भर्गाख्यः पञ्चमांशः - तृतीयोऽध्यायः
श्रीशिवरहस्यम्
शौनकः -
किमाह शैवस्तं विप्रं महादेवपरायणः । स विप्रः कथमत्युग्रः सदा याचकशेखरः ॥१॥
शैववर्यवचोधाटीघोटीपुच्छानुगैकधीः । स तस्य महिला बाला कुटिलस्येव जिह्मधीः ॥२॥
तया सह ततः कामं किं चकार वदाशु नः । शौनकोक्तं वचः श्रुत्वा सूतः सानन्दलोचनः ॥३॥
हर्षवर्षार्द्रचित्तः सन् महाशीर्षं विधूनयन् । जगादागाधवाक्यानि शङ्करोक्तानि तान्यपि ॥४॥
पावनानि महादेवयि पृच्छन्त्यै तत्कथार्णवम् ॥
सूतः -
श्रृणु शौनक भूयोऽपि भक्तकल्पतरोर्यशः । विश्वाधिकस्य देवस्य महादेवस्य सादरम् ॥५॥
यज्जगादारविन्दाक्षयि कौमुदीपतिशेखरः । कथासुधां प्रवक्ष्यामि निबोधत मुनीश्वराः ॥६॥
देवी -
भगवन् भूतभव्येश भवोद्भव जगत्प्रभो । कथार्णववचोभङ्गीतरङ्गै रञ्जयाशु मे ॥७॥
तदा देव्या वचः श्रुत्वा जगादात्मा महेश्वरः । समाश्लिष्य महादेवीं बभाण गणनायकः ॥८॥
ईश्वरः -
तदा शैवोदितां वाणीं सन्तुष्टमानसः । स तु शैवपदद्वन्द्वं प्रणनाम मुदा द्विजः ॥९॥
तमुत्थाप्य प्रहृष्टात्मा शैववर्यो मुदा द्विजम् । क्षिप्रं क्षिप्रानदीतोयैः तं विप्रं स्नापयत् तदा ॥१०॥
अग्निरित्यादिभिर्मन्त्रैः कृतोद्धूलनपुण्ट्रकः । रुद्राक्षमालाभरणं कण्ठकर्णगलादिषु ॥११॥
विल्वमूलेऽथ तं विप्रं स विप्रः शैवसत्तमः । ददौ स शाम्भवीं विद्यां पञ्चाक्षरमनोहराम् ॥१२॥
अष्टैश्वर्यप्रदात्रीं तां निहन्त्रीं निखिलापदाम् । शिवविद्याप्रभावेन तद्देहाद्धूम उद्बभौ ॥१३॥
तद्धूमधाम्ना त्रिदशा नितान्तं तान्तलोचनाः । इतिकर्तव्यतां त्यक्त्वा समीक्षन्ते परस्परम् ॥१४॥
देवाः -
किमद्य धूमजो राशिर्जगदद्य समावृणोत् । इत्येवं संशयाविष्टान् सुरान्नारद आगतः ॥१५॥
नारदः -
शिवविद्याप्रभावेन शैवदत्तेन भूसुरः । भासुरं देहमासाद्य मोदते पश्यताधुना ॥१६॥
तद्देहात् पापजो राशिर्विदग्धस्तेन संबभौ । अपारधूमप्रबलज्वालामालायितं नभः ॥१७॥
तद्दर्शनार्थं त्रिदशा नारदेन समागताः । अभिनन्द्याथ तान् सर्वान् स शैवो द्रष्टुमागतान् ॥१८॥
ब्रह्मादित्रिदशान् सर्वान् तान् विप्रो वक्तुमैच्छत । दृष्ट्वा देवं महाकालं प्रणम्य विनयान्वितः ॥१९॥
शैवः -
वक्ष्ये हितं श्रृणुष्वाद्य तवाघौघविनाशनम् । ब्राह्मणस्य च यत्कृत्यं तत्रापि श्रृणु विस्तरात् ॥२०॥
आचारो ब्राह्मणानां हि परमो धर्म उच्यते । स्नात्वा क्षिप्रानदीतोये सभार्यस्त्वं द्विजोत्तम ॥२१॥
धृतत्रिपुण्ड्ररुद्राक्षः पूर्वां सन्ध्यामुपास्य च । सन्तर्प्य पितृदेवर्षीन् जपन् पञ्चाक्षरं मनुम् ॥२२॥
