भर्गाख्यः पञ्चमांशः - सप्तत्रिंशोऽध्यायः
श्रीशिवरहस्यम्
ईश्वरः -
श्रृणु शैलसुते कश्चिदासीदावन्तिको द्विजः । सदारतनयस्तत्र नाम्नाऽभूत् स सुदर्शनः ॥१॥
तेन संपादितं द्रव्यमसंख्यं हेमरूप्यकम् । दासीदासाश्च तस्यासन् महिष्यजगवादिकम् ॥२॥
स दारभोगेन सदा वेश्याचेटीरतिर्द्विजः । कालो नीतः सदा तेन दुर्वार्ताकलहादिभिः ॥३॥
तेनान्नदानं न कृतं ब्राह्मणेभ्यो महेश्वरि । न हिरण्यं न वस्त्रं च न गृहं शयनादिकम् ॥४॥
नैवारामः कृतस्तेन छायावृक्षोऽपि नो पथि । न बिल्वारोपणं तेन कृतं नाश्वत्थरोपणम् ॥५॥
तडाकं वापि विपुलं शरण्यं सर्वदेहिनाम् । न कूपः खानितस्तेन तृषार्तेभ्यो मरुस्थले ॥६॥
ग्रीष्मे धर्मांशुतप्तानां प्रपा नैव च कारिता । छायामण्टपनिर्माणं वर्षत्रातपवारणम् ॥७॥
नाकारि तेन देवेशि शिवलिङ्गालयस्तथा । नैव भूतिर्गलाङ्गेषु ललाटे चापि मस्तके ॥८॥
त्रिपुण्ट्रो लेपितो नैव नैव भस्मवगुण्ठनम् । नैव पञ्चाक्षरो मन्त्रः श्रुतो वा का जपे कथा ॥९॥
रुद्राध्यायजपस्तेन न दृष्टो नापि वा श्रुतः । शिवलिङ्गार्चनं नैव कृतं बिल्वदलैः शिवे ॥१०॥
शिवनैवेद्यवार्तापि तस्य दूरत एव हि । शांभवैः सह संलापे तस्य हल्लास एव न ॥११॥
शिवलिङ्गं नैव दृष्टं जन्ममध्ये शिवालये । न गृहे किमु वक्तव्यं लिङ्गं बिल्वदलार्चितम् ॥१२॥
न स्नानं न जपो होमः स्वाध्यायः पितृपूजनम् । न श्रौतस्मार्तकर्माणि न करोति द्विजोऽपि सन् ॥१३॥
न सन्ध्या वन्दिता तेन काले पापप्रणाशिनी । गायत्रीजपमात्रो वा नाभूत् स हि द्विजाधमः ॥१४॥
शिवालये वा देवेशि न दृष्टस्तेन शङ्करः । शिवोत्सवे रथस्त्योऽपि वृषस्थो वा महेश्वरः ॥१५॥
न दृष्टस्तेन देवेशि प्रदीषे शशिशेखरः । सोमवारे तथाष्टम्यां चतुर्दश्यादिपर्वणि ॥१६॥
न दृष्टा दीपमाला वा दूरस्थेनापि शांभवि । प्रदक्षिणनमस्कारैः स्तुतिभिर्न स्तुतः शिवः ॥१७॥
सहस्रनामभिः पूजा न शताष्टादिनामभिः । नाभ्यर्चितः पशुपतिः साक्षात् कैवल्यदायकः ॥१८॥
तरुणीमेव सततं वारुण्या सह सेवते । स तु पापान्यनन्तानि असकृच्च करोति हि ॥१९॥
स ग्रामपालानाहूय द्विजानां गोधनं वसु । सुलुण्ठयति पापात्मा गृहानुद्दीपयत्यपि ॥२०॥
मधु मांसं तिलं तैलं तण्डुलं कम्बलानि च । स विक्रीणाति सततं धनवृद्धयैव जीवति ॥२१॥
आहृत्य धीवरान् वापि क्रयार्थं मत्स्यघातकः । सदा कृषिपरो नित्यं देवतातिथिदूषकः ॥२२॥
विधवासङ्गनिरतः स कन्यामुपसेवते । ब्रह्मद्रोहरतो नित्यं शिवनिन्दापरः सदा ॥२३॥
पिशुनो राजगामी च वाचाटोऽसूयकः खलः । श्रोत्रियैः कृशवृत्तिस्थैर्याचितस्तानसूयति ॥२४॥
न पार्वणं कृतं तेन श्राद्धं पितृमृतेऽहनि । गवां संरक्षको देवि क्षीरपानार्थमेव हि ॥२५॥
स बालवत्सां गां दोग्धि वत्सक्षीरं विवर्जयन् । शिवद्रोहपरो नित्यं सर्वदा जनपीडकः ॥२६॥
स्त्रीणां द्रव्याण्यथादाय गणनावर्जितान्यथ । वृद्ध्या दास्यामि चेत्युक्त्वा निष्कं तासां न यच्छति ॥२७॥
दुर्भिक्षं ध्यायति सदा धान्यादिक्रयहेतवे । गोगजाश्वाविकं चैव सौनिके क्रयकृत् सदा ॥२८॥
धनार्जनं सदा देवि पापेनैवाकरोद् द्विजः । तद्भ्रामवासिविप्राणां धान्यानि सुबहून्यपि ॥२९॥
गृह्णाति च तदा तेषां हीनार्घाण्येव दीयते (?) । तद्रसानां च विक्रेता सदा वार्धुषिकः खलः ॥३०॥
एवं संवसतस्तस्य तदासीच्च जलोदरः । स वृद्धिमगमद्रोगस्तस्य पापबलेन हि ॥३१॥
न भिषक्संप्रदानेऽपि औषधार्थं तदांबिके । मतिरासीच्च लुब्धस्य परद्रव्यापहारिणः ॥३२॥
न शान्तौ होमकार्येषु नैवासीत् तद्धनव्ययः । सदा तल्पगतश्चासीत् जलोदरनिपीडितः ॥३३॥
अतिवृष्ट्या तदा सायं तद्गृहं विस्तृतं स्थितम् । समागतस्तत्र शैवः प्रदोषशिवपूजकः ॥३४॥
तस्य भार्याऽथ तं विप्रं पावयामास वै गृहे । सोऽपि विप्रस्तदा सायं स्नात्वा भस्मविभूषितः ॥३५॥
रुद्राक्षमालाभरणश्चकार शिवपूजनम् । बिल्वपत्रैर्धूपदीपैः प्रणामप्रक्रमैस्तथा ॥३६॥
शिवनैवेद्यतांबूलैर्नीराजनपुरासरम् । स शयानो गदार्तश्च पश्यंस्तत्कृतपूजनम् ॥३७॥
नैव किञ्चिदथोवाच तद्भार्या तं तदा द्विजम् । वासयामास तद्रात्रौ भोजनाच्छादनादिभिः ॥३८॥
तामनुज्ञाप्य शैवोपु ययौ प्रातर्यथागतम् । तस्मात् स पञ्चमे चाह्नि हिक्कारुद्धोर्ध्वकण्ठकः ॥३९॥
विवृत्तनयनोऽव्यर्थं प्रसार्य चरणावुभौ । मृतो यमभटैर्नीतो बद्ध्वा पाशैः कशादिभिः ॥४०॥
ताडितश्च तदा नीतो मार्ग वैवस्वतं तदा । तद्भार्या चापि रुरुदे जहृषुस्तत् परे जनाः ॥४१॥
ततो दग्धो बान्धवैश्च हा मृतोऽयमिति द्विजः । नानायातनया विप्रो नीतो वैवस्वतान्तिकम् ॥४२॥
यमोऽपि स्वभटानाह चित्रगुप्तं पुरः स्थितम् ।
यमः -
किमनेन कृतं पापं विचार्य वद लेखक । पापमूर्तिरयं तावदस्मिन् कार्या दया न हि ॥४३॥
चित्रगुप्तस्तमाहेदं विनतः प्राञ्जलिस्तदा ।
चित्रगुप्तः -
एतस्य पापगणनाफणितौ फणीन्द्रो नालं सहस्रफणको द्विसहस्रजिह्वः ।
संपीड्यतामयमहो कशयोरुघातैः पातैः शिलाप्रपतनैः शरमुद्गरैश्च ॥४४॥
विवृत्य नयने तदा प्रबलचण्डभानोः सुतः तटिच्चटचटारवप्रतिभटार्भटीदन्तजैः ।
मुहुर्भटगणांस्तदा वदति पात्यतां क्काथ्यतां सुघोरनरकाग्निभिः प्रबलशस्त्रधारादिभिः ॥४५॥
यमस्य वचनाच्छिवे भटगणास्तदाक्रन्दनैर्भुसुण्ठिलगुडादिभिः परिघतीक्षणनाराचकैः ।
द्विजाङ्गपरिकर्तनेः प्रबलतैलदीपोल्मुकैस्तदा तदगुरूल्बणं निखिलयातनां ते व्यधुः ॥४६॥
ईश्वरः -
हाहा न कोऽपि सुभगे शिवलिङ्गपूजां कर्तुं यतन्ति विविधैः कुसुमैश्च नीरैः ।
तस्मादिमां शमनघोरमहाग्निभीतिं प्राप्यापि ते हि विवशा विधिकर्मजालैः ॥४७॥
मन्दारकुन्दनवचम्पकबिल्वपत्रैः मन्दप्रदोषसमये तरुणेन्दुचूड ।
लिङ्गार्चने मतिरहो गिरिशे स धन्यो बृन्दारनन्दितगुणो मुनिबृन्दमान्यः ॥४८॥
पापान्यमन्दतरसंसृतिघोरबन्धकन्दायितान्यपि विधूय मदानुगः स्यात् ॥४९॥
किं वक्तव्यमहो गिरीन्द्रतनये यः सायमभ्यर्चयेत्
लिङ्गं मङ्गलदं प्रदोषसमये बिल्वैश्च दूर्वाङ्कुरैः ।
तस्यापारफलाम्बुराशिगणनां कर्तुं न ईशो फणी
स्वस्यास्यान्तरतः सहस्रद्विगुणजिव्हाग्रधारारसैः ॥५०॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे शिवगौरीसंवादे सुदर्शनोपाख्यानवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 14, 2017
TOP