् पितामहवाक्येन विश्वकर्माऽथ शिल्पिराट् । विज्ञप्तुमथ ब्रह्माणं सत्यलोकं गतस्तदा ॥१५॥
तत्र सन्ति महाशैवाः पुष्करैशसमर्चकाः । बिल्वपत्रादिभिः सम्यक् ते सर्वे भस्मभूषणाः ॥१६॥
रुद्राक्षहारवलयत्रिपुण्ट्रपरिशोभिताः । निवसन्ति महाशैवाः पुष्करैः पुष्करेश्वरम् ॥१७॥
समर्चयन्ति नियतं भक्त्या बिल्वैश्च कोमलैः । तत्तत्कालेन देवेशि पुष्करं मे सुरासुरैः ॥१८॥
समागतो मुदा यष्टुमश्वमेधेन तत्र हि । ऋषिभिः सह पत्न्या च दृष्ट्वा नत्वा महेश्वरम् ॥१९॥
ब्रह्मा -
शंभो गाथपतिर्भवान् पशुपतिर्मेधापतिस्त्वं पतिः सोमः शौम्ययुतो मदीयमधुना सोमं पिबस्वाध्वरे ।
मह्यं देव दयां निधेहि सततं श्रीपुष्करेश प्रभो पूर्णां च श्रियमीश्वर प्रतिपदं चायुःशतं मे स्तुहि ॥२०॥
वाजैः शांभवपुङ्गवान् हि भजतो मा त्वा वधीर्दुष्कृतं मारातीर्जहि रङ्ग्यज्ञमधुना रक्षांसि नः संहर ।
यामे प्रजा अमृताः सन्तु सर्वा नार्यो नरा गोपगणाश्चापि शंभो ॥२१॥
मेषाश्वादिपशून् निवेद्य भवते त्वत्तः पशूनां पते ।
लब्ध्वाज्ञां नियुनज्मि वेदवचसा त्वं मेऽद्य सत्रावनः ॥२२॥
इत्थं मां स शिवे स्तुत्वा आजुहाव सरस्वतीम् । मानसः (?) सरसस्तस्माद्ब्रह्माहूता सरस्वती ॥२३॥
प्लावयामास तद्देशं पयोभिः साधुशीतलैः । पुष्करं सा समागत्य गङ्ग्या सङ्गता तदा ॥२४॥
सरस्वत्याश्च गङ्गायाः सन्धौ वेद्यभवत् तदा । ब्राह्मणैश्च महेशानि ऋतिग्भिः स पितामहः ॥२५॥
दीक्षितः सह पत्न्या च विष्ण्वादिसुरसत्तमैः । मुक्तः स तुरगस्तस्य पृथिवीं सञ्चचार च ॥२६॥
पुनः काले तदा देवि प्रवर्ग्यैर्जुहुवुर्द्विजाः । संचितोऽग्निर्द्विजैस्तस्य सहिरण्येष्टकोऽभ्विके ॥२७॥
स्वाद्वन्नो वाससा युक्तो नानाश्चर्यकरोऽभवत् । भुञ्जतां विप्रसङ्घानां नानाभक्षसमन्वितम् ॥२८॥
नासीदन्तो महेशानि तत्र हृष्टोऽभवज्जनः । वेदघोषो द्विजानां हि नानावाद्यरवो महान् ॥२९॥
मृदङ्गदुन्दुभिरवैर्ननृतुश्चाप्सरोवराः । विद्याधराः किंपुरुषा नारदाद्या महर्षयः ॥३०॥
सर्वे समागतास्तत्र पितामहमखोत्सवे । यूपास्तथोच्छ्रिताः सर्वे हिरण्यस्राविणः शिवे ॥३१॥
ततोऽश्व प्राविशत् पत्नी तस्मिन् कर्मणि नागता । मण्डयन्ती स्वकाङ्गानि देवपत्नीभिरादरात् ॥३२॥
विलम्बितायां सावित्र्यामाजुहावात्रिरादरात् ॥
अत्रिः -
पत्नीवान् वेधसोऽ‍प्याद्यो यज्ञोऽयं भविता त्वया । किं विलंबेन सावित्रि मा तेऽभूत् कालविप्लवः ॥३३॥
इत्थं सात्रिवचः श्रुत्वा ययौ तत्सदमबिके । एतस्मिन्नन्तरे शुद्धः शक्रमाहूय सोज्वलः ॥३४॥
ब्रह्मा -
गच्छ गच्छाधुना शक्र पत्नीमन्यां नियोजय । अङ्गत्वं वेदवाक्येन अपहाय यजामि ताम् ॥३५॥
श्रुत्वा स ब्रह्मणो वाक्यं शक्रोऽगच्छन्निरीक्षितुम् । तत्राभीरसुतां कांचित् जगृहे रूपसंयुताम् ॥३६॥
भूषणैर्मण्डयित्वा तां तत् सदः समुपानयत् । अध्वर्युमत्रिं क्रोधेन दीक्षयेति तदा विधिः ॥३७॥
प्राह संश्रृण्वतां तत्र द्विजानां तद्द्विजोऽब्रवीत् ॥
अत्रिः -
मा तेऽन्यथाद्य कर्तव्यं सावित्र्यपि समागता । दीक्षितस्य न वै मन्युरिति वेदानुशासनम् ॥३८॥
तदत्रिणो वचो ब्रह्मा समुल्लङ्घ्यात्रिमाह हि । दीक्षयस्त्वेति च पुनः क्रोधामर्षसमन्वितः ॥३९॥
तामत्रिर्दीक्षयामास ब्रह्मणोऽनुमते तदा । तया स तुरगो विप्रैस्तत्र संवेशितस्तदा ॥४०॥
एतस्मिन्नन्तरे क्रुद्धा सावित्री तं सुरेश्वरम् । शशाप कुपिता देवमत्रिं ब्रह्माणमेव च ॥४१॥
सावित्री -
पराजितो दैत्यवर्गैर्निःश्रीकश्च भविष्यसि । नहुषो भविता शत्रुः शची तमुपतिष्ठताम् ॥४२॥
तथात्रिं सा शशापैवं सावित्री क्रोधामूर्छिता ।
सावित्री -
आत्रेया ब्राह्मणाः सर्वे निःश्रीकाश्चोंजीविनः । अत्रे त्वं भविता पुत्रैर्विहीनो मम वाक्यतः ॥४३॥
असङ्घातो द्विजानां हि भूयादेव न संशयः । स्वमर्तारं तदा प्राह क्रोधाच्चक्षूंषि वर्तयत् ॥४४॥
न प्रतिष्ठा भवेद् धातस्तव लोकेषु दुर्हृदः । हरेण तेऽ‍द्य दृष्टेन शिरश्छिन्नं भविष्यति ॥४५॥
सावित्री विष्णुमाहेत्थं दह्यमाना सुरासुरान् । यस्मादाभीरकन्यां त्वं दृष्ट्वापेक्षितवानसि ॥४६॥
तस्मादाभीरवंशस्त्वं भविता द्वापरे भवान् । चाक्षुषे भविता यज्ञो दक्षस्य सुमनोहरः ॥४७॥
तत्र रुद्रेण देवाश्च ऋषयोऽपि सुदण्डिताः । भवन्ति मम शापेन नात्र कार्या विचारणा ॥४८॥
इत्युवाच च सावित्री तस्थौ चित्रार्पितेव सा । सर्वे शप्ताः सुसंत्रस्ताः खिन्ना ब्रह्मसदो गताः ॥४९॥
तां विष्णुः सान्त्वयामास सर्वेषां (?) सुरसंसदि ॥
विष्णुः -
मैवं शप विशालाक्षि भर्ता ते पद्मसंभवः । भर्तुः प्रियहिते युक्ता सा सावित्री पतिव्रता ॥५०॥