अष्टोत्तरसहस्रं तु नित्यं रुद्राक्षमालया । रुद्राक्षमालया जप्तो जपोऽनन्तफलप्रदः ॥२३॥
बाणलिङ्गं बिल्वमूले स्थापयित्वा समर्चय । रुद्रावर्तनशीलस्त्वं भव नित्यं यतव्रतः ॥२४॥
बिल्वपत्रैर्महादेवं समर्चय दिने दिने । त्वमस्यै देहि तन्मन्त्रं शिवशब्दोर्ध्वगं स्त्रिये ॥२५॥
सभर्तृका भर्तृमुखान्मन्त्रं प्रपय शिवार्चनम् । कुर्यान्नान्यत्र तस्यैवं बिल्वैर्मल्लिङ्गपूजनम् ॥२६॥
प्रदोषे शङ्करस्यार्चा ब्राह्मणे विहितो विधिः । सोमवारेषु सर्वेषु विधिः शङ्करपूजनम् ॥२७॥
अष्टम्यां च चतुर्दश्यां विधिः शङ्करपूजनम् । बिल्वपत्रैस्तदा विप्र नक्ताशी नियमेन हि ॥२८॥
शिवे निवेद्य भुञ्जीतेत्येवं जाबालिकी श्रुतिः । महाकालं महादेवं नत्वा नित्यं शतोत्तरम् ॥२९॥
प्रदक्षिणप्रणामांश्च सदारः कुरु सादरम् । पञ्चाक्षरं च नियतं जप देवस्य सन्निधौ ॥३०॥
रुद्रेण स्तुहि देवेशं स्तोत्रैः पौराणिकैरपि । गायत्रीं च जप प्रीत्या भर्गशब्दैकभासुराम् ॥३१॥
संसारभञ्जको भर्गो द्विज तस्याधिदैवतम् । तदावृत्त्या निवृत्तिर्हि शिवस्तुष्यति सत्तम ॥३२॥
गौतमात्रिभरद्वाजा भृगुवासिष्ठकाश्यपाः । गायत्रीजपतः सर्वे परां सिद्धिमुपागताः ॥३३॥
श्रृणु त्वं विबुधैः सार्धमगजापतिभक्तिदम् । श्रृण्वतां पापशमनं हरिभक्तिविवर्धनम् ॥३४॥
जैगीपव्येन संपृष्टनन्दिप्रोक्तमिदं शुभम् । इतिहासं महासारं पशुपाशविमोचकम् ॥३५॥
शिवप्रीतिकरं पुण्यं पञ्चपातकनाशनम् । कैलासशिखरद्वारि स्थितं तं सुयशापतिम् ॥३६॥
त्रिपुण्ट्रचन्द्रार्धधरं स्वर्णवेत्रलसत्करम् । गोपवृन्दैः परिवृतं नानामुनिगणैर्वृतम् ॥३७॥
काञ्चने विष्टरे पुण्ये संस्थितं गनपोत्तमम् । जैगीषव्यः समागम्य दृष्ट्वा नत्वा च शङ्करम् ॥३८॥
नन्दिनं शाङ्करान् धर्मानपृच्छच्छिवभाषितान् ॥३९॥
जैगीषव्यः -
नन्दिकेश्वर सर्वज्ञ देवदेव कृपास्यद । शिवधर्ममहारत्नखनिस्त्वं प्रमथाधिप ॥४०॥
शिवपादाम्बुजद्वन्द्वभक्तियुक्तेष्टमानस । शिवप्रभावधर्मान् मे कौतुकाद्वक्तुमर्हसि ॥४१॥
महेश्वरदयासारसर्वस्वं त्वं गणेश्वर ॥
नन्दिकेशः -
जैगीषव्य महाभाग शिवभक्तिकथां सुधाम् । पिब त्वं श्रोत्रपुटकैः पुनरावृत्तिवर्जिताम् ॥४२॥
पात्रभूतस्त्वमेवेह मुनिष्वेतेषु सत्तमxx गोप्यमेतन्महागुह्यं देव्यै देवेन भाषितम् ॥४३॥
नाख्येयं च त्वया ब्रह्मन् यस्य कस्यचिदुत्तमम् । महादेवी महादेवमपृच्छत् कौतुकान्विता ॥४४॥
देवी -
किं ते प्रियकरं शम्भो रहस्य तद्वदस्व मे । इति पृष्टो महादेवो जगाद जगदम्बिकाम् ॥४५॥
ईश्वरः -
श्रृणु त्वममरेशानि रहस्यं मम शङ्करि । धर्मपञ्च्कमित्याहुः पञ्चपातकनाशनम् ॥४६॥
श्रृणुष्वावहिता भूत्वा जगतां पापनुत्तये ॥४७॥
पचेलिमतपःफलैरमितजन्मसङ्घार्जितैः भवे भसितधारणे मतिरुदेति विश्वाधिके ।
त्रिपुण्ड्ररचनाक्रमः करगलादिफाले तथा उरोदरशिरःथले भवति भाग्यपूर्णे जने ॥४८॥
रुद्राक्षेति वदन् स्पृशन्नपि नरो जन्तुः स गोदानभाक्
धृत्वा तच्छतकं महेन्द्रसदनं प्राप्येन्द्रसालोक्यगः ।
तत्साहस्रधरोपि तत्र दशकं तस्मादनन्ताक्षधृक् -
ब्राह्मं वैष्णवमैश्वरं पदसुखं प्राप्येश्वरे लीयते ॥४९॥
पञ्चपातकविनाशनं परं पञ्चकोशविनिवारणं सदा ।
पञ्चवक्त्रकृपया शुभप्रदं पञ्चमन्त्रपरमं तथाक्षरम् ॥५०॥
कुम्भसंभवमुखैर्मुनीश्वरैर्जम्भमारकमुखैरमरेन्द्रैः ।
कुम्भवक्त्रमुखरैर्गणेश्वरैर्दम्मनाशनकरं परं मनुम् ॥५१॥
जप्तमाप्तफलदं शुभाप्तये सप्तमन्त्रकृतधूलनादरैः ।
उप्तमुक्तिफलदं भवभूम्यां वीजमेकमनिशं शिवभक्तैः ॥५२॥
श्रीरुद्रं यजुषां गणेषु विहितं जप्त्वा परं प्रीतिमान्
मुक्तः पातकसङ्घतो गिरिवराज्जाते स पुण्यैकभाक् ।
तन्नम्नां फलवादसूक्तिपरमैर्मन्त्रं जपन्मुक्तिभा -
ग्भस्माभ्यक्ततनुस्तथा च शयितो यो भस्मनिष्ठो भवेत् ॥५३॥
यो रुद्राक्षविभूतिभूषणयुतो जप्त्वा प्रियो जायते
यः पुण्ड्रान्तरधारिणे मतिरुमे नैवाप्नुयात् तत्फलम् ।
जप्त्वापि श्रुतिशेखरोत्तमपदान् ज्ञात्वापि तस्यार्थकं
लिङ्गेषु प्रथितं सदापचितिजं पुण्यं न हि प्राप्नुयात् ॥५४॥
पुन्नागनागवकुलार्जुनचम्पकैश्च मन्दारपाटलकदग्बकवर्णिकारैः ।
जम्ब्वाम्रदाडिमसुगन्धिशमीशमीकलोध्रुद्भवैश्च बकुलैः करवीरपुष्पैः ॥५५॥
पद्मार्कैः कनकैस्तथा दमनकैर्बन्धूककोकैर्बकैः कुन्दैर्जातिकुसुम्भसंभवसुमैः सन्मल्लिकासंभवैः ।
अङ्कोलैर्गिरिमल्लिकादिकुसुमैः सप्तारिजातादिभिः नन्द्यावर्तमरुत्वकैश्च तुलसीसद्द्रोण दूर्वाङ्करैः ॥५६॥
विष्णुक्रान्त कुशापमार्गजलदैः काशैस्तथैवार्जुनैः । कापित्थैरघहारिपत्रकबरैर्यः पञ्चवक्त्रार्चनम् ।
पञ्चब्रह्मनमांसि यस्य वदने सद्यः स मुक्तो भवेत् ॥५७॥
सहस्रनीलोत्पलमालया शिवं समुल्लसच्चरुशशाङ्कमौलिम् ।
मुदा मुकुन्दाजविमृग्यमौलिपादाम्बुजं पूजयिता स धन्यः ॥५८॥
यो बिल्वोत्तममालयाऽनुदिवसं मन्दारमालादिभि -
र्लिङ्गं मङ्गलमेतदद्य सुमनःसौरभ्यगन्धायितम् ।
पश्यन् नश्वरपातकोत्थशमनाद् व्याघातभीतिं हरे -
न्निर्गुण्डीशुकपत्रबिल्वज्दलैः सद्भावलिङ्गोद्भवैः ॥५९॥
वसन्तनवमल्लिकाकुसुमदिव्यमालादिभिः दिनान्तसमयोल्लसन्मधुरगन्धजाजीसरैः ।
महेशजनिमार्चनं (?) प्रकुरुते प्रदोषेतु यः स चादिभिषगुत्तमप्रिय अघौघतूलानलः ॥६०॥
ब्रह्मा शैलभवं हरिन्मणिभवं विष्णुर्निशानायको
मुक्ताजालमयं प्रवालजमुमा ताम्रोद्भवं भानुमान् ।
हैरण्यं धनदस्तथैव वरुणः श्रीचन्द्रकान्तोद्भवं
वह्निश्चान्नमयं सुपित्तलभवं वायुश्च नीलं हरिः ॥६१॥
अन्ये सर्वमरुद्गणाश्च दितिजा गन्धर्वविद्याधरा
यक्षा राक्षसकिन्नरोगगणा रुद्रा मुनीनां गणाः ।
चित्रं चारु महेशलिङ्गममलं संपूजयन्त्यादरा -
द्बिल्वीकोमलपल्लवैर्दिविषदो मन्दारमालादिभिः ॥६२॥
उत्फुल्लरक्तकमलैरमलैः कदम्बैर्नीलोत्पलैर्विकसितैः कुमुदैश्च नित्यम् ॥६३॥
मालूरप्रभवैर्नवारुणदलैर्दूर्वाङुकुरैः शङ्करं लिङ्गेऽभ्यर्च्य भवेदनेकविभवैर्युक्तस्तथा मुक्तिभाक् ।
सायं कुन्दमरन्दबन्धुरलसद्गन्धौघगन्धीकृतैर्दिग्वतैर्विपिनप्रफुल्लसुमनोधूलिप्रभाभासुरैः ॥६४॥
शर्वाणीरमणार्चनैः कृतमतिर्मन्दारमालादिभिः
भस्माभ्यक्ततनुर्भवेत् स सुभगो भावोऽपि कश्चित् कलौ ॥६५॥
प्राज्यैर्मध्वाज्यदुग्धप्रभवदधिघटैर्नारिकेलेक्षुसारैः रंभाजम्बीरचूतप्रभवफलरसैः पानसोद्धूतकोशैः ।
श्रीखण्डद्रवसारसागरमहाकर्पूरखण्डद्रवैः पाटीरैर्मृगनाभिजातसुरसैः सच्छर्करापूरकैः ॥६६॥
आसिच्यालिम्प्य गन्धैर्मृदुतरवसनावेष्टनैर्वेष्टयित्वा
नेपथ्यैर्मणिकल्पितैः सुमनसां भारैश्च बिल्वीदलैः ।
अभ्यर्च्याभूष्य धूमैरगरुपरिमलामोदितैर्दीपजालैः
नैवेद्यैर्बहुभक्षभोज्यसहितैस्ताम्बूलनीराजनैः ॥६७॥
कुन्देन्दुप्रतिमानचारणगणैः छत्रैश्च मुक्ताफलोद्दामस्वर्णपरिष्कृतैर्व्यजनजामोदोत्थवार्पणैः ।
आदर्शैरतिनिर्मलैर्म्रुदुलकैः सद्वाद्यभेदोत्थितध्वानैः प्रक्रमसंस्तवप्रणमनैर्नृत्यैश्च गेयैरपि ॥६८॥
लिङ्गं मङ्गलमङ्गलापतिमहासान्निध्यहेतुस्थले
वारं वारमघौघनाशनकरं पुण्ये प्रदोषेऽपि च ।
संपूज्यालोक्य पुण्यैर्जनिशवतिततैः किं वदामीशतुल्यः
स्कन्दो नन्दिश्च भृङ्गिर्गिरिशकरुणया धन्यधन्य़ः स एव ॥६९॥
नन्दिकेशः -
एवमाह महादेवो गिरिजां प्रति शङ्करः । रहस्यमेतद्गोप्यं ते जैगीषव्य श्रृणुष्व मे ॥७०॥
दुर्गन्धापारपूरप्रबलखरखुराघातभिन्नाग्रदन्ताः
तत्सङ्गोत्कण्ठिनो ये नरजठरखरा घोरसंसारभाराः ।
तेषां का वा भवित्री गतिरिति कलये नाथ चन्द्रार्धचूड
स्वामिन्नीशान भक्तिं वितर पुरहरानाथनाथ प्रसीद ॥७१॥
परदारविचारसादराः सुरताचारकथाविधानधीराः ।
उन्मत्तमारशरकृत्तमहोरसो ये नाराधयन्ति गिरिशं महिते प्रदोषे ॥७२॥
महापत्तरङ्गानुषङ्गाभिसङ्गः पिशङ्गीकृताशाङ्गसार्द्राङ्गचित्ताः ।
न शाङ्गं भजन्त्येव दुष्टाभिषङ्गान्न गङ्गाम्भसा प्लावयिष्यन्ति गात्रम् ॥७३॥
सततं विनिविष्टमन्तिके भगवन्तं शिपिविष्टमष्टमूर्तिम् ।
दुरदृष्टशतैर्विमुह्य दुष्टा न भजन्त्येव महेश्वरं करण्टाः ॥७४॥
दुरदृष्टदशाकशाभिघातैः कुशकाशैरपि नार्चयन्ति शम्भुम् ।
अनिशं निविशन्तमन्तरङ्गे शमिताशेषदुरन्तदुःखजालम् ॥७५॥
अगजापतिपादपूजने मतिरल्पेर्न भवेत धर्मजालैः ।
अर्च्यं प्रार्च्यत भक्तियुक्तमनसा यूयं सुबुद्धौ रताः (?) ॥७६॥
सूतः -
इत्युक्तो नन्दिकेशेन जैगीषव्यो महामुनिः । नन्दिकेशं समालिङ्ग्य प्रेमाश्रुपुलकोऽवदत् ॥७७॥
जैगीषव्यः -
अहो महादेवकथाविधानसुधारसास्वादनलोलचित्तैः ।
सहास्तु मे नित्यमभीष्टसङ्गः कान्तेव रत्यर्थविशारदेन ॥७८॥
तेन छिनद्मीश्वर घोरदावप्रभाकराकारभवैकबन्धम् ॥७९॥
इत्युक्त्वा स जगामाथ कैलासं मुनिपुङ्गवः । प्रणम्य च महादेवं जैगीषव्यस्तदाऽब्रवीत् ॥८०॥
जैगीषव्यः -
स्वामिन् महेश करुणावरुणालयाद्य त्वत्पादपद्ममकरन्दमधुव्रतत्वम् ।
संप्रार्थयामि नितरां तरुणेन्दुमौले संसारघोरदवदग्धसमग्रकायः ॥८१॥
इत्थं स्तुत्वा महादेवं शङ्कराग्रे स्थितोऽभवत् ॥८२॥
शैवः -
एतत्ते सर्वमाख्यातं संवादं द्विजसत्तम । यः श्रृणोति सकृद्भक्त्या भवे भक्तिविवर्धनम् ॥८३॥
त्वदर्थं कथितं विप्र सर्वपापप्रणाशनम् ।
अस्माकं दुरदृष्टकोटिघटितापारांहसो नाशकं लिङ्गं दृष्टपारबिल्वजदलैः संपूजितं मस्तके ।
क्षिप्रातुङ्गुतरङ्गशीकरलवैः संप्रोक्षितं वीजितं वातैः केतकपद्मगन्धजरजोगुम्भीकृतैः शीतलैः ॥८४॥
सूतः -
शैववर्यवचः श्रुत्वा सभार्यः स द्विजस्तदा । सङ्कंपिताङ्गहृदयो भवभक्तिपरोऽभवत् ॥८५॥
प्रणम्य तं महाशैवं महाकालं महेश्वरम् । भृसुरस्तान् सुरांश्चापि नारदं ज्वलितौजसम् ॥८६॥
एतावत्कालपर्यन्तं मत्कृत्यं श्रूयतां द्विज । इति प्राहाश्रुनयनः सदारश्च द्विजाधमः ॥८७॥
ब्राह्मणः -
जाबालश्रुतिमस्तकेषु निरतो धर्मो न संसेवितो
मन्त्रैः सप्तभिरेव धूलनविधिर्नाकर्णितो नो कृतः ।
रुद्राक्षैर्न विभूषिता तनुरियं नाभ्यर्चितः शङ्करो
हाहा नो जनिरेव गर्भकुहरे व्यर्थीकृता मेऽधुना ॥८८॥
क्क बिल्वदलपूजने मतिरुदेति भाग्योदयैः शतश्रुतिशिरोगतैर्नमकसूक्तपाठक्रमैः ।
शिवाङ्गणपरिभ्रमैः सितविभूतिधूलादरैः सुशांतभववरैर्वृत गिरिशमन्दिरं तत्र हि ॥८९॥
शङ्कातङ्कदुरन्तदुष्कृतमहाप्राकारवज्रायितां
श्रीविश्वाधिक वेदवेद्य भवतः कारुण्यपाथोझरी ।
दूरीकृत्य मलं समस्तजगतां सन्तापवृन्दं सदा
दीने मय्यपि चातकप्रतिनिभे संशुष्ककण्ठास्यके
मेघस्त्वं भगवन् दयार्द्र करुणादृष्ट्याऽभिवर्षस्व माम् ॥९०॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे शैवदरिद्रब्राह्मण संवादवर्णनं नाम तृतीयोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 07, 2017
TOP