भर्गाख्यः पञ्चमांशः - पञ्चदशोऽध्यायः
श्रीशिवरहस्यम्
सूतः -
सौराष्ट्रे सोमनाथं तं गत्वा भस्मविभूषणः । पयोष्णसलिले स्नात्वा अमात्ये राज्यमादरात् ॥१॥
समावेश्य सदारश्च तपश्चक्रे सुदारुणम् । स सुतार्थं तदा राजा शिवे विन्यास्तमानसः ॥२॥
महार्हवसनादीनि तथैवाभरणानि च । त्यक्त्वा चीरादिसंछन्नो रुद्राक्षाभरणोज्ज्वलः ॥३॥
भस्मच्छन्नस्त्रिपुण्ट्राङ्कः सर्वदा शिवपूजकः । सर्वमन्यत् परित्यज्य शिवं ध्यायन् विमत्सरः ॥४॥
रुद्रावर्तनशीलश्च सदा पञ्चाक्षरं जपन् । भक्त्या त्वनन्यया शैवलिङ्गार्चनपरायणः ॥५॥
बिल्वपत्रैर्वन्यपुष्पैः फलमूलैर्महेश्वरम् । स्वर्भानुरिपुचण्डांशुसोदरद्रुममूलगः ॥६॥
तच्छदछन्नसूरोरुकिरणस्वच्चमानसः । पदार्थबोधविस्पष्टवचसा रुद्रजपकः ॥७॥
रुद्रविन्यस्तहृदयतुच्छीकृतजगत्त्रयः । तस्य दारा महोदाराः तत्सेवानिरताः सदा ॥८॥
बिल्वपत्राणि पुष्पाणि कमलान्यमलान्यपि । नीलोत्पलानि फुल्लानि तथा कोकनदान्यपि ॥९॥
फलमूलानि चारूणि सुस्वादूनि तदङ्गनाः । समाहृत्य स्वभर्तुस्ताः परिचर्यापरायणाः ॥१०॥
तस्यामात्यगणाः सर्वे तस्य राज्यस्य सत्क्रियाः । निवेदयन्ति सततं शर्वध्यानपरायणाः ॥११॥
राजानं ते समागम्य प्रणम्य विनयान्विताः । सभोगभाग्यैः सततं सभाग्यः (?) पूजयच्छिवम् ॥१२॥
एवं संवसतस्तस्य कालो भूयानवर्तत । तपस्यन्तं तु राजानं दृष्ट्वा मुनिगणास्तदा ॥१३॥
अत्यन्तं विस्मयाविष्टाः शिपिविष्टमरायणम् । मुनयस्तं तदा दृष्ट्वा इदमूचुः परस्परम् ॥१४॥
मुनयः -
अहो ह्येतादृशी निष्ठा न क्कापि भुवि विश्रुता । कुतोऽद्य दर्शनं विप्रा नष्टापत्कुलसञ्चयः ॥१५॥
धन्योऽयं कृतकृत्योऽयं सोमनाथार्चने रतः । राज्ञोऽथ शांभवस्यास्य दर्शनान्नष्टकिल्विषाः ॥१६॥
वयमप्यनुयास्यामो निष्ठां कष्टविनाशिनीम् । एतस्य सुकुमाराङ्ग्यो दारा मारमनोहराः ॥१७॥
रंभा धिक्कारकारिण्यस्तरुण्यः प्रियदर्शनाः । विस्तीर्णायतसुश्रोण्यः पीनवृत्तपयोधराह ॥१८॥
गौरीमाराधयन्ति स्म बलिधूपादिभिः सदा । राज्ञोऽप्यस्य च दाराणां किं वा दास्यसि शङ्करः ॥१९॥
अनेन कृतकृत्येन वयं धन्याः स्म सर्वदा । इत्यन्योन्यं मुनिगणाः सदाराः सकुमारकाः ॥२०॥
विनयावनताः सर्वे उपतस्थुस्तदा नृपम् । प्राज्यैर्मूलफलैः पुष्पैः बृसीभिरजिनैरपि ॥२१॥
तानागतान् नृपो दृष्ट्वा उत्थायाथ प्रणम्य च । तान् पूजयित्वा धर्मेण सार्ध्यपाद्यपुरःसरम् ॥२२॥
शांभवान् विनयाद्राजा भूतिरुद्राधारिणः । प्राञ्जलिर्विनयेनाह भवभक्तान् दृढव्रतान् ॥२३॥
राजा -
धन्योऽस्म्यहं महाशैवा भवत्पादाब्जदर्शनात् । त्रिनेत्ररूपाः सुत्राममान्याः यूयं विशेषतः ॥२४॥
भवदागमनेनैव विपिनं पावनं मम । वाणीपतिनिभा यूयं ब्रूत किं करवाणि वः ॥२५॥
इति राज्ञोर्थगम्भीरां श्रुत्वा वाचं शांभवाः । राजानं शांभवप्रेष्ठं सोमशेखरपूजकम् ।
प्राहुस्ते विनयोपेतं सदाराः सकुमारकाः ॥२६॥
शांभवाः -
सुधाधामखण्डोज्ज्वलन्मौलिगङ्गाप्रकृष्टोरुलिङ्गार्चनासक्तचित्ताः ।
विरक्ताः सुरक्तास्त्वया शांभवेन वसामः सुखेनाद्य निर्वृत्तचित्ताः ॥२७॥
चिरायाद्य बिल्वैः समभ्यर्च्य लिङ्गान्यमोघानि मालूरसंमूलगानि ।
लभामोऽद्य मुक्तिं भजामोऽद्य मुक्तिं त्वया शांभवेनाद्य वस्तुं मनो नः ॥२८॥
सूतः -
शांभवानां वचः श्रुत्वा राजा सन्तुष्टमानसः । प्राह तान् प्रणयोदारान् सदारः प्राञ्जलिस्तदा ॥२९॥
राजा -
भवद्धिः शांभवैः साकं सोमशेखरपूजकः । वसामि सामि सोमाङ्कलिङ्गपूजापरायणः ॥३०॥
अतःपरं किमुत्कृष्टं भाग्यं शांभवसत्तमाः । भवत्पूताङ्गसङ्गेन पापभङ्गो भवेन्मम ॥३१॥
ओमित्युक्त्वाऽथ मुनयो बिल्वमूलेषु शङ्करम् । भस्मनोद्धूल्य सर्वाङ्गमग्निरित्यादिमन्त्रतः ॥३२॥
रुद्राक्षधारिणः सर्वे करकर्णगलादिषु । बाणलिङ्गेषु तुङ्गेषु बिल्वमूलस्थितेषु च ॥३३॥
बिल्वपत्रैः सदारास्ते पूजयामासुरीश्वरम् । शांभवांश्च सहायांस्तान् शिवनैवेद्यराशिभिः ॥३४॥
भोजयामास नृपतिर्नित्यं शतसहस्रशः । सदा शिवकथा एव तस्यावर्तत संसदि ॥३५॥
केचिद्रुद्रं जपन्ति स्म बिल्वमूले द्विजोत्तमाः । केचित् पञ्चाक्षरजपं कुर्वन्ति नियतं शिवे ॥३६॥
बिल्वमूलेषु लिङ्गेषु नीरधाराप्रकल्पनैः । कालं नयन्ति ते शैवा बिल्वपत्रर्चनैः परे ॥३७॥
आसायमप्रमादेन आसूर्योदयमद्रिजे । कालकालार्चनेनैव कालस्तेषां क्षणायते ॥३८॥
शिपिविष्टार्चनरतास्तेन राज्ञा प्रपूजिताः । तान् दृष्ट्वा स तदा राजा प्रहृष्टः शैवपुङ्गवान् ॥३९॥
प्रकृष्टतरमात्मानं मन्यतेऽसौ बृहद्बलः । शांभवैः सह सल्लापं कुर्वन् शिवकथादिभिः ॥४०॥
चकार कालापनयं कालकालार्चनान्नृपः । तद्द्वारा मुनिपत्न्यस्तास्तेषां च परिचर्यया ॥४१॥
शिवार्चकार्चनेनैव नैवेद्यपरिकल्पनैः । कालो नीतो महादेवि तैः सर्वैर्मुनिभिर्नृपः ॥४२॥
मोदमाप तदात्यन्तं सोमनाथार्चने रतः । विपिनस्थोऽपि नृपतिः शांभवैः परिवारितः ॥४३॥
त्रिविष्टपसुखं प्रप भूमावाखण्डलो यथा । तान् द्रष्टुमागताः सर्वे मया च प्रेषिता गणाः ॥४४॥
नन्द्यादयो महादेवि विमानैर्हंसयायिमिः । त्रिशूलकरभस्माङ्गाः त्रिपुण्ड्रावलिमासुराः ॥४५॥
जटामकुटबद्धेन्दुखण्डाखण्डलधर्षकाः । तान् दृष्ट्वा शांभवश्रेष्ठान् प्रणम्य विनयान्वितः ॥४६॥
स राजा ते मुनिश्रेष्ठा धन्याः स्म इति वादिनः । तान् गणान् विनयेनाह मधुराक्षरसंयुतम् ॥४७॥
राजा -
कुतः समागतं नन्दिन् किं ते कार्यं समुद्यतम् । अस्माकमद्य साफल्यं जन्मनोऽस्य प्रजायते ॥४८॥
त्वत्कृपापात्रभूतानां शांभवानां विशेषतः । दुःखजालानि सर्वाणि विनष्टानि गणेश्वर ॥४९॥
नन्दिकेशः -
धन्यो मान्योऽसि मे राजन् भवान् शांभवपुङ्गवः । त्वदङ्गसङ्गवातोऽपि मङ्गलाय प्रजायते ॥५०॥
मङ्गलापतिसोत्तुङ्गलिङ्गपूजापरायणः । बिल्वपत्रादिभिः सम्यक् सभाग्योऽसि महीपते ॥५१॥
एतेऽपि मुनयः सर्वे भवलिङ्गार्चने रताः । तव शांभवसङ्गत्या धन्याः शर्वपरायणाः ॥५२॥
बिल्वमूलेषु दृश्यन्ते लिङ्गानि विमलान्यपि । बिल्वपत्रोत्तमाङ्गानि चन्दनालङ्कृतानि च ॥५३॥
मन्दारकुन्दमालाभिः पूजितानि नृपोत्तम । फालाक्षप्रतिरूपाणि त्रिपुण्ट्रेणोज्वलानि च ॥५४॥
पश्यामि तव भाग्यस्य नान्तोऽस्ति नृपसत्तम । नयनानन्दनान्येव कैलासादधिका मही ॥५५॥
सोमनाथमिदं क्षेत्रं सोमराजप्रपूजितम् । सोमनाथाख्यलिङ्गस्य दर्शन सर्वकामदम् ॥५६॥
त्वया शांभवधर्माणामाचारो विस्तरीकृतः । यस्तु शांभवधर्माणां प्रवर्तनपरायणः ॥५७॥
स शङ्करो नृपश्रेष्ठ शङ्कातङ्कविवर्जितः । महेशप्रियपुत्रः स गणेशश्च प्रजायते ॥५८॥
त्वद्दर्शनकृतोत्कण्ठो नीलकण्ठः पिनाकधृक् । अस्मान् संप्रेषयामास विमानैः सार्वगामिकैः ॥५९॥
त्वया शांभववीरेण सङ्गताश्च महौजसा । भूमण्डलाखण्दलस्त्वं त्वया धन्यतरा मही ॥६०॥
यत्र शांभवपादाब्जरेणुः पतति भूतले । स देशः पावनो धन्यस्तेन धन्यतरा मही ॥६१॥
यतः शांभवकोटीभिः सततं त्वमुपासितः । भस्मरुद्राक्षयुक्तश्च चतुर्वर्णेषु मानवः ॥६२॥
संपूज्यः सर्वयत्नेन माननीयश्च केवलम् । तत्रापि ब्राह्मणाः पूज्याः शांभवास्ते नृपोत्तम ॥६३॥
धन्याः पूजयितव्याश्च यतो ब्रह्मण्य ईश्वरः । ब्राह्मणे शांभवश्रेष्ठे वसेन्नित्यं पिनाकधृक् ॥६४॥
ब्रह्मण्यस्त्वं यतो राजन् शांभवार्चापरायणः । त्रिनेत्रगात्ररूपोऽसि सुत्रामाद्यभिपूजितः ॥६५॥
इत्युक्त्वा नन्दिकेशः स नृपतिं शांभवोत्तमम् । ब्राह्मणांस्तान् नमस्कृत्य राजानं परिस्वजे ॥६६॥
शाङ्गसङ्गालिङ्गनेन हर्षानन्दाश्रुसंयुतः । उवाच गणपान् वीक्ष्य राजानं च गणेश्वरः ॥६७॥
नन्दिकेशः -
अहो बिल्वमूलस्थलिङ्गार्चनेन प्रकृष्टानि कष्टानि नष्टानि सद्यः ।
विनष्टाघसङ्घो वसिष्ठाद्विशिष्टः स एवाष्टमूर्तेः कटाक्षैकलेश्वैः ॥६८॥
गत्वा बिल्ववनं न वारुणदलाक्रान्तोरुशाखान्वितं
तत्तीरे सरसि प्रभूतपयसि स्नात्वा कृतोद्धूलनैः ।
धृत्वा फालतले त्रिपुण्ट्ररचनां रुद्राक्षमालां गले
ध्यात्वा शङ्करमर्च्य पातकयुतो नत्वा जनो मुक्तिभाक् ॥६९॥
जप्त्वा श्रीतरुमोलगो मनुगणं गच्छेत् फलाधिक्यतां
शैवं चापि षडक्षरं प्रजपतो मुक्तिं ददातीश्वरः ।
श्रीरुद्रं यजुषां वरं च पठतां प्रीतो भवेच्छङ्करः
तन्मूलोत्थजलैः शिरः प्रसिचयन् तीर्थः समस्तैः प्लुतः ॥७०॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे सोमनाथमाहात्म्ये बृहद्बलनन्दिकेशसमागमवर्णनं नाम पञ्चदशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 07, 2017
TOP