त्वं वेत्सि सर्वधर्माणां सारं देवि न संशयः । त्वया सहायं कल्याणि दीक्षां परमिकां गतः ॥५१॥
अश्वमेधो महायज्ञः पुष्करेषु प्रवर्तते । प्रियोऽत्यन्तं महेशस्य ऋत्विग्भिश्च यथाविधि ॥५२॥
धर्मपत्नी तथा ज्येष्ठा सर्वधर्मप्रवर्तनी । तवेयं सखिभावेन वर्ततां लोकसुन्दरी ॥५३॥
इत्युक्त्वा तां तदा कन्यां गायत्री पादयोर्नताम् । विष्णुय्वाक्यगतामर्षा सावित्री परिषस्वजे ॥५४॥
ब्रह्मणे च वरो दत्तः सावित्र्या सान्त्वितो विधिः ।
सावित्री -
यत् छिन्नं ते भवेच्छीर्षं भूयाल्लोकहिताय हि । कार्तिक्यां पुष्करे ब्रह्मन् तव भूयान्महोत्सवः ॥५५॥
इत्युक्त्वा प्राविशच्छालां तया चाभीरकन्यया । पुष्करेष्वभवद्यज्ञः स्वाद्वन्नो भूरिदक्षिणः ॥५६॥
ईश्वरः -
ततः स ववृधे यज्ञो ब्रह्मणः परमेष्ठिनः । तस्मिन् क्षेत्रे पुष्करे च ये स्थिताः शांभवोत्तमाः ॥५७॥
नैव संपूजितास्तेन दानमानासनादिभिः । ते पुष्करेशमासाद्य तुष्टुवुः शरणागताः ॥५८॥
शांभवाः -
श्रीपुष्करेश तव भागवतानथास्मान् बिप्रांश्च शांभववरानपहाय दर्पात् ।
विश्वेश्वरस्तव महाजनिमार्चकांश्च ब्रह्माप्ययं धनगणैः सहितोरुगोभिः ॥५९॥
विप्रान् समर्चयति नैव भवत्प्रपन्नानस्मान् महेशशरणानपहाय कष्टम् ।
त्वत्पादसंसेवनजातहर्षान् किं भाग्यजातनिकरैश्च विनश्वरैर्नः ॥६०॥
तद्गर्वपर्वत महाकुलिशस्त्वमीश शम्भो सदा शांभवदानतुष्टः (?) ॥६१॥
इति विप्रैस्तदा देवि स्तुतोऽहं भस्मभूषणः । दिगम्बरः शूलकरः पादुकाविलसत्पदः ॥६२॥
ब्राह्मं कपालमादाय तच्च यज्ञसदं गतः । निवारितो ब्रह्मगणैः सदाहमतिरस्कृतः ॥६३॥
हुङ्कारेणाथ तान भर्स्त्य लोलनेत्रयुगेx च । मत्तद्विरदसंकाशो गतस्तत्सुरसंसदम् ॥६४॥
केचिदूचुरहो मत्तः क्कायं यज्ञः सधृक् क्क तु । नग्नः सदाशुचिः कष्टं कपालोद्यत्करः कथम् ॥६५॥
श्वभिः समावृतः पापो हा कष्टं किमुपस्थितम् । विप्राणां वदतां तत्र सुराणां च महेश्वरि ॥६६॥
तदनादृत्य वाक्यानि ब्रह्माणं समुपस्थितः । ऋत्विग्मिश्च सदस्यैश्च विष्ण्वादिविबुधैर्वृतम् ॥६७॥
तमवोचं महादेवि धर्म्यसप्राकृतं वचः ।
ईश्वरः -
अहो धर्म्यो महायज्ञः पुष्करेषु प्रवर्तते । स्वाद्वन्नश्चाश्वमेधोऽ‍यं ब्राह्मो‍ऽयं बहुदक्षिणः ॥६८॥
श्रुत्वाहं क्षुधयाविष्टो भोक्तुमभ्यगतः सदाः । इति मद्वचनं श्रुत्वा ब्रह्मा प्राह तदांबिके ॥६९॥
ब्रह्मा -
यज्ञोऽयं क्षुच्छ्रमैर्हीनो यथा जोषं जुषस्व मे । अन्नं च विविधं भिक्षो वासांस्युच्चावचानि मे ॥७०॥
तच्छुत्वा ब्रह्मणो वाक्यं श्रुत्वा हर्षात् पुनर्विधिम् । अवोचं श्रृण्वतां तेषां विप्राणां ससौरैः सह ॥७१॥
ईश्वरः -
सरस्वत्यामथ स्नात्वा दृष्ट्वा श्रीपुष्करेश्वरम् । पश्चाद्भोक्ष्येऽद्य नियमो मया स्वीकृत एव हि ॥७२॥
यास्यामीति तदा वेधाः कपालं स्थापितं मया । तदैवान्तर्हितः सौम्ये सुराणां तत्र पश्यताम् ॥७३॥
विस्मिताश्चाभवन् सर्वे भूसुरास्ते सुरैः सह । इदमूचुर्वचः सर्वे कपालं स्थापितं क्क तु ॥७४॥
अशुच्यन्तर्बहिर्वेद्यां त्यजन्तु परिचारकाः । इत्थं श्रुत्वा तत्कपालं त्यक्तं ब्रह्मगणैः शिवे ॥७५॥
पुनस्तत्सदृशं तत्र तथैव समवस्थितम् । श्रान्तास्ते ब्रह्मपुरुषाः कपालवहनादुमे ॥७६॥
ना(?)न्तो न दृश्यते तत्र कपालानां च राशयः । एवं ते विस्मयाविष्टा हरिब्रह्मादयः सदा ॥७७॥
दृष्ट्वाश्चर्यकरं तत्र महेशस्य विचेष्टितम् । तुष्टुवुर्मां तदा देवि ब्रह्माद्या विबुधास्तदा ॥७८॥
ब्रह्माद्याः -
त्वं राजा मखभाङ्महेश सततं त्वामाह्वयन्तेऽध्वरे
साम्ना ऋय्ग्गणयाजुषैः प्रतिपदं रुद्रोऽ‍ग्निरित्याह हि ।
त्वन्मायाधिगमेन मोहमतयः सर्वामरैस्तुल्यतां
दृष्ट्वा त्वामधिगम्य कष्टमखिलं त्यक्त्त्वा प्रमोदामहे ॥७९॥
अहो देव मुग्धेन्दुचूड प्रसीद निषद्यादिबर्हिस्त्वमीशान तुष्टः ।
प्रकृष्टं महाकष्टजालं ममाधं हरस्वेश शम्भो प्रसीद प्रसीद ॥८०॥
यया मायया मोहमायान्ति सर्वे तवाङ्गे निषण्णा भवानीति गीता ।
भवान् मायिमायी भवानादिकर्ता भवत्तोऽखिलं जातमेदद्विचित्रम् ॥८१॥
इत्थं स्तुतोऽहं देवेशि तैस्तदा दर्शितं मया । रूपं त्रिलोचनं सांबं नीलग्रीवं त्रिशूलकम् ॥८२॥
पुनः पुरणेमुर्मां दृष्ट्वा ब्रह्मविष्णुसुरा द्विजाः । तदा प्राञ्जलयः सर्वे मां स्तुवन्ति तदांऽबिके ॥८३॥
ब्रह्माद्याः -
विश्वाधिकस्त्वं भगवान् महर्षिः हिरण्यगर्भ जायमानं च पश्येः ।
सत्यं देवः शुभया माम हि बुद्ध्या नियोजयस्वाशु महेश शम्भो ॥८४॥
त्वत्तः परं नापरमस्ति किंचित् त्वत्तो नाणीयान् न समश्चाधिको वा ।
वृक्ष इव त्वं स्थाणुरीशश्च नित्यस्त्वया पूर्ण जगदेतद्विचित्रम् ॥८५॥
न जानन्ति वेदा न जानन्ति देवा न जानति त्वामात्मसंस्थं महेशम् ।
