संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः| एकादशोऽध्यायः भर्गाख्यः पञ्चमांशः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः भर्गाख्यः पञ्चमांशः - एकादशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकादशोऽध्यायः Translation - भाषांतर देव्युवाच - श्रुतं बाणासुराख्यानं भवतः परमेश्वर । केदारस्थानमहिमां वदाद्य शिव शङ्कर ॥१॥सूतः - महादेवो महेशान्या पृष्टो दक्शमखान्तकृत् । देवीं प्राहारविन्दाक्षः केदारस्थानवैभवम् ॥२॥ईश्वरः -अस्ति क्षेत्रवरं देवि केदारं भुवि विश्रुतम् । तत्क्षेत्रमहिमा सुभ्रु वेदैर्न ज्ञायते शिवे ॥३॥तस्मिन् क्षेत्रवरे देवि ब्रह्माद्या विबुवोत्तमाः । निवसन्ति महाभागे केदारेश्वरपूजकाः ॥४॥तल्लिङ्गसदृशं लिङ्गं न भूतं न भविष्यति । हित्वा कैलासशिखरं गिरीशो वसतीश्वरः ॥५॥सदा तत्र महाशैव वसन्ति शिवतत्पराः । भस्मरुद्राक्षवीताङ्गा त्रिपुण्ड्रावलिभासुराः ॥६॥केदारेशस्य देवस्य नित्यमाराधने रताः । षट्सहस्रं फलाहारा वाय्वाहाराश्च पञ्चकम् ॥७॥त्रिसहस्रांबुपर्णाशा भासुराः शिवतत्पराः । च्यवना भार्गवाश्चैव भारद्वाजाश्च काश्यपाः ॥८॥मौद्गल्या वीतहव्याश्च वैश्वामित्रात्रिसंभवाः । मत्पादपूजकाः सर्वे केदारक्षेत्रवासिनः ॥९॥ब्राह्मणा ब्रह्मसदृशाः ऋग्यजुःसामपारगाः । निवसन्ति सदा देवि मम लिङ्गार्चने रताः ॥१०॥पञ्चाग्निनिरताः केचित् त्रेताग्निशरणाः परे । नारदाद्याश्च मुनयो वसन्ति सततं शिवे ॥११॥गन्धर्वाः सिद्धनागाद्य यक्षाः किंपुरुषाः सदा । पत्नीभिः शैलशिखरे केदारश्वरसेविनः ॥१२॥मामाराध्यं समाराध्य ब्रह्मविष्ण्वादयः सुराः । स्वं स्वं स्थानमवापुस्ते केदारेशसमर्चनात् ॥१३॥अत्र केदारनाथं यो शिवरात्रौ चतुर्दशीम् । उपोष्य प्रयतो भक्त्या देवि यामचतुष्टयम् ॥१४॥पूजां कुर्याद्बिल्वपत्रैः स मोक्षमधिगच्छति । अन्यत्र कोटिलिङ्गार्चाफलं यत् सुरसत्तमे ॥१५॥केदारेश्वरमौलौ तु एकबिल्वार्पणाद्धि तत् । एकं वा मोजयेद्विप्रं केदारे कोटि तद्भवेत् ॥१६॥भोजयेच्छैवमेकं तु तदनन्तफलं स्मृतम् तस्य केदारनाथस्य कुण्डं पर्वतमूर्धनि ॥१७॥ख्यातं केदारकुण्डं तदुत्फुल्लकमलोज्ज्वलम् तत्कुण्डपूतपानीयैः स्नात्वा सन्तर्पयेत् पितॄन् ॥१८॥पितरस्तृप्तिमायान्ति द्वादशाब्दं सुरेश्वरि । पुरान्धकासुरं हत्वा तच्छूलाग्रेण शङ्करि ॥१९॥त्वत्पितुः शिखरे पुण्ये तवया तत् खानितं सरः । तस्मिन् सरसि विस्तीर्णे त्वत्तटे त्वत्तपोवनम् ॥२०॥मत्प्रीयते त्वया देवि विचीर्णाऽत्र तपःक्रिया । तत्तीरे स्थापितं लिङ्गं त्वया गौरीश्वराभिधम् ॥२१॥तल्लिङ्गदर्शनादेव मम लोके महीयते । वसिष्ठात्रिमृकण्ड्वाद्या भरद्वाजप्राशरौ ॥