संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
द्वादशोऽध्यायः

भर्गाख्यः पञ्चमांशः - द्वादशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
अथान्यदपि वक्ष्यामि पितुस्ते चरितं शिवे । स्वमौलौ वासयन् मां हि त्वद्वियोगभयादुमे ॥१॥
सूतः -
देवदेववचः श्रुत्वा हृष्टा पर्वतन्दिनी । प्राह प्रणम्य विश्वेशं स्वपितुश्चरितं द्विजाः ॥२॥
देवी -
कथं मम पिता श्रुत्वा तु मद्वियोगभयाच्छिव । स्वकीयशिखरे शम्भोऽवासयत् तां कथां वद ॥३॥
शूली शैलेन्द्रजावाक्यं श्रुत्वा तुष्टोऽब्रवीत् तदा ।
ईश्वरः -
वक्ष्याम्यगसुते तेऽद्य पितुश्चरितमुत्तमम् । सावधानमना देवि श्रृणु सर्वाङ्गसुन्दरि ॥४॥
दक्षः प्रचेता देवेशि चाक्षुषस्यान्तरे मनोः । अयजद्धयमेघेन मां हित्वैव सुरोत्तमम् ॥५॥
ब्रह्मा ब्रह्माभवत् तस्य सदस्यो विष्णुरीश्वरि । अध्वर्युरत्रिरभवत् होता चैव कहोलकः ॥६॥
उद्गाता चाभवत् तस्य तण्डुर्नाम द्विजोत्तमः । अथान्य ऋषयोऽभूवन् याजका हि प्रजापतेः ॥७॥
नाजुहाव तदा देवि त्वां हि दाक्षायणीं तदा । कौतुकाविष्टहृदया पितुर्यज्ञदिष्टक्षया ॥८॥
गन्तुमैच्छः सुरान् दृष्ट्वा विमानगतिकांस्तदा । निवारितासि सुभगे मया चापि गणेश्वरैः ॥९॥
गतवत्यसि कल्याणि स्त्रीलौल्यात् तस्य तत्सदः ।
नैवापश्यत् तदा त्वां तु कुतः पूजा कुतो रतिः ॥१०॥
संक्रुद्धं पितरं ज्ञात्वा सान्त्वेन त्वमभाषथाः ॥११॥
सती -
सर्वे देवगणा दक्ष समाहूताः सदस्यथ । कथं नाहूतवान् शम्भुं मत्पतिं सदसस्पतिम् ॥१२॥
पितः सदो न ते शोभां वहते पतिहीनतः । किमन्यैः प्राकृतैर्देवैः पूजितौरध्वरे फलम् ॥१३॥
राजा यो अध्वरस्यास्य साक्षान्मेधपतिः शिवः । स्विष्टकृद्भाग एवायं तत्तथा कर्तुमर्हसि ॥१४॥
सूतः -
दक्षस्तदा सतीवाक्यं श्रुत्वा क्रोधसमन्वितः । उवाच भर्त्सयन् देवीं देवानां चैव पश्यताम् ॥१५॥
दक्षः -
किं मे रुद्रेण कर्तव्यं पत्या तेऽद्य सुमध्यमे । यज्ञोऽयं विष्णुरीड्योऽयं श्रुत्या चाप्यद्य पूज्यते ॥१६॥
इत्थं तदाऽखर्वगर्वसंबन्धीकृतमानसम् । उवाच क्रोधताम्राक्षी सती स्वपितरं क्रुधा ॥१७॥
सती -
नायं यज्ञोऽद्य भविता यज्ञेशेन विनाशितः । भविष्यत्यचिरादेव श्रृणु मद्वचनं पितः ॥१८॥
इत्युक्त्वा योगमास्थाय ददाहात्मतनुं सती । दग्धां सतीं तदा दृष्ट्वा हा हा हेत्यवदन् सुराः ॥१९॥
दधीचिः क्रोधताम्राक्षो दक्षं तं प्रत्यभाषत ।
दधीचिः -
दीक्षितोऽस्यश्वमेधाय कथं दीक्षापतिं शिवम् । विनिन्दस्यद्य मौर्खेण धिक् ते यज्ञं सभासदः ॥२०॥
पुरुषो वै महारुद्र इत्याह श्रुतिरादरात् । यागः स्विष्टकृदन्तो हि स कथं नैव पूज्यते ॥२१॥
सर्वं निवेद्य वै शम्भौ सुखी भव सबान्धवः ॥२२॥
सूतः -
दधीचिवाक्यात् संक्रुद्धो दक्षो विप्रमथाब्रवीत् ।
दक्षः -
नैवेद्यं यच्छिवे दत्तं न ग्राह्यमपवित्रितम् । विष्णुरेवात्र यज्ञेशः किं प्रलापेन भूसुर ॥२३॥
गच्छ गच्छ सदो हित्वा तुच्छवद्भाषसे कथम् । मुनिर्दक्षवचः श्रुत्वा क्रोधात् सर्वानुदैक्षत ॥२४॥
प्रोवाच दीक्षितं दक्षं विष्णुपक्षावलम्बिनम् ॥२५॥
दधाचिः -
गङ्गाऽनङ्गरिपोर्जटाविगलिता तन्मौलिपुष्पं शशी
केशास्तस्य वियत् ततो विगलिता वृष्टिर्जगज्जीवनी ।
रुद्रोऽग्निः श्रुत एव सर्वमशनं तज्जिह्वया पच्यते
तन्निर्माल्यजिहासुभिस्त्रिभुवने तैः केन वा जीव्यते ॥२६॥
शम्भुः शङ्कर इत्यपि श्रुतिशिरोघण्टादिघोषो महां -
स्तं त्यक्त्वा सुरगर्दभं जनिजराकामादिदोषास्पदम् ।
विष्णुं जिह्मधियं भजन्ति नृखरा मोहान्धचित्ताः सदा
संसारार्णवमज्जनैरनुदिनं दुःखाप्तये केवलम् ॥२७॥
श्रीमृत्युञ्जयपूजने मतिरुद्र्त्यस्माकमिष्टप्रदा
सा गृष्टिः सुखमोक्षदोहनपरा लिङ्गार्चकैः पालिता ।
तस्या वत्समहेशभावभटकं बध्वा मनो गोष्ठके
पीत्वा भक्तिपयः सुतुन्दिलमहागात्रा वसामो वयम् ॥२८॥
इत्युक्त्वा निर्गतो गौरि दधीचिः स्वाश्रमं तदा । दाक्षायणीं पुरा सा त्वं मेनकागर्भमाश्रिता ॥२९॥
तमुदन्तं तदा श्रुत्वा नारदादहमम्बिके । वीरभद्रं च कालीं च सृष्ट्वा तन्मुखधर्मणम् ॥३०॥
कृतवानस्मि देवेशि त्वद्वियोगाग्निपीडितः ।
देवान् विप्रांश्च दण्डैः पटुतरगदया भिन्नमस्तिष्कशीर्षान्
चक्रुश्चक्रारकृत्तांश्छरवरनिकरैः कार्मुकज्याविसृष्टैः ।
दक्षं दीक्षान्वितं च प्रकटवरतलैः पूषदन्ताग्रसन्धौ
दृप्तध्वांक्षादितुष्ट्यै भगनयनवरेऽपातयंस्ते गणेन्द्राः ॥३१॥
स्रवद्रुधिरगन्धिनो हरिविधीन्द्रमुख्यामराः विदुद्रुवुरथापरे प्रबलवीरभद्राहताः ।
करालकरवालकैः विकृतकालदंष्टादिभिः विदारितकराङ्गकाः शरणमीयुरीशं सुराः ॥३२॥
देवाः -
अखर्वगर्वोत्थितदक्षशिक्षाकरोग्ररुद्रोद्भववीरभद्र ।
प्रभग्नदेवद्विजकन्धरापह सुधाकरापारसुधाप्तये सुरैः ॥३३॥
विमथ्यमानाब्दिसमुत्थितोरुगरेण नीलीकृतकण्ठ पाहि नः ॥३४॥
उमामुखसमुल्लसत्स्फुरदपाङ्ग गङ्गाधर प्रसीद परमेश्वर प्रथितदक्षमन्यूत्थित ।
प्रचण्डतरमन्यवे प्रमथनाथ नः पालय क्रतूद्भवफलाधिकं भवतु वाञ्छितं त्वत्पदोः
प्रपन्नजनकामदप्रवरदीक्षितोऽयं प्रभो ॥३५॥
इत्थं सुरवचो देवि श्रुत्वा यज्ञफलेन तम् । पूरयित्वा महादेवि तं दक्षं बस्तकन्धरम् ॥३६॥
अनुगृह्यामरेन्द्रांश्च वीरभद्रं निवार्य वै । तवाङ्गसङ्गविरहादसङ्गो विचराम्यहम् ॥३७॥
नद्यां सरस्सु विपिने पत्तने नगरे तथा । शैलेन्द्रशिखरे देवि शर्म न क्कचिदेव मे ॥३८॥
भूधरो हिमवानेष त्वत्पिता चारुकन्दरः । अस्मिन्नेव वसामीति मनो मेऽभवदुन्मुखम् ॥३९॥
तपस्तप्तं मया देवि वर्षाणामयुतं तदा । एतस्मिन्नन्तरे देवास्तारकासुरपीडिताः ॥४०॥
मदङ्गसङ्गसंभूतं तनयं तज्जये धृतम् । प्राप्तुं देवगणाः सर्वे मन्मथद्यैश्च संयुताः ॥४१॥
पितुर्नियोगान्मातुस्ते शुश्रूषन्त्या त्वया तदा । मां ते देवगणा देवि ऊर्ध्वरेतसमीश्वरम् ॥४२॥
प्रधर्षयन्ति मारेण दग्धो मारः क्षणान्मया ।
तदा मां त्वं भयात् त्यक्त्वा तप उग्रं समास्थितम् ॥४३॥
पितरं प्राप्तवत्येव पुनस्त्वं तपसि स्थिता । नारदोदितवाक्येन ब्रह्मणा च महीधरः ॥४४॥
सुरसंप्रार्थितश्चायं मह्यं त्वामददादुमे । त्वया सहाहं कल्याणि निवसामि नगोत्तमे ॥४५॥
तदा कालेन संजातः कुमारो मेऽमितप्रभः । षण्मुखः कृत्तिकासूनुराग्नेयोऽग्निसमानभाः