प्रकृष्टोरुपुण्यैर्यदि त्यक्तमोहो भवत्पादसक्तो भवेत् तस्य सिद्धिः ॥८६॥
ईश्वरः -
देवि तेषां स्तुतिं श्रुत्वा तानवोचं प्रहर्षितः । पुष्करे संस्थिता विप्रा मत्पादशरणास्तथा ॥८७॥
क्षेत्रिणो भवता पूज्यास्तथान्येऽपि मुनीश्वराः । क्षेत्रमागत्य यः कोऽपि क्षेत्रस्थान् पूजयेत्पुरः ॥८८॥
अथान्यानर्चयेत् पश्चाद्यदि पात्नानहो विधे । मद्भक्ताः शांभवश्रेष्ठा भक्तपूजा ममेष्टदा ॥८९॥
विहाय भक्तान् मय्येव अन्यं संपूजयन्ति ये । तैः कष्टं प्राप्यते ब्रह्मन् पुष्करेऽन्यत्र वा सदा ॥९०॥
पुष्करे त्वत्कृतो यज्ञः स्वाद्वन्नो बहुदक्षिणः । मत्प्रीतिजनको जातः फलं तेऽष्टगुणं भवेत् ॥९१॥
यस्तु पुष्करमासाद्य नानाधर्मगणं चरन् । तस्याष्टगुणितं भूयादिति मे व्रतमाहितम् ॥९२॥
एतत्कपालानुगुणं जाताः पूर्वें पितामहाः । सप्रजानि व्यतीतानि मन्वन्तरशतानि च ॥९३॥
अस्मिन् संसारचक्रे त्वं मा गर्वं वह पद्मज । प्रणम्य मां तदा ब्रह्मा तान् विप्रान् पूजयत्तदा ॥९४॥
गोभिरन्यैश्च वासोभिः शांभवान् पुष्करस्थितान् । स्नानार्थं सरसस्तस्मादानीतेयं सरस्वती ॥९५॥
ज्येष्ठं पुष्करमासाद्य तरङ्गावलिभासुरा । तत्रावभृथमासाद्य रराज स पितामहः ॥९६॥
सावित्र्या चैव गायत्र्या ऋत्विग्भिश्च सुरासुरैः । पुष्करेशं समभ्यर्च्य स्तोत्रमेतज्जगाद च ॥९७॥
ब्रह्मा -
यं विभेय विमृशामहे शतम् । निदधामोऽञ्जलिजालव्रतैः ॥९८॥
अनेकविधि कल्पितं हर कपालमालाधर हरस्व विलसच्छ्रुतिप्रभव पापतापापह ।
अखर्वजनिदुर्दशां प्रतिपदं विनाशाशुभं महेश जनिमार्जनाद्भव भवादिबन्धं हर ॥९९॥
ईश्वरः -
स्तुत्वा मां स तदा ब्रह्मा प्रणम्याथ जगौ सुरान् ॥१००॥
पुष्करे दुष्करो वासः पुष्करे दुष्करं तपः । पुष्करे दुष्करं दानं पात्रं तत्र सुदुष्करम् ॥१०१॥
सरस्वती पुण्यतमा तदा याता महार्णवम् । कार्तिंक्यां तु विशेषेण स्नानं पुण्यं हि पुष्करे ॥१०२॥
सूतः -
इत्थं स वेधाः प्रजगाम चोक्त्वा देवैः स्वलोकं परमं मुनीन्द्रैः ।
यः पुष्करं संस्मरति दिने दिने न तस्य पापानि भजन्ति वृद्धिम् ॥१०३॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे पुष्करमाहात्म्ये ब्रह्मयज्ञ - पुष्करेशलीलावर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP