संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
एकोनविंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - एकोनविंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
अस्त्येकं क्षेत्रमबले घुसृणीश्वरसंज्ञकम् । ज्योतिर्लिङ्गं महादेवि श्रृणु तन्महिमां पुनः ॥१॥
हृतरत्नाः पुरा सर्वे क्षीरसागरपूर्वकाह । समुद्रास्तेषु संभूय तपोऽतप्यन्त दारुणम् ॥२॥
परिम्लानमुखाः सर्वे वेलाकल्लोलवर्जिताः । हृतमण्डं यथा भाति दधिभाण्डं सुराधिपे ॥३॥
निस्सारभूता निःसाराः सागरा मामुपाययुः । भस्मनोद्धूल्य सर्वाङ्गं रुद्राक्षवरकङ्कणाः ॥४॥
जपन्तः शतरुद्रीयं पञ्चाक्षरपरायणाः । लिङ्गपूजापरा नित्यं घुसृणीशार्चने रताः ॥५॥
बिल्वपत्रैश्च कमलैः रक्तनीलोत्पलैरपि । ततः कालान्तरे देवस्तेषां प्रादुरभूत् पुरः ॥६॥
दृष्ट्वा शिवं तुष्टुवस्ते समुद्रा मां तदाम्बिके । पुण्यमार्यं पुरारातिमरातिं मन्मथस्य च ॥७॥
अन्तकस्य च देवेशं महेशं वृषभध्वजम् । अन्तकान्तकमाशास्यं त्रियम्बकमुप्रासखम् ॥८॥
प्रणमामो महादेवमुदाराङ्गं कपर्दिनम् ॥९॥
महादाराद्रत्नहारोरुकण्ठं भुसुण्ठीकराब्जं गरानीलकण्ठम् ।
गृणद्रुद्रजाप्याघहारं हरन्तं महाकामठत्वक्(?) परीतं लुठन्तः ।
सदा नो भवाब्धौ परित्राहि शम्भो ॥१०॥
तवाङ्घ्रिद्वन्द्रार्च्याविधिनियतभारात्मकतया सदा नेदिशुश्चेत् त्वयि च सहितो जापनपरः ।
स एवानुग्राह्यस्तव हि सततं हृद्यतम इत्यहो भावो भावैर्भवहर भवाब्धिं स तरते ॥११॥
तव गुणगणगणना वा केन कार्या महेश श्रुतिशिखरनिविष्टः शान्तचित्तैकगम्यः ।
भुवनभवनमध्ये कश्चिदस्त्येव शम्भो तव पदकमलोत्थामोदसंमोदितात्मा ॥१२॥
अस्मिन् महर्त्यर्णवगस्त्वमीशो विश्वेश आशास्य इति प्रतीतः ।
निषङ्गभूतान् भयतश्च सागरान् अस्मानथो पाहि महेश दिष्ट्या ॥१३॥
इति सागरवाक्यानि श्रुत्वाऽहं गिरिजे तदा । तेषां प्रसन्नो ह्यभवं तांस्तदा पूरयामि वै ॥१४॥
रत्नैरनर्घ्यैः शतशस्तिमिङ्गिलगणैस्तदा । पुरान्धकासुरं हत्वा तद्रक्ताक्तं करे मम ॥१५॥
न धार्यमिति देवेशि भूमौ शूलं महत्तरम् । तदा त्यक्तं मया देवि घुसुणीश्वरसन्निधौ ॥१६॥
शूलपातमभून्नाम्ना तत्तीर्थं सुमनोहरम् । तत् सागरजलैः पूर्ण्म शूलपातं महत्सरः ॥१७॥
वसन्ति शैवा नियतं शूलपातसरस्तटे । पञ्वाग्निनिरताश्चान्ये वायुभक्षास्तथापरे ॥१८॥
अश्मकुट्टा महादेवि दन्तोलूखलिनस्तथा । सर्वे मल्लिङ्गपूजाभिः नयन्त्यायुर्मुनीश्वराः ॥१९॥
भस्माभ्यक्ताः सदा गौरि शिवनामजपादराः । तत्र तान् सततं दृष्ट्वा निलिंपा भयकम्पिताः ॥२०॥
इन्द्रोपेन्द्रा वचयित्वा विष्णोर्देवपदेषु च । तेषां वाञ्छा नैव गौरि मत्पादार्चापरायणाः ॥२१॥
तृणाय ते महेशानि विष्ण्वादीनां पदं शुभम् । मत्पादभाव सकला भावानां भूतयः सदा ॥२२॥
पदे पदे भविष्यन्ति भावुकानि न संशयः । भवानि नियतं सत्यं मम भक्तस्य केवलम् ॥२३॥
मद्भक्तवर्यैर्व्यत्यस्ता लोकाः सर्वे चतुर्दश । अगस्त्येनापि भक्तेन सागराश्चुलकीकृताः ॥२४॥
वीरभद्रगणेनापि ब्रह्मविष्ण्वादयः सुराः । दक्षयज्ञे तदा गौरि शिक्षिताश्चापि खण्डिताः ॥२५॥
एतादृशानां भक्तानां सुरेषु गणनाऽपि न । किं चतुर्दहलोकोत्थश्रिया तेषां भविष्यति ॥२६॥
आपातमधुरा सा श्रीः संयोगा हि वियोगजाः । धनधान्यानि सर्वाणि रत्नानि विविधं वसु ॥२७॥
नश्वराण्यतिदुःखानि भयमूलानि शङ्करि । मम भक्तिः सदा गौरि अनश्वरसुखं धनम् ॥२८॥
मुक्तये मम भक्तिश्च बन्धाय नरकाय च । धनं तद्भौतिकं गौरि सर्वापन्निलयं सदा ॥२९॥
आनन्दकन्दं मद्भक्तिर्मोक्षदा कामदा ध्रुवम् । तया भक्त्या विराजन्ते चन्द्ररेखेव शारदी ॥३०॥
मद्भक्ता नियताः सर्वे वसन्ति शिवपूजकाः । तृणीकृतेन्द्रचन्द्रानां तेषां स्वर्गस्तु तुच्छकः ॥३१॥
अच्छानां च निरिच्छानां मच्छासनयतात्मनाम् । आनन्दनन्दितस्वान्त आनन्दघनपूजया ॥३२॥
ते वै शिवरसास्वादनन्दिताखिलवृत्तयः । घुसृणीशपदद्वन्द्वपूजाक्षपितकल्मषाः ॥३३॥
वसन्ति सततं शैवाः तस्मिन् क्षेत्रे गिरीन्द्रजे ॥३४॥
पार्वती -
कुत्र क्षेत्रमिदं शम्भो त्रिनेत्रप्रियकारकम् । तत्क्षेत्रमहिमापारकथाश्रवणलालसम् ॥३५॥
मम चित्तमभूद् देव दयया तद्वदस्व माम् । शिवो गौरीवचः श्रुत्वा तत् क्षेत्रं प्राह शङ्करः ॥३६॥
ईश्वरः -
भीमरथ्या उदग्भागे त्रिंशत् क्रोशोपरि स्थितम् । शूलपातं स्थितं तीर्थं तत्रास्त्येव शिवालयः ॥३७॥
शूलपातसरस्तीरे तताप परमं तपः । उद्दालको मुनिएर्नाम्ना ज्ञानार्थं शङ्करस्तदा ॥३८॥
समभ्यर्च्य महादेवं बिल्वपत्रैर्महेश्वरम् । घुसृणीशं महादेवं मां तुष्टाव तदाम्बिके ॥३९॥
उद्दालकः -
घुसृणीश महेश शङ्कर प्रणतामरभूरुह प्रसीद ।
दुरितापह पादपद्ममाद्यं घुसृणारुणमानतोऽस्मि नित्यम् ॥४०॥
[ अरुणारुणवह्निसोमनेत्रं करुणाशालि सुधायुताद्यपाङ्गम् ।
द्युमणिप्रभचारुदेहकान्तिं घुसृणीशं नु नतोऽस्मि देवराजम् ॥४१॥
वरुणाद्यमरार्चिताङ्घ्रियुग्मं वरुणालयदैत्यपूज्यपादम् ।
भगणाधिपशोभितोरुमौलिं घुसृणीशं नु नतोऽस्मि दुःखनाशम् ॥४२॥
करुणाकर देव दीनबन्धो सरणिं देहि विमुक्तिमार्गहेतौ ।
करणं विनिवेशयाशु ते पदाब्जे घुसृणीशान नतोऽस्मि भक्तियुक्तः ॥४३॥
मरणावसरे न कोपि शम्भो विनिवारक इत्यवैमि बुद्ध्या ।
शरणं चरणं शिव त्वदीयं घुसृणीशान नतोऽस्मि दुःखनाशम् ॥४४॥
उत्फालकटजेनैवं मुनिनोद्दालकेन च । संस्तुतः परमेशानस्तस्य दृष्टिपथं गतः ॥४५॥
प्रणतोत्थापितो दोर्भ्यां पादयोः पतितो मुनिः । वरेण छन्दितश्चापि स उवाच कृताञ्जलिः ॥४६॥
उद्दालकः -
ज्ञातुमिच्छामि ते ज्ञानं वेदवेद्यमहेश्वर । न ज्ञानेन विना मुक्तिरिति वेदा वदन्ति हि ॥४७॥
उद्दालकस्य वचसा तत्स्तुत्याहं तु तोषितः । तमवोचं तदा देवि प्राञ्जलिं पुरतः स्थितम् ॥४८॥
वत्सोद्दालक ते स्तुत्या भक्त्या चानन्यया तव । तद्ज्ञानं दातुमिच्छामि किञ्चैकं वच्मि तच्छृणु ॥४९॥
न विरक्तस्य संसारादुक्तं तद्ज्ञानमुत्तमम् । नो बोध्यं च भवेदेवाविरक्तस्य च संसृतौ ॥५०॥
प्रसरत्यखिलं ज्ञानं निम्नमापो यथा मुने । नाविरतो दुश्चरितादित्याह श्रुतिरादरात् ॥५१॥
तस्माद्भवविरक्त्यर्थं भवदुःखानि मे श्रृणु । गर्भान्तावधिदुःखानां शतानि मुनिपुङ्गव ॥५२॥
इत्थं संबोधितोद्दालः प्रहेति स शिवोऽवदत् । तदेतद् श्रृणु देवेशि सावधानमनाः सुखम् ॥५३॥
ईश्वरः -
श्रृणूद्दालक दुःखानि संसारस्य विशेषतः । मामप्रपय नरो बाढं दुःखान्यत्यन्तमश्नुते ॥५४॥
गर्भपेशीं गतो जन्तुर्मां सदा स्तौतिं मोचकम् । तद्दुःखानि श्रृणुष्वार्ये वैराग्यार्थं शिवे सदा ॥५५॥
हाहा गर्भविवासदुःखमधुना वक्तुं न वै तत् क्षमं
कः सोढा नरकानि दुःखशतकं भोक्तुं कथं कालतः ।
कुम्भीपाकासिपत्नैः पटुतरगदया ताडनैस्तप्तमार्गैः
सन्तप्तभ्राष्ट्टजालैर्मलसलिलवसापूयकण्ठोत्थकीटैः ॥५६॥
वस्तुं नेच्छामि गर्भे मलजलकलिलापारदुर्गन्धिपूरे
मातुः कुक्ष्युद्भवास्तिक्रकचकिणतनुः कीटदंष्ट्रादिदष्टः ।
अन्तर्जान्वर्धमस्तं कटूविदहिरसैर्मातृभुक्त्या विदग्धं
रक्ताक्लिन्नान्त्रबद्धं शिव शिव शिव मां मोचयाद्याशु शंभो ॥५७॥
पयोधरपयःशतैर्निभृतपीतकुक्षिह्रदो महेशि विविधान्नकैः समभिपूर्यमाणोदरः ।
अधोमुखविलम्बितो हृदयकोशपेशीगतः कदा खलु भवत्पदं शिव भजामि योन्युज्झितः ॥५८॥
इत्थं गर्भशतेषु मातृजनितापारव्यथाताडितो
वातोत्थाखिलवेगपीडिततनुर्योनुन्मुखान्निःसूतः ।
ज्ञानं तन्निखिलं जहाति शिशुराजातः स्तनं तत् पिबन्
दुर्गन्धादिमलाविलाखिलतनुः क्लान्तोऽधिखट्वाशयः ॥५९॥
क्षुत्कालं न च वेत्ति रौति विवशः शीतादितापासहः
स्वाद्वन्नं मुहुरीक्षते दृढतरं नाश्नाति कैमारके ।
पित्राद्यैर्गुरुभिश्च सोऽक्षरविधौ सन्ताडितो भीतिभाक्
रोगाद्यैस्तदपायकारिभिषजैः कट्वम्लकाषायभुक् ॥६०॥
मारोन्मादशरैर्विदारिततनुः कान्तामुखं वीक्षते सोत्साहं शरदिन्दुकुन्दरदनावक्त्रं जगत् पश्यति ।
तत्प्राप्त्त्यर्थमुदारहारवलयान् वासांसि धान्यं धनं चौर्येणापि समार्जयत्यतितरां स्रग्गंधतांबूलकम् ॥६१॥
निष्टप्तामलहेमकुम्भविलसक्तान्ताकुचालिङ्गनैः पीनश्रोणिकटीतटान्तरदलैर्दत्तेक्षणः कामुकः ।
रंभास्तम्भनिभोगकलनैः संसारवार्तारसैः पापैर्धन्यधनार्ज्नादिविवशः कालं नयत्यादरात् ॥६२॥
यातायातशतैर्धनार्जनपरो न क्कापि विन्देत् सुखं
राज्ञां द्वारि सदा निविष्टहृदयो द्वार्स्थान् सदा पश्यति ।
का वेला हि सदाद्य को ह्यवसरो मां ज्ञापयेत्येव तान्
तत्कोपारुणलोचनैः प्रतिपदं खिद्दन्ति हृष्यन्ति च ॥६३॥
हृष्टो राजा धनाढ्यो द्रविणगणचयं प्राह्य तस्मात् कृतार्थं
लब्ध्वा तद्धनधान्यकं जनिजरारोगोत्थभैषज्यकैः ।
चोरैर्वा कृषितो विनश्यति धनं पापादिपुण्यैः परं
विष्टब्धः सुतदारपीडिततनुर्दादिद्र्यपङ्काप्लुतः ॥६४॥
वेदानुच्चैरधीते मृततिथिविधिभुक् पात्रता (?) पूर्तयेऽसौ
याज्यान् याजयति प्रकृष्टवचसा बोधं वचन् द्रव्यभाक् ।
केचिन्मान्त्रिकयान्त्रिका ग्रहगतिमतयो गीतवाद्यैः कथाभिः
रोगार्तान् भिशजो धनादिभिरहो पूजाभिरत्यादरा -
देतत्तद्धनहारणेषु चतुरान् पश्यन्त्यहो सर्वदा ॥६५॥
किं दारैस्तनयैः सुखेषु सर्वदैर्दुःखेषु निन्दारतैः
किं आ बन्धुगणैः कृतप्रतिकृतैरामन्वणाधित्सुकै ।
किं वा विप्रगणातिथेयनिरतैः पात्रैः समस्तैः सदा
भृत्यैर्वैभवकामुकैर्नं तु शिवे न क्कापि तुष्टो जनैः ॥६६॥
शस्त्रास्त्रैर्ज्वलिता मृदिष्ठकलहा भृत्यास्तथा ये नरा नानाकार्यशतेषु सक्तमतयो दारासुतार्थाप्तये ।
लोकः शोकविदग्धकष्टहृदयः पश्याधुना शैलजे विष्टबधजठरादिपूर्तिविवशं दुःखोत्थसौख्येक्षणम् ॥६७॥
अन्ये क्षुत्क्षामदग्धा रविकरनिकरैः शीतवातादिवर्षैः
पङ्कैः क्लिष्टोरुकाष्ठैस्तृणभरभरणैः कष्टतः प्लुष्टगात्राः ।
केचिद्वै धनिनां गृहेषु सुभृता भृत्यास्तथा शिक्षिता -
स्तत्कोपप्रभवप्रसादमुखरास्तत्कार्यलोलाः सदा ॥६८॥
नानाकर्मविचित्रचित्रगतिभिः पश्याधुना शैलजे
भाग्यं भोक्तुमनीश्वरा गदशतैर्भोक्ता न चान्नं लभेत् ।
पुत्रादिश्च सदैव तस्य तनयानन्दाद्विहीनो धनी
पाण्डित्ये च दरिद्रता विधिवशान्मूढो न मोक्षार्थभाक् ॥६९॥
दाता वाऽथ च याचको धनपरस्वेषं जगच्चाद्रिजे
वेदज्ञाश्च बहुश्रुताश्च सततं तद्द्वारि तिष्ठन्त्यहो ।
पुण्येच्छोर्न भवेद्धनं धनयुते पात्रार्षणे नो मनः
रूपिण्यां च न सन्ततिश्च गिरिजे रूपाद्विहीने प्रजाः ॥७०॥
षण्डे दारशतं सुयौवनजने नास्त्येव दारस्मृतिः
एवं दुःखशहस्रकं भवशेते नास्त्येव सौख्यैकभाक् ।
पुत्रोऽनल्पपरिश्रमैर्विधिवशाज्जाते स दारावृतो
वृद्धां स्वां जननीं तथैव पितर सद्मागतान् भर्त्ययेत् ॥७१॥
भार्याश्चापि पतिं त्यजन्ति विवशा दारिद्र्यकामाशयाः
कश्चित्सर्वजनानुरक्तहृदयः पुत्रो भवेच्छांभवि ।
राजा चेत् सकलाप्तकार्यकरणो भृत्यैः सदा जीवति
पातुं चात्तुमहो महेशि सततं स्वप्नं न चैव प्रभुः ॥७२॥
राज्याङ्गानि सदैव कष्टहृदयो वीक्षन् सुदुःखोरुभाक्
र्राजास्मीति मदान्धलोलनयनः सौख्यभ्रमं याति हि ॥७३॥
सत्क्षत्रियश्चापि रणे त्यजत्यसून् स्वपुत्रदारानिव भुक्तिसिद्धयै ।
मृतो हि कः केन सुखेन जन्तुः लभेत सौख्यं सहि मूढवत्तरः ॥७४॥
वैश्यो‍ऽपि गोरक्षणपण्यविक्रये लाभादिलाभे च धनेषु वृद्धिभाक् ।
न्यासक्षये वृद्धिविपर्यये वा परार्ध्यकाले न हिं तस्य सौख्यम् ॥७५॥
रत्नानां च परिक्रये पटगणे धान्ये धने वा शिवे
नित्यं स्यात् कलहानुरक्तहृदयो राज्ञा सदा भर्त्सितः ॥७६॥
चातुर्वर्णाश्रमेपि फलजनितमहाकामपाशैश्च पुण्यं
सेवन्ते वै यमितकरणा दुःखरूपक्रियाभिः ।
प्रायश्चित्तभयं सदा द्विजगणे पातित्यमप्यन्ततः
शूद्रः सर्वजनार्चनादिविवशो न क्कापि सौख्यं जने ॥७७॥
यद्यङ्गनाजन्म समाप्नुयादुमे सापन्त्यवैधव्यमथाप्रजत्वम् ।
दारिद्र्यपीडा पतिकोपताडनं गर्भे प्रसूतो तदपारदुःखम् ॥७८॥
वियोगसंयोगमृतानुगम्यता पाकक्रियाश्चाथ बहुप्रजातता ।
कन्याप्रसूतिः शिशुरोगवीक्षणं न क्कापि सौख्यं श्रृणु देवि सर्वथा ॥७९॥
चराचरशरीरिणां रविकरैश्च वातादिभिः कुठारकृतवृक्णतो विपिनशीतदावादिभिः ।
वियोगबधबन्धनैर्मृगखगादिजन्मस्वपि सदा हि सुखमल्पकं न भवतीति मन्ये शिवे ॥८०॥
खरसृणिमुखघातैर्भिन्न कुम्भा गजेन्द्राः सरणिगतिरुतज्ञा नित्यमालानसंस्थाः ॥८१॥
तुरगनिवहदुःख सादिपादैः कशाग्रैः खरतरखलिनास्यैर्धर्मचर्मार्द्ररक्तैः ।
विविधगति विधिज्ञा नित्यशो हिण्डति स्म ॥८२॥
शकटहलमुखोत्थैर्धुर्ययुक्ताः सुगोणी भखरपरिखिद्यत्स्कन्धपृष्टास्थिसंघाः ।
मुखविवृति विनिर्यत्स्थूलदन्तोरुजिह्वा वृषखरमहिषोष्ट्रा भिन्ननारोरुसूत्राः ॥८३॥
उरगखगपिकाद्या भिन्नदंष्ट्रा रुतज्ञाः कपिवृषनकुलाद्या मत्स्यगोधादयश्च ।
परभृतबलिभोज्याः कूर्मचाषा मयूराः वनहरिणशशाद्या भेकभलूककोलाः ॥८४॥
मनुजकठिनहस्तैस्ताडिता नित्यभीताः निहितसुखमुखास्ते नित्यदुःखामितप्ताः ॥८५॥
वर्णी स्वर्णानुरक्तो भवजनितकथासारधारानुरक्तो
भिक्षुर्भक्ष्येषु सक्तो विपिनभुवि गतो ग्रामतर्षोत्थहर्षः ।
स्वख्यातिख्यापनार्थं मखमुखविधये दीक्षितो मन्त्रहीनः
कालो बालाबलासु प्रचरति तरुणे वृद्धरुग्णान् विहाय ॥८६॥
धनिनां न सुखायते धनं तनयैर्बान्धवदारचोरराज्ञा ।
न सुखाय भवेज्जनस्य तत् सततं भीतिकरं हि याचकेभ्यः ॥८७॥
पशुकनकधनाङ्गनाभिरेतज्जगतो जालमुमे निबद्धतृष्णम् ।
न सुखाय भवे हि कस्यचिन्मम भक्तः शममाप्नुयात् सुखाय ॥८८॥
दुःखेन धान्यधनतां समवाप्य मन्दो दारासुताप्तनिजबन्धुजनं च हित्वा ।
मर्त्यस्य मृत्युभवने सुखदोऽस्ति कश्चित् तस्याधिकं धनमुमे परकीयभोगः ॥८९॥
न शिवालयकल्पनेन वा सततं शाम्भवहस्तदानतो वा ।
मखजातविधिप्रचारतो वा न हि तस्यास्ति रुचिर्मुदा भवानि ॥९०॥
दुरदृष्टवशान्निकुष्टभावः सततं कष्टजभोगसक्तितुष्टः ।
कचकुचजघनेषु दत्तदृष्टिः वनिताया वनतोरुमूलभागे ॥९१॥
भार्यापुत्रसुबन्धुमित्रजवियोगार्तो रुदन्नस्तधी -
र्दौर्भाग्यं मम दैवतैश्च कृतमित्युत्कृष्टकर्मा शपन् ।
हा कष्टं मम जीवितेन करुणाविष्टः सदा याचते
लोको मुह्यति शङ्कराद्यशरणो वृद्धः सदा कष्टभाक् ॥९२॥
दृष्टिर्नश्यति काशपुष्पसमितैः केशैः प्रकम्पाङ्गको लालाजालविदूषितोरुवदनो जिह्वाचलद्दन्तकः ।
रोगैःपित्तकफानिलोत्थितमहाहिक्कादिसंघूर्णवाक् तल्पेऽनल्पविचारयुक्तहृदयो मृत्योर्मुखं गच्छति ॥९३॥
न मे पुत्रः पौत्रो गृहमपि च जीर्णं च धनकं
कृपिर्नष्टा वृष्ट्या धनमपि च वृत्तं न च पुनः ।
स वै दातुं शक्तो मम तु गृहिणी बालतनया
तथेयं गौश्चापि प्रतिपदघटोघ्नी न तृणकैः
मया पुष्टा रुष्टो मयि तरणिपुत्रोऽथ हि कथम् ॥९४॥
शयानं तल्पे तं विविधभवविन्ताधिविवशं मुहुः पुत्रान् दारान् तरलनयनापाङ्गजजलैः ।
स्खलल्लालाहिक्काध्वनिघुरघुरोत्कण्ठजरवैः चलच्छवासैर्बन्धून् न हि खलु विजानाति विवशः ॥९५॥
मुहुः कर्णे पृष्टेऽप्यमितरुदिताक्रन्दनरवैरहो जानासानं जनमिति मुहुर्बन्धुनिवहैः ।
शिवे गाढं विद्धो व्रणसुषिततुद्यत्खरमुखैः मुहुः सूचीजालैः शतगुणितदुःखं स लभते ॥९६॥
यावन्न वाङ्मनसि संक्रमते मुमूर्पोस्तावत् सदारतनयान् सहि वेत्ति देवि ।
प्राणी मनस्यस्तमिते च तेजस्यन्धा न जानाति स वै कुतस्ते ॥९७॥
अन्नप्राणमनादिकोशनिवहैर्विज्ञानकोशात्मकैर्भूतैः पञ्च विलोलितेन्द्रियगणैर्व्यापारहीनैः शिवे ।
बद्धीत्तुङ्गतरङ्गवल्गितमहीपृष्ठोत्थशंकूनिभैः प्राणेर्मर्मविघट्टनोत्थितरुजो देहात् स निष्क्रामति ॥९८॥
देहेऽहंमाननोत्थैः प्रतिभवसुकृतैः पापजालैरनेकै -
र्विद्याकर्मनिबद्धपूर्विकतनुं प्रज्ञाजनः सज्जति ।
यात्यन्यं कुणपं तृणाग्रगतितः कीटा यथान्यं त्यजेत्
तद्वद्देहशतानि संक्रमति वै सूक्ष्मेन्द्रियैदेहिकैः ॥९९॥
करालदंष्ट्रैर्विकटोरुदण्डकशादिपातैर्यमदूतपाशैः ।
पापान्वितो याति यमस्य सद्म प्रकृष्टदुःखानि सदैव भुङ्क्ते ॥१००॥
विमानवर्येण मनोहरेण संपूजितो वीजितचामरौघः ।
संपूजितो याति सुरेन्द्रसद्म स्वर्गेष्टभोगानि सुखानि भुङ्क्ते ॥१०१॥
तत्कर्णकटिभागगतं हिरण्यं वासो हरन्ति मृतपा इव बान्धवास्ते ।
तं निर्हरन्ति च गृहात् पितृकाननाय दुःखानुयानमबलाजनबालसङ्घैः ॥१०२॥
हाहा भ्रातः पितस्त्वं जनमिममधुना क्काद्य त्यक्त्वा गतोसि
बन्धो मित्र क्क मित्र सत्तम इति क्रन्दन्ति तद्बान्धवाः ।
चिताशतविदीपितं नरकपालदग्धास्थिकं
श्मशानभसितोत्थितश्वगणकाकगृध्रारवम् ॥१०३॥
अहो प्रियतमेरितः कुलकराब्जमित्रेत्ययं जनोत्थरुदितार्भटीघटकपालदग्धोल्मुकम् ।
विदग्धकुणपं तदा महदपारकाष्ठोत्थितैर्ज्वलच्छिखिशिखरगणैर्हरितपीतधूमारुणैः ॥१०४॥
वसाविदहचीत्कृतैर्मुहुरनीक्षणैर्बान्धवैः स एव किल गच्छति न च सन्दृश्यते भस्ममाक् ॥१०५॥
न रुद्राक्षमालाभिरेतस्य देहं न भस्मै (?) र्विलिम्पन्ति मूढास्तदीयाः ।
न शर्वार्पितं बिल्वपत्रं तदीयं शिखायां निबघ्नन्ति दुःखैकलोलाः ॥१०६॥
न चेशान शम्भो शिवेशेति कर्णे जपन्तो मुखे वा न दास्यन्ति तीर्थम् ॥१०७॥
प्रायश्चित्तशताद्विनैव पवयेद्गोदानभूदानकं
सत्यं मृत्युमुखे स्थितस्य हि शिवे मन्नाम चैकं परम् ।
मुक्तिं तद्वितनोति पापमखिलं तन्नाशयेत् सर्वथा
भस्माभ्यक्ततनुस्त्रिपुण्ट्रनिटिलो रुद्राक्षमालाधरः ॥१०८॥
प्राप्नोत्येव मदीयलोकमधुना पापन्वितोऽपि प्रिये
यातायातभवोत्थिताखिलगतिर्मुक्तस्य नोत्पद्यते ।
तस्य प्राणमनुक्रमत्यतितराहंमानवर्गोज्झितः
कर्मण्याश्च महेश्वरेश्वरि तथैवोपासकानां गणाः ॥१०९॥
पुण्यैस्त्रिविष्टपगतोऽपि सदैव पापाद्भीतः सदा सुकृतनाशनजातखेदः ।
पापादवश्यं नरकं विचित्रं समाप्नुयात् कर्मफलेन देही ॥११०॥
तिर्यक्स्थावरमानुषेषु बहुधा भ्रान्तस्य विप्रत्वता
तत्रापि श्रुतिवाक्यदर्शनगतं ज्ञानं परं जायते ।
भक्तिं चापि लभेत् स वै मम चिरात् पुण्यैरगण्यैः शिवे
तस्माद् ज्ञानमवाप्य मय्यनुगतो मुक्तो न संसारभाक् ॥१११॥
न कोपि सुभगै शिवै कुमुदनाथचूडार्चने निशासु सितभस्मधृक् कमलपुष्पबिल्वादिभिः ।
समुद्यतमनाः सदा विविधकष्टपुष्टं भवं प्रकृष्टतरमश्नुते मयि निविष्टभावो न तु ॥११२॥
शरन्निशि निशाकरस्फुटकरोरुदिग्वक्त्रके विंधूततमसां गणे विधृतचन्द्रमौलिं शिवम् ।
समर्चयति पुण्यभाक् जनिजरादिहीनो भवेत् न कालवरदण्डना भवति तस्य सत्यं शिवे ॥११३॥
मयोक्तं जगत्कष्टमेतद्विनष्टं भवत्येव मद्भक्तिनिष्ठो यदि स्यात् ।
वरिष्ठो विशिष्टः कृपापात्रमिष्ट भवेत् सोऽपि लिङ्गार्चनातुष्टचित्तः ॥११४॥
सुतुङ्गैरभङ्गैर्महाकर्मवन्धेर्विमुक्तो भवत्येव तुष्ट्या ममैव ।
जनः कोऽपि जानन् महाबाणलिङ्गे समभ्यर्च्य बिल्वैः विमुक्तिं प्रयाति ॥११५॥
मद्भक्तिवैराग्ययुतस्य सौख्यं संस्नाप्य लिङ्गार्चनभस्मधारिणः ।
सदा विरक्तस्य शिवैकयोगो भवेत् सदा गौरि सुदुर्लभः स हि ॥११६॥
गर्भे पैतृकशुक्लतोत्थतनुभाक् दुःखी सदा पूरुषो
देहान्तावधि तद्विनाशनपरं भक्त्यैव गम्यं हि मम ।
प्रपयानन्दमयो भवत्यनुदिनं विज्ञानमासाद्य मे
नित्यो जन्मजराविनाशरहितो मुक्तो भवत्यम्बिके ॥११७॥
सूतः -
( इति ) पशुपतिवचनान्मुनिः प्रहृष्टः प्रणनामाथ महेश्वरस्य पादौ ।
भवभक्त्या विशदीकृतान्तरात्मा समुपोद्यत्फुलको बभाण देवम् ॥११८॥
शम्भो त्वदीयकृपया जगतोऽद्य दुःखं सम्यक् श्रुतं मम विरागदबुद्धिबोधम् ।
मायामयेन गुणपाशशतेन बद्धं मायी भवान् प्रणमतां विनिवारकोऽसि ॥११९॥
ईश्वरः -
गोकर्णमागच्छ कृताप्तदारः पुत्रानथोत्पाद्य सुकन्यकाश्च ।
आधाय चाग्नीन् मुखभागक्लृप्तान् देवान् समभ्यर्च्य विमुक्तितर्षः ॥१२०॥
नैष्कर्म्यमासाद्य मयि प्ररूढं दृश्यं जगत् पश्यासि मय्यथोत्थितम् ।
तथेति मत्वा भगवन्तमादरान्मुनिर्ययौ देवि तदा मुदाऽऽश्रमम् ॥१२१॥
मया यथोक्तं हि तथा चकार गोकर्णमासाद्य स वै मुनीन्द्रः ।
मया महादेवि तवैतदाद्यं प्रज्ञानमुत्कृष्टतया हि दत्तम् ॥१२२॥
तेनैव नष्टाखिलसंशयास्ते मुक्तिं गता मय्यथ भक्तियोगात् ॥१२३॥
सूतः -
शूलपातसरस्तीरे घुसृणेशं महेश्वरम् । दृष्ट्वा नत्वा च तल्लिङ्गं मुच्यते भवबन्धनात् ॥१२४॥
चन्द्रोपेन्द्रादिविबुधैर्मुनिभिः पूजितः सदा । प्रातः सङ्गवमध्याह्ने दृष्ट्वा तु घुसृणीश्वरम् ॥१२५॥
महाघसंघैर्मुक्तिश्च भक्तिं मयि लभेत सः । इत्येतद्देवि ते प्रोक्तं घुसृणीश्वरवैभवम् ॥१२६॥
श्रृण्वन् पठन् वा मनुजो मम भक्तिरतो भवेत् । तत्र मां सम्यगाराध्य वसन्ति शिवतत्पराः ॥१२७॥
तेषां मद्ज्ञानमखिलं दातुमिच्छाऽस्ति मे शिवे । ज्ञानं तल्लभते गौरि घुसृणीश्वरपूजनात् ॥१२८॥
एकेन जन्मना मुक्तिर्भवेदज्ञाननाशिनी ॥१२९॥
ईश्वरः -
चक्षुःश्रोत्रविभूषणोत्तमकथापीयूषपानादरा हारा भस्मकृतत्रिपुण्ट्रनिटिला रुद्राक्षमालाधराः ।
रुद्राध्यायजपादराः शिवमनुव्याहारमात्रादरा मालूरप्रभवारुणोत्तमदलैर्लिङ्गार्चनात्यादराः ॥१३०॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे घुसृणेश्वरमाहात्म्य उद्दालकं प्रति संसारक्लेशवर्णनं नाम एकोनविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP