भर्गाख्यः पञ्चमांशः - नवमोऽध्यायः
श्रीशिवरहस्यम्
ईश्वरः -
एवं चिरगते काले सोमभागविवर्जिताः । ओंकारेशं महालिङ्गं जग्मुः शरणमीश्वरम् ॥१॥
प्रणम्य तुष्टुवुर्हृष्टास्त्रिविष्टपनिवासिनः ॥२॥
देवाः -
भो शम्भो मरुतां पितस्तव कथापीयूवपाननैर्वयं
जीवामोऽद्य सुचातको हि तृषितो मेघोत्थपाथोलवैः ।
यद्वत् तद्वदुमासहाय भगवन् गौरो यथा तर्षितः
सोमं चापि महाध्वरेषु सततं पीत्वा सुरैस्तृप्यसि ॥३॥
क्षुत्क्षान्ता भगवंस्त्रिविष्टपगताः सत्राशिनः सर्वदा
वेदोत्थाः सकलाः क्रियाश्च भगवन् पूर्वं त्वया कल्पिताः ।
वेदास्त्वय्यखिला ददस्व विधये वेदान्मखादिक्रियाः
सर्वा विप्रगणेषु चाद्य वितता भूयात् सवो नो मुदे ॥४॥
इति सुरवचनं निशम्य शम्भुर्मुदितमनाः समुवाच हर्षवर्षम् ।
प्रददत विधिना समागताः स्थ त्रिदशवराः श्रुतिजालमेतदस्मै ॥५॥
प्रदिशामि शमाय भूयसे वस्तमुपास्यैव सदानुगच्छत ।
भागः स वो दिशति मद्वचनात्सुरेन्द्राः संप्रोचिवान् निखिलसुरासुरेन्द्रवन्द्यः ॥६॥
शङ्कराज्ञानुसारेण [ जग्मुः शक्रादयस्ततः । सुरा ब्रह्माणमासाद्य प्रणम्याभिप्रसाद्य च ॥७॥
खिन्नास्त्रिविष्टपं प्राप्य भागहीनाः सुधान्धसः । ततxxxप्राञ्जलयः सर्वे ] शक्राद्याः पङ्कजासनम् ॥
इदमूचुस्तदा देवाः कृशाङ्गस्नायुबन्धनाः ॥८॥
देवाः -
हृता वेदाः पुरा दैत्यैः शिवाज्ञाकारिणा पुनः । हरिणा संहृता ब्रह्मन् पुनर्लीना महेश्वरे ॥९॥
वेदहीनेषु विप्रेषु न यज्ञः संप्रवर्तते । यज्ञैर्विहीने भूलोके नास्माकं दृश्यते हविः ॥१०॥
क्षुधाविष्टा वयं सर्वे त्रिविष्टपगता अपि । क्षुधाप्रशमनोपायः शीघ्रमत्र विधीयताम् ॥११॥
इति गीर्वाणबृन्दानां श्रुत्वा वाक्यं पितामह । ध्यात्वा चिरं तदा देवानिदमाहाब्जजः सुरान् ॥१२॥
पितामहः -
प्रसाद्य परमेशानमोङ्कारेश्वरमव्ययम् । तप्त्वा भगवतो वेदान् प्राप्स्यामीति मतिर्मम ॥१३॥
वेदाद्यज्ञाः प्रवर्तन्ते पठन्ति द्विजपुङ्ग्वाः । भवन्तो भागभाजः स्युर्गच्छध्वं त्रिदिवं पुनः ॥१४॥
इत्युक्तास्त्रिदशाः सर्वे तदा त्रिदिवमागताः । कलेन कियमा वेधास्तप्त्वाऽथ परमं तपः ॥१५॥
वेधा विधिं समास्थाय ओङ्कारं प्राप तत्क्षणात् । शर्मदां नर्मदां प्रपय स्नात्वा तत्र जितेन्द्रियः ॥१६॥
भस्मोद्धूलनपुण्ड्राङ्को रुद्राक्षस्रग्भिरुज्वलः । जपन् पञ्चाक्षरं मन्त्रं शिवमोङ्कारमीश्वरम् ॥१७॥
समभ्यर्च्याथ बिल्वाद्यैः सोपचारैरनेकशः । तदग्रे संस्थितो विप्राः पञ्चाग्निषु स पद्मभूः ॥१८॥
प्रजपन् शतरुद्रीयं भस्मच्छन्नो जितासनः । वर्षमेकं निराहारो वायुपर्णाम्बुभोजनः ॥१९॥
दशवत्सरपर्यन्तमहोरात्रं तपश्चरन् । ओंकारलिङ्गनिलयं ध्यायन् देवं त्रियम्बकम् ॥२०॥
एवं तपस्यतस्तस्य प्रादुर्भूतोऽम्बिकापतिः । ओंकारलिङ्गमध्यात् स शशिशेखर ईश्वरः ॥२१॥
नीलकण्ठो विरूपाक्षः शूलोद्यतमहाकरः । गङ्गातुङ्गतरङ्गौघशीतक्लिन्नकपर्दकः ॥२२॥
अष्टमीचन्द्रसङ्गाशकपालविलसत्करः । देव्या स्कन्देन हेरंबनन्द्यादिगणपैर्वृतः ॥२३॥
सूर्यकोटिप्रतीकाशश्चन्द्रकोटिसुशीतलः । तादृशं देवदेवेशं दृष्ट्वा हृष्टोऽब्जजः शिवम् ॥२४॥
प्रणम्य परया भक्त्या तुष्टाव जगदीश्वरम् ॥२५॥
ब्रह्मा -
शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते
भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक ।
शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे
रुद्रेशान महेश्वरेश्वर महादेवेश तुभ्यं नमः ॥२६॥
तुङ्गलिङ्गनिलयामल शम्भो बिल्वहारपरिशोभिगलेश ।
पाहि सोन्मथितमन्प्रथदक्ष पाहि मामखिलदुःखसमूहात् ॥२७॥
त्वं कल्मलीकि (?) श्रुतिजातकीर्तिः विनाशयाघौघभरं ममाद्य ।
पतिः पशूनामथ चेतनानां नित्योऽसि विश्वाधिक विश्वमूर्ते ॥२८॥
इति स्तुवन्तं ब्रह्माणं प्राह देवो महेश्वरः । देव्या दत्तकरः शम्भुर्गणसङ्घैस्तदा वृतः ॥२९॥
शिवः -
पङ्कजासन त्वद्भक्त्या स्तुत्या त्वत्कृतयाऽनया । तुष्टोऽहमिष्टं ते भूयात् वरं वरय सुव्रत ॥३०॥
इत्थं शङ्करवाक्यान्ते प्राञ्जलिः प्राह पद्मभूः ।
वेधाः -
दृष्टमिष्टं मया शम्भो कष्टहारि पदं तव । मत्तो धन्यतरः को वा सुरेषु परमेश्वर ॥३१॥
किञ्चाद्य सुरकार्यार्थं विज्ञाप्यं श्रूयतां मम । यदा शङ्खासुरहृता वेदा देवशिखामणे ॥३२॥
त्वयाऽऽज्ञप्तो हि मुरभिद्धत्वा तमसुरोत्तमम् । तथाऽन्यान् दृप्तदैतेयान् तदा तत्प्राप्तवान् श्रुतीः ॥३३॥
वेदहीनं जगत्सर्वं निःस्वाध्यायवषट्कृतम् । द्विजाध्ययनहीनाश्च हीनयज्ञा महेश्वर ॥३४॥
यज्ञहीने तथा लोके वृष्टिहीनाऽभवन्मही । निरोषधिरसा पृथ्वी गावश्चोषधिवर्जितः ॥३५॥
देवा भागविहीनाश्च कष्टं विष्टपमाश्रिताः । वेदमूलं जगच्छम्भो वेदान् मे दातुमर्हसि ॥३६॥
वेदवेद्य महादेव वेदान्तेषु प्रतिष्ठित । ब्रह्माणं प्राञ्जलिं शम्भुरवोचद्ब्रह्मणस्पतिः ॥३७॥
ईश्वरः -
ओंकारकुण्डे संस्नाहि तपसा श्रमकर्शितः । कुण्डं लिङ्गालयं तद्धि पवित्रं पापनाशनम् ॥३८॥
तल्लिङ्गशतकं नित्यं मासमात्रं समर्चय । बिल्वपत्रैः पङ्कजैश्च रेवानीरैः सुशीतलैः ॥३९॥
वेदशाखामरतरुस्तदा ग्राह्यो भविष्यति । अत्रेतिहासं ते वक्ष्ये भविष्यत् पङ्कजासन ॥४०॥
बलिपुत्रो बाणनामा भविष्यति महासुरः । सहस्रभुजदोर्दण्डश्चण्डविक्रममण्डितः ॥४१॥
आखण्डलादिविबुधान् संग्रामे विजयिष्यति । नित्यं मत्पादपूजायां निरतः स भविष्यति ॥४२॥
सहस्रलिङ्गानि सदा बाणः पूजयिता ध्रुवम् । तत्पूजयाऽहं सन्तुष्टो गाणपत्यं दिशामि च ॥४३॥
मत्पूजाऽखर्वगर्वेण यदा लोकान् प्रबाधते । तदा तदसुरश्रेष्ठगर्वंनिर्वापणाय हि ॥४४॥
अन्येषां दैत्यवर्गाणां विनाशाय मदाज्ञया । जनिष्यति तदा विष्णुर्नरनारायणात्मकः ॥४५॥
स विष्णुर्मासमभ्यर्च्य संहरिष्यति तानपि । मत्तो लब्धवरो दृप्तस्तेन संग्राममूर्धनि ॥४६॥
तद्बाहुजालं भिन्नं च भविष्यति चतुर्मुख । कृष्णेनाजिमुखे ब्रह्मस्तद्भक्त्याऽहं वशीकृतः ॥४७॥
बाणं च गणपश्रेष्ठं रक्षिष्यामि प्रजापते । भक्तयोर्मम युद्धे च अहं भूयां पराड्मुखः ॥४८॥
को वा मां जेतुमिच्छेद्धि मम भक्तान् विनाब्जज । श्रुतयो मां वदन्तीशं जेतारमपराजितम् ॥४९॥
नरः पार्थ इति ख्यातः पाण्डुपुत्रो भविष्यति । तेनापि भविता युद्धं कौतुकान्मे चतुर्मुख ॥५०॥
तदस्त्रजालं खङ्ग च विश्वग्रासो ग्रसाम्यहम् । मदुत्तमाङ्गे तस्यैव प्रहारं धारयाम्यहम् ॥५१॥
तद्भक्तितोषितश्चाहं तन्नामख्यापनाय हि । ओङ्कारलिङ्गेषु सदा बाणः संपूजयिष्यति ॥५२॥
बाणेन पूजितं यस्मात् बाणलिङ्गं च पप्रथे । बाणलिङ्गकिणं ब्रह्मन् पार्थप्रहरणाङ्कितम् ॥५३॥
तादृशे मम भक्तेन पत्रं पुष्पं फलं विधे । दत्त गृह्णामि तन्मूर्ध्ना तत्तुष्ट्यै मे भविष्यति ॥५४॥
ओङ्कारकुण्डोत्तमलिङ्गपूजां कुर्वन् सदा बिल्वदलैश्च नीरैः ।
सहस्रमृल्लिङ्गसमर्चनोत्थपुण्यं लभेन्मुक्तिमुपैति शाश्वतीम् ॥५५॥
त्रिपुण्ट्ररुद्राक्षविभूतिभासुरो यो बाणलिङ्गं मम बिल्वमूले ।
रुद्रं जपन्नीरसुधारया शिवं सिञ्चेन्नरो बिल्वदलैः समर्च्य ॥५६॥
मुक्तो भवेदेव स पुण्यभाक् सदा गुह्यं वदाम्यद्य श्रृणु प्रजापते ।
पार्थप्रहारोत्तमबाणलिङ्गं लिङ्गं विजानीहि तदुत्तमं मे ॥५७॥
ओमित्युक्त्वा महादेवं ब्रह्मा सुरगणाधिपः । स्नात्वा तत्कुण्डसुजलैः कार्तिकेषुय विशेषतः ॥५८॥
तल्लिङ्गशतकं नित्यं पूजयामास भक्तितः । भस्मरुद्राक्षभूषाढ्यो रुद्रसूक्तजपादरः ॥५९॥
सादरः शिवपूजायां रुद्रविन्यस्तमानसः । मासान्ते शङ्करं ब्रह्मा सदाशिवमुदैक्षत ॥६०॥
भक्त्यानन्दाश्रुपुलकः पाहि पाहीति संवदन् । प्रणनाम महादेवपदपङ्कजमादरात् ॥६१॥
साञ्जलिर्देवदेवेशं तुष्टाव गिरिजासखम् ॥६२॥
ब्रह्मा -
श्रीबाणलिङ्गनिलयामलभूतिभूष विश्वेश विश्व मदनान्तक विश्ववन्द्य ।
शम्भो सदाशिव सचन्दनबिल्वमौले पाहि प्रसीद परमेश्वर पञ्चवक्त्र ॥६३॥
विश्वाधिक प्रमथनाथ सुरासुरेड्य सोमाग्निविष्णुशरकृत्तपुरारिवर्ग ।
त्रय्यन्तवेद्य विधिविष्णुविमृग्यमौलिपादारविन्द परमेश्वर पाहि दीनम् ॥६४॥
एवं स्तुवन्तं ब्रह्माणं प्रणतं भुवि दण्डवत् । उत्थाप्य दोर्भ्यां च तदा शशिशेखर ईश्वरः ॥६५॥
प्राह प्रगल्भवचनैः सुधाधिक्कारिभिः शिवः ॥६६॥
ईश्वरः -
उत्तिष्ठोत्तिष्ठ माभैषीः वेदास्ते प्रतिभान्त्वमी । सरहस्योपनिषदः । साङ्गोपाङ्गपुराणकाः ॥६७॥
सागमाः सोपवेदाश्च याश्च विद्याः सहस्रशः । भाष्यणि सर्वशास्त्राणि गान्धर्वादीनि सत्तम् ॥६८॥
उपाख्यानानि ते ब्रह्मन् ओंकारः श्रुतिशेखरः । उद्गीथगाथासुभगो मया दत्तः प्रजापते ॥६९॥
समुत्तस्थुत्तदा वेदाः ऋग्यजुःसामाथर्वकाः । प्रणम्य देवमोङ्कारं तुष्टुवुः प्रमथाधिपम् ॥७०॥
वेदाः -
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नताः स्म वै ॥७१॥
ऋचो अक्षरे परमे त्वा महेशं मल्लिङ्गमाकाशसधर्मकं विभुम् ।
त्वां यो न वेद किमृचा करिष्यति साम्नाथवा यजुगथर्वणैर्वा ॥७२॥
शिवो वेदस्तुतिं श्रुत्वा वेदांस्तस्मै ददौ मुदा । प्रणतं चाब्रवीद्देवो ब्रह्माणं विनयान्वितम् ॥७३॥
ईश्वरः -
वेदजालं निसृष्टं ते मया पङ्कजसंभव । सुराणां यज्ञभागार्थ लोकशिक्षार्थमेव च ॥७४॥
गच्छ लोकं सुरैः सार्धं वस मद्भक्तिभावतः । इत्थं शम्भोर्वचः श्रुत्वा विद्याधिपतिमीश्वरम् ॥७५॥
स्थानं ययौ प्रहृष्टात्मा प्रणम्य परमेश्वरम् । उपतस्थुस्तदा वेदाः ऋग्यजुम्सामाथर्वकाः ॥७६॥
..ब्रह्माणमनुजग्मुस्ते गुरुं शिष्या इवामलाः । मुनीनश्रावयत् सर्वान् सारस्वतमुखानपि ॥७७॥
तेषां शिष्यप्रशिष्यैश्च धृतो वेदो महात्मभिः । यज्ञभागाः प्रवर्तन्ते सिद्धिमीयुर्दिवौकसः ॥७८॥
सूतः -
एतद्वै महदाख्यानं श्रावितं भूसुरोत्तमाः । माहात्म्यं देवदेवस्य ओंकारस्य महेशितुः ॥७९॥
यो वेदादौ स्वरः शम्भुर्भगवान् परमेश्वरः । वेदान्तमहिमा यश्च स देवः पातु वः सदा ॥८०॥
यः पङ्कजासनमतन्द्रितमेव सृष्टौ संयोज्य वेदमखिलं प्रददौ महेशः ।
त्वं स्वात्मबुद्धिभवनं शरणं महेशं यास्यामि घोरभवसागरगो मुमुक्षुः ॥८१॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ओंकारेश्वरमाहात्म्ये वेदप्रदानं नाम नवमोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 07, 2017
TOP