२२॥दुर्वासा गौतमाद्याश्च भृगुकुम्भोद्भवादयः । दधीच्याङ्गिरसोचथ्याः जामदग्न्यो महाबलः ॥२३॥क्षेत्रमुत्साद्य विप्रेन्द्रैः प्रार्थितः शममागतः । हिमवन्मूर्ध्नि सरसस्तीरे तप्यन्ति तापसाः ॥२४॥केदारनाथं दृष्ट्वा मां पूज्य बिल्वैः सुकोमलैः । उपहारैश्च विविधैरपारैः फलमण्डलैः ॥२५॥तद्गौरीसरसि स्नात्वा पुण्ये पापौघहारिणि । वृत्रं हत्वाथ जम्भारिर्वज्रेणासुरसत्तमम् ॥२६॥छद्मना स्वच्छसरसि गौर्याख्ये पापनुत्तये । स्नात्वा सुरगणैः सार्धं वृत्रहा सुद्धिमागतः ॥२७॥केदारनाथं दृष्ट्वा मां शक्रः सुरगणैः सह । तुष्टाव मां तदा भक्त्या तत्सुतिं श्रृणु शांभवि ॥२८॥इन्द्रः - शम्भो विश्वेश भर्ग त्रिनयन भगवन् कालकालान्धकारे पुरहर दुरिताहे घोररूपान्तकारे ।शमय शमय दुःखं दैत्यवर्गारियुद्ध ज्वरहर भयहारिन् पाहिं केदारनाथ ॥२९॥शक्रः केदारनाथं माभेवं स्तुत्वा प्रणम्य च । विहाय पापं तद्देवि त्रिविष्टपमगात् तदा ॥३०॥वरुणोऽपि महादेवि विप्रभार्यां पुराऽहरत् । उचथ्यस्य बलात पाशी कामबाणप्रपीडितः ॥३१॥जलोदरमहारोगग्राहग्रस्तोऽभवच्छिवे । प्रणम्य मां महादेवि केदारेशं प्रपूज्य च ॥३२॥विमुक्तस्तेन पापेन मां स्तुत्वैव स भक्तितः ॥३३॥वरुणः - मारमार करवीरसुमाढ्य स्रग्धरामरवारादिसुपूज्य ।संस्थितामरगणेन्द्रभूधर पाहि मामखिलपारदवीर्य ॥३४॥स्तुत्वैवं पाशहस्तो मां नत्वा संपूज्य मा शिवे । ययौ स्थानं न नीरोगो उम्क्तमेघ इवोडुराट् ॥३५॥माण्डव्येनापि सुभगे शप्तश्चण्डांशुनन्दनः । शापमुक्त्यै स केदारं मां प्रणम्याथ शूलिनम् ॥३६॥बिल्वपत्रैः समभ्यर्च्य स्नात्वा गौरीसरित्तटे । पुण्याग्निसप्तकैर्मन्त्रैः समुद्धूल्य स्वकां तनुम् ॥३७॥तुष्टाव मां विशुद्धात्मा केदारेशं महेश्वरम् ।यमः - तस्तुषस्पतिमहो भगवन्तं बभ्लुशं च हरिकेशमुदारम् ।मृगं न भीममुपहत्नुमुग्रं प्रसाद्य पापैर्न बिभेमि शम्भो ॥३८॥एवं मामम्बिके स्तुत्वा मुक्तशापः स सूर्यजः । जगाम दक्षिणामाशां पितृभिः परिपालिताम् ॥३९॥कुबेरो यक्षराट् देवि पौलस्त्येनाथ निर्जितः । जगाम परमामार्तिं मां केदारं प्रणम्य च ॥४०॥संस्नाय गौरीसरसि भस्मरुद्राक्षभूषणः । तत्कुण्डशोधितैर्नीरैर्बिल्वपत्रैः समर्च्य च ॥४१॥यक्षराण् मां विरूपाक्षमस्तौषीज्जगदम्बिके ॥४२॥कुबेरः - मीढुष्टमः शिवतमस्वमसि प्रसिद्धं सिद्धान्तसारमहिमन् मृडयाशु शम्भो ।संसारघोरविपिनोद्भवदावदग्धं त्वन्मूर्धचन्द्रकिरणैर्मम शीतयाङ्गम् ॥४३॥इत्थं स यक्षराड् देवि स्तुत्वा मामगजापतिम् । धनाधिपत्यं संप्राप उत्तराशापतिस्तदा ॥४४॥एवं दिशानामधिपा विदिशां पतयस्तथा । अभीष्टं प्रापुरत्यर्थं मामाराध्यैव भक्तितः ॥४५॥अग्निश्च निरृतिर्वायुरीशानो मद्गणोत्तमः । सत्सारूप्यं मुदा प्रप मां केदारं समर्चयन् ॥४६॥तुष्टुवुर्विदिशां नाथा विप्रशापप्रपीडिताः । अग्निश्च सर्वभक्षत्वं निरृतिः पापकारिताम् ॥४७॥वायुरायासराहित्यमीशानो मत्स्वरूपताम् ।अग्निवायुनिरृतीशानाः - महादेवो देवः सकलजगदाराध्यचरणो जगद्रक्षाशिक्षास्थितिजननचातुर्यकरणः ।हरिर्ब्रह्मा स्कन्दो गणपतिरुमा शक्रदितिजास्त्वधर्वाणेषु त्वं प्रथितयशसो वै तव नमः ॥४८॥एवं स्तुत्वाऽथ ते सर्वे विदिशां पतयस्तथा । लेभिरे परमां सिद्धिं केदारश्वरपूजनाम् ॥४९॥मुनयश्चापि देवेशि विश्वामित्रोऽत्रिरङ्गिराः । तेपुस्तपो महाघोरं ज्वलत्पञ्चाग्निमध्यगाः ॥५०॥ब्राह्मण्यप्राप्तये देवि विश्वामित्रेण संस्तुतः ॥५१॥विश्वामित्रः - गायत्र्या प्रतिपादितोऽसि भगवन् संसारसंभर्जको भर्गस्त्वं सवितुर्वरेण्यमहसस्त्वां सर्वदा धीमहि ।तेजस्त्वात्मगतं दिनोदयविधौ विप्रादिभिर्ध्यायसे बुद्धिं निश्चयकारिणीं च भगवन् सञ्चोदयस्यान्तरः ॥५२॥अत्रिः पुत्रविहीनश्च रिरिचानोऽन्वतप्यत । और्वाय पुत्रान् दत्वा स्वान् पुत्रानाप्तुं तदाद्रिजे ॥५३॥इष्टवांश्चातिरात्रेण ह्यस्मिन् भूधरसत्तमे । मां स्तुत्वा चाम्बिके पुत्रांश्चतुरः प्रपतवांस्तदा ॥५४॥अत्रिः - राजानं त्वामध्वरेश च रुद्रं होतारं त्वा सत्ययुजं च रोदस्योः ।विद्युत्पातसमादचित्तमरणात्पूर्वं शिवं शाश्वतं प्रपतोऽस्म्यन्वहमेकमेव शरणं हिरण्यरूपमवसे कृणुध्वम् (?) ॥५५॥मन्त्रार्थवादविधिषु श्रुतिषु प्रवृत्ताः तासु क्रिया मखशतोत्थफलैर्विचित्रैः पोषं रयि स्वर्गमथ प्रजां पशून् पुष्टिं प्रतिष्ठां च तथोजसि त्वम् ॥५६॥तत्र प्ररोचकपदेषु निविष्टचित्ताः किं नश्वरैः फलगणैः प्रमथाधिनाथ ।त्वामध्वरेश्वरमहो फलदानशीलं नाराधयन्ति सहसा जडबुद्धयस्ते ॥५७॥अङ्गिराश्च महादेवि केदारेशमथास्तवीत् । भ्रात्रा विनिकृतः पूर्वं दौरात्म्यौद्धत्यगर्विणा ॥५८॥अङ्गिराः - तथ्यं त्वदीयजन इत्ययि सामिचन्द्रचूड प्रभो मयि महाघसमुद्रकाये ।त्वं वेदगीत अधिवक्तृतया प्रसिद्ध पाहीश मामधिकया सहमान शम्भो ॥५९॥एवं स्तुत्वाऽथ मुनयः स्वाभीष्टं प्रापुरम्बिके । केदारेशप्रसादेन अन्ये सर्वे मरुद्गणाः ॥६०॥सूतः - को वा केदारलिङ्गं जनिशतविततापारपापैकभङ्गं प्रालेयाचलकन्यकापरिलसद्वामाङ्गसङ्गं सदा ।दृष्ट्वाऽनुङ्गभुजङ्गसङ्गजनितामन्दाङ्गकोपस्फुरत्फालापाङ्गकृताङ्गसङ्गरहितं श्रीशङ्गमीशं भजे ॥६१॥इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे केदारेशमहिमवर्णने दिक्पालादिस्तुतिवर्णनं नाम एकादशोऽध्यायः ॥ N/A References : N/A Last Updated : April 07, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP