भर्गाख्यः पञ्चमांशः - अष्टमोऽध्यायः
श्रीशिवरहस्यम्
सूतः -
इत्थं गीर्वाणवाणीं तां श्रुत्वा वाणिशसंस्तुतः । उवाच हर्षयन् देवान् शङ्करो लोकशङ्करः ॥१॥
ईश्वरः -
स्तुत्याऽनयाद्य सुप्रीतो भवतां सुरसत्तमाः । ईप्सितं वो वदन्त्वाशु तद्दास्याम्यहमेव हि ॥२॥
सदाशिववचः श्रुत्वा प्रणम्येन्द्रमुखाः सुराः । इदमूचुर्वचो हृष्टा विनयावनताननाः ॥३॥
देवाः -
भगवन् शङ्खनामाऽद्य दैत्योऽस्मान् बाधतेऽनिशम् ।
त्रिविष्टपात् च्याविताः स्मो जीवामः कष्टजीवनैः ॥४॥
ब्रह्मणः प्रसभं हित्वा वेदान् साङ्गान् महेश्वरः ।
त्वयोपदिष्टान् विश्वेश स शान्ति भुवनत्रयम् ॥५॥
निःस्वाध्यायवषट्कारो लोकः संप्राति वर्तते । यज्ञभागविहीनाः स्मो हृतस्वर्गा हृतौजसः ॥६॥
शरणं त्वां प्रपन्नाः स्मः पाहि नः शरणागतान् । पुनः प्रणम्य विश्वेशं भक्त्या तुष्टुवुरीश्वरम् ॥७॥
देवाः -
जगदुद्भवनाशसंस्थितिप्रलयापारगभीरसागरम् ।
भगवंस्तव भक्तिभावना परपारं समुतर्तुx (?) मिच्छवः ॥८॥
कनिष्ठं वरिष्ठं तथा ज्येष्ठमीशं गरिष्ठं वसिष्ठादिसंपूजिताङ्घ्रिम् ।
विशिष्टं सुराणां विशिष्टेषु पूज्यं नताः स्मो नताः स्मो नताः स्मो नताः स्मः ॥९॥
सूतः -
देवान् संपीडितान् ज्ञात्वा सस्मार गणनायकम् । नन्दिनं नन्दितानेकविबुधव्रजसंस्तुतम् ॥१०॥
स्म्रुतमात्रः शिवेनात्र प्रणतः संस्थितः पुरः बद्धाञलिकरस्तूर्णं किं करोमीति शङ्करम् ॥११॥
सम्यक् तुष्टाव हृष्टात्मा नन्दीशो गणपाग्रणीः ॥
नन्दिकेशः -
शम्भो चन्द्रललाम सोम भगवन् विश्वेश विश्वाधिक
ब्रध्नेन्दुस्फुरदाश्रयाशनयनापारव्यथां संहर ।
श्रीमृत्युञ्जय वेदवेद्य भवतः पादारविन्दं सदा
ध्यायं ध्यायमघं हरामि सततं त्वल्लिङ्गसंपूजनात् ॥१२॥
पायं ज्ञानमपायपानरहितो ध्यायं त्वदीयं पदं
हायं दुःखमशेषसंसृतिभवं त्वद्भक्तसंसेवनात् ।
त्वत्तोऽन्यामरपूजनं च भगवन् नायं ह्युपायक्रमः
कायं प्रपय विमुक्तये हि ययते भूयस्त्वया प्रेरितः ॥१३॥
नन्दिकेशमहास्तुत्या नन्दितः प्राह तं शिवः । महानन्दघनः शम्भुर्नन्दितो लिङ्गदर्शनात् ॥१४॥
ईश्वरः -
गणेन्द्र शाङ्करश्रेष्ठ गणेशैः परिवारितः । गच्छ वैकुण्ठभुवनं समानय हरिं द्रुतम् ॥१५॥
देवानां कार्यसिद्ध्यर्थमाशु त्वं सुयशापते । तथेति नत्वा देवेशमोङ्कारकृतकेतनम् ॥१६॥
ययौ दुतं विमानेन गणेन्द्रैः संस्तुतस्तदा । भस्मोद्धूलितसर्वाङ्गः शाङ्गलिङ्गार्चने रतः ॥१७॥
नन्दी स नन्दयन् लोकान् जगामादौ त्रिविष्टपम् ।महेन्द्रेण गणेन्द्रोपि पूजितो भोजितस्तदा ॥१८॥
दृष्ट्वा चानामयं शक्रं शिवपादाम्बुजार्चकम् । पप्रच्छ नन्दिकेशस्तं बृहस्पतिमते स्थितम् ॥१९॥
नन्दिकेशः -
त्रिविष्टपं सुखं प्रपय शिपिविष्टार्चने रतः । दुरदृष्टविनाशाय प्रकृष्टं शरणं गतः ॥२०॥
नन्दिकेशवचः श्रुत्वा महेन्द्रः प्राह साञ्जलिः ॥२१॥
शक्रः -
शङ्खासुरेण देवानां महद्भयमुपस्थितम् । नन्दिन् अप्सरसां पूर्वं रम्भासंभोगकामिनाम् ॥२२॥
चन्दनाङ्गेन च मया नन्दनादिसमावृतः । सुखतल्पगतश्चाहं मारसायकगोचरः ॥२३॥
नाभ्यर्च्यं भगवत्पदाम्बुजमहो पुण्यप्रदोषेष्वहं
लिङ्गं पुण्यपवित्रशितलमहाकर्पूरनीरैस्तदा ।
प्राज्यैर्मंध्वाज्यदुग्धैर्वरदधिसितया चन्दनाद्यैश्च हृद्यैः
नैवेद्यैर्बहुबिल्वपल्लवसुमैस्तेनेदृशी दुर्गतिः ॥२४॥
संप्राप्तोऽस्मि सुरासुरैश्च विहिते नैवाभवन्मे जयो युद्धे शौण्डसुदृप्तशङ्खसचिवैः सन्ताडितो मद्गरैः ।
देवैर्वाहनभूषणादिरहितैर्नष्टं सदा विष्टपं कष्टं प्राप्तमहो गणेन्द्र भगवत्पादार्चनाहीनतः ॥२५॥
दुःखमिन्द्रस्य तत् श्रुत्वा नन्दिकेशोऽमराधिपम् । प्राह तं विनयोपेतं प्रदोषार्चनवैभवम् ॥२६॥
नन्दिकेशः -
दारिद्र्यार्णवमध्यगस्त्वनुदिनं पुण्यप्रदोषे शिवं संपूज्यामलबिल्वपल्लवलवैर्नीरैः फलैर्वा हरे ।
संप्राप्य प्रमथाधिनाथपदवीं भूमौ परं जायते दृप्तोतुङ्गतुरङ्गदन्तिनिवहैर्भूमण्डलेशो नृपः ॥२७॥
अतः परं भूतिविभूषणस्त्वं लिङ्गं समभ्यर्च्य सुरैः समेतः ।
पुण्यप्रदोषेषु जयाय वज्रिन् प्राप्नोषि भाग्यान्यमितानि तानि ॥२८॥
इत्युक्त्वा नन्दिकेशस्तमनुज्ञाप्य गणैर्वृतः । विमानेनार्कवर्णेन ब्रह्मधाम समाययौ ॥२९॥
ब्रह्मणा पूजितस्तत्र निषण्णः परमासने । उवाच देवं ब्रह्माणं नन्दिकेशो गणाग्रणीः ॥३०॥
नन्दिकेशः -
पद्मासन कथं चित्तमधुना भवतः सदा । देवानां कार्यसिद्ध्यर्थं स्मारितः शङ्करेण हि ॥३१॥
विष्णुरोजिष्णुरत्यर्थं तस्माद्गच्छामि वेगतः । दीनोऽसि नितरां ब्रह्मन् सृष्टिव्यापारवर्जितः ॥३२॥
सदस्यैश्चापि खिन्नैश्च यथापूर्वं न ते सभा । इति पृष्टो गणेशेन उवाच चतुराननः ॥३३॥
ब्रह्मा -
पूर्वं तपस्यया लब्धा मया वेदाः प्रसादतः । महादेवस्य वैं नन्दिन् पूर्वमीशानवक्त्रतः ॥३४॥
यो वेदादिः स्वरः शंभुः वेदान्तमहिमा शिवः ।
मान्द्यान्मदाच्च तत्पूजा मया त्यक्ता दुरात्मना ॥३५॥
शङ्खासुरेण मे वेदा हृता नष्टा स्मृतिस्तदा ।
इतिकर्तव्यतामूढश्चिन्तया संस्थितोऽस्म्यहम् ॥३६॥
शाङ्गाङ्गसङ्गतश्चाद्य शैलादे मेऽभवनमतिः । महादेवमहालिङ्गपूजाध्यानार्चनादिषु ॥३७॥
विस्मयं परमं गत्वा श्रुत्वा च ब्रह्मणो वचः । उवाच पद्मजं नन्दी ससदस्यं प्रहृष्टवत् ॥३८॥
नन्दिकेशः -
भवान् लोकनियन्ता हि कथं त्वां मोह आविशत ।
महान्तोऽपि विमुह्यन्ति कालकालकृपोज्झिताः ॥३९॥
धन्यानां परमिन्दुचूडचरणांभोजार्चने जायते श्रीरुद्राक्षविभूषणे सितलसद्भस्मत्रिपुण्ट्रे सदा ।
रुद्रावर्तनपञ्चपातकहरे पञ्चाक्षरे मुक्तिदे सायं बिल्वदलैश्च पूजनमतिः पुण्यैः परं जायते ॥४०॥
यो वा प्रदोषसमये शिवलिङ्गपूजां कर्तुं यतेत विभविरभिइषेचनीयैः ।
तं तावदन्तकरिपुं प्रमथाधिनाथं देवाः स्तुवन्ति प्रणमन्ति तदङ्घ्रियुग्मम् ॥४१॥
न जानन्ति गौरीसहायोरुगायं महायोगसंसिद्धकायं सखायम् ।
कर्पूरखण्डसमताकृतिशोभिकायं वन्दे महेश्वरमहं तमुमासहायम् ॥४२॥
ब्रह्माणं समनुज्ञाप्य ययौ श्रीनन्दिकेश्वरः । ततो गणेश्वरैर्युक्तो वैकुण्ठं भवनं ययौ ॥४३॥
विष्वक्सेनादिभिस्तत्र वैष्णवैंः शोभितैर्गणैः । स तैर्निवेदितो विष्णुः सार्घ्यहस्तस्तदुन्मुखः ॥४४॥
समाययु बहिर्द्रष्टुं नन्दीश्वरमुखान् गणान् । ददर्श च विमानाग्रे स्थितं नन्दीश्वरं गणैः ॥४५॥
शैलादिं तमुदाराङ्गं द्वितीयमिव शङ्करम् ॥
विजितविपिनवातपोतपूतान् गगनाभोगविचारचारुसिद्धान् ।
भवदरुणनखप्रभाभिदीप्तान् शिवभक्तान् ददृशे स वासुदेवः ॥४६॥
प्रणम्य कुशलप्रश्नैः पूजयामास नन्दिनम् । भोजयामास शुद्धान्नैः महेश्वरनिवेदितैः ॥४७॥
समभ्यर्च्य महालिङ्गं इन्द्रनीलमयं हरिः । बिल्वपत्रैर्धूपदीपैर्नन्दिकेशेन संयुताः ॥४८॥
गणाश्चक्रुर्लिङ्गपूजां स्वेषु लिङ्गेषु सत्तमाः । बुभुजुस्ते परं हृष्टाः विष्णुना गणपास्तदा ॥४९॥
सोत्साहं नन्दिनं विष्णुः सोपचारमथाब्रवीत् । गन्धधूपादिभिः पुष्पैर्वस्त्रैराभरणैस्तदा ॥५०॥
विष्णुः -
भवद्भद्रसन्दर्शनं जातमद्य फलं प्रपतमक्ष्णोर्महाघप्रणाशः ।
महाशैवसङ्गैन शङ्गः प्रसन्नो भवत्येव मह्यं नमस्ते गणेश ॥५१॥
किमानगमकृत्यं ते नन्दिकेशाशु संवद । भवदागमने हेतुस्तत्तुष्ट्यै कारणं भवेत् ॥५२॥
अनङ्गरिपुअरत्यर्थं मयि तुष्टो न संशयः । तत्कृपापात्रभूतस्य मम श्रीः सुयशापते ॥५३॥
मद्गृहे मङ्गलान्येव भवन्त्येव पदे पदे । चञ्चलापि सदा लक्ष्मीः स्थिरा मयि शिवार्चनात् ॥५४॥
नन्दिकेशस्तमाहेदं श्रुत्वा तद्वैष्णवं वचः ।
नन्दिकेशः -
रमापते महेशस्य कृपा पूर्णा त्वयि स्थिरा । शिवाज्ञापालकोऽसि त्वं यतः शिवपदाश्रयः ॥५५॥
शिवलिङ्गार्चनपरो भस्मरुद्राक्षमण्डितः । रुद्राक्षधारकोऽसि त्वं पञ्चाक्षरपरायणः ॥५६॥
नीलतोयदमध्यस्थविद्युल्लेखेव भासुरा । त्रिपुण्ट्ररेखा देहे ते भाति पापविनाशिनी ॥५७॥
त्वयि प्रीतो महादेवो जगतां पालने रत । देवानां कार्यसिद्ध्यर्थं आजुहावामरोत्तमः ॥५८॥
निर्याहि देवदेवेशं दुष्टुं तं शशिशेखरम् । शैलादिनो वचः श्रुत्वा समारुह्य खगाधिपम् ॥५९॥
नन्दिना स जगामाथ द्रष्टुं देवं पिनाकिनम् । अवतीर्य खगाद्विष्णुर्विमानाच्च गणेश्वरः ॥६०॥
स्नात्वाऽथ नर्मदातोये भस्मरुद्राक्षभूषणाः । दृष्ट्वोंकारमहालिङ्ग्मष्टाङ्गस्पृष्टभूतलाः ॥६१॥
प्रणेमुः प्रमथाधीशं तुष्टुवुश्च मुहुस्तदा ॥६२॥
गणेश्वराः -
मयस्कर महेश्वर प्रबलपापतापं हर गदादर गिरीन्द्रजाकुचगिरौ विहारादर ।
गदाधरमुखामरप्रवरधीरवीरेश्वर प्रसीद परमेश्वर जनिजरादिमृत्युं हर ॥६३॥
समागतोऽयं विश्वेश विष्णुर्विश्वैकपालकः । देवानां कार्यसिद्ध्यर्थमाज्ञापय महेश्वर ॥६४॥
नन्दिकेशगणानां च श्रुत्वा वाक्यं महेश्वरः । सुधार्द्रकरुणादृष्ट्या फालाक्षो विष्णुमैक्षत ॥६५॥
तदाऽनङ्गहरापाङ्गसङ्गानन्दाङ्गसङ्गकः । तुष्टाव प्रणतः शम्भुमोङ्कारेशं महेश्वरम् ॥६६॥
विष्णुः -
अपर्णानाथं त्वां शरणद सुराणामभयदं सुपर्णाधीशाद्यैः सुरगणगणेन्द्रैर्नतपदम् ।
गरं गीर्णं कण्ठे भवहर महत्यर्णवगतं परं शम्भो तूर्णं भवभयहराभ्यर्णगतिकम् ॥६७॥
मारमार सुकुमार पितस्त्वं वारयाशु भवजालकपाशम् ।
पाहि पाहि परमेश ममाघं नाशयाशु दुरदृष्टकष्टजम् ॥६८॥
नन्दिविष्णुप्रभृतिभिः संस्तुतः परमेश्वरः । प्राह प्रगल्भया वाचा तं मुरारिं पुरौघभित् ॥६९॥
ईश्वरः -
शङ्खाद्या दितिजा विष्णो हृत्वा वेदगणान् सुरान् । बाधन्ते सततं दैत्या अर्णवान्तर्जलेशयाः ॥७०॥
मत्तेजसा पूरितस्त्वं याहि युद्धाय वै हरे । जयस्ते भविता नूनं मयि वेदानधाः पुx ॥७१॥
मात्स्यं कृत्वा महदूपमर्णवान्तर्जलेशयः । दशवर्णसहस्त्राणि शतयोजनमुन्नतः ॥७२॥
भविष्ये चाक्षुषे विष्णो मनौ कालान्तरे पुनः । हिरण्याक्षो हि भविता स एव कशिपुः पुनः ॥७३॥
भविता दितिजेन्द्राद्यः शक्रं वा च्यावयिष्यति । स्थानात् सुरगणैः सार्धं तस्य युद्धं भविष्यति ॥७४॥
भूत्वा यज्ञवराहस्त्वं हिरण्याक्षं हनिष्यसि । हिरण्यकशिपुं चापि मृगेन्द्रार्धशरीरभाक् ॥७५॥
भूत्वा खरोग्रनखरैर्नखैस्तं दारयिष्यसि । दितिजाङ्गमहासङ्गविसंज्ञस्त्वं भविष्यसि ॥७६॥
तद्रक्तपानमत्तस्त्वं जगत् संशोषयिष्यसि । तदा हरे जगद्रक्षाशिक्षार्थं त्वां सुरोत्तम ॥७७॥
मत्स्यवाराहसिंहार्धशरीरं संहाराम्यहम् । त्वद्दंष्ट्रां धारयिष्यामि सिंहचर्माम्बरं पुनः ॥७८॥
शारभं रूपमास्थाय तवोन्मादनिवृत्तये । मत्पादपूजकेनाद्य भृगुणा शापितो ह्यसि ॥७९॥
तत्पत्नीनाशदुःखेन तस्यान्तस्ते भविष्यति । इत्थं शम्भोर्वचः श्रुत्वा विष्णुर्नत्वा महेश्वरम् ॥८०॥
जगामार्णवमुद्दिश्य देवसङ्घैरभिष्टुतः ॥८१॥
अर्णवगतदैत्यजातभीत्या फलपर्णाशनिनोऽभवन् सुधान्धसः ।
उत्कृष्टार्तिहरं भजन्ति तूर्णं तमपर्णापतिमेकमीशमाद्यम् ॥८२॥
मात्स्यं कृत्वा महारूपं स्फुलिङ्गोत्तमलोचनः । दशयोजनमौन्नत्यं शतयोजनमायतम् ॥८३॥
दंष्ट्राकरालपुच्छाग्रविघट्टितमागिरिम् । तरङ्गोत्थमहावातघोरारावकृतार्णवम् ॥८४॥
फेनडिण्डिमसंराजत्तरङ्गास्फालघट्टितम् । तेनासुरेण महता तथान्यैर्दानवोत्तमैः ॥८५॥
दशवर्षसहस्राणि युद्धमुत्तममातनोत् । वक्रपुच्छाग्रनिर्घातैः दंष्ट्राघातैस्तदासुरान् ॥८६॥
हत्वा शङ्खं महादैत्यं देवसङ्घैरभिष्टुतः । जगामादाय तान् वेदान् शिवतेजोपबृंहितः ॥८७॥
तच्छरीरं महामात्स्यं कैरातवपुषा हरः । विसंज्ञं पातयामास तद्गर्वविनिवृत्तये ॥८८॥
मत्स्याघातमभूत् तीर्थं पश्चिमाम्भोधिमध्यगम् । तत्र स्नात्वाऽथ सन्तर्प्य पितॄन् पूयेत मानवः ॥८९॥
ददौ वेदान् महेशाय वेदवेद्याय वै हरिः । प्रणम्य देवं देवेशं जगाम स्वं निकेतनम् ॥९०॥
ओङ्कारेश्वरलिङ्गमध्यविलसद्वेदांस्तदा ते सुरा दृष्ट्वा चोंकृतिमात्ररूपमनिशं सर्वे तदा विस्मिताः ।
स्तुत्वा स्तव्यमपारवेदशिखरैरुद्बुद्धवोधप्रदं तं सांबं म्हुहुराद्यहृद्यवचसा धम स्वकं ते ययुः ॥९१॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ओङ्कारेश्वरमाहात्म्यवर्णनं नाम अष्टमोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 07, 2017
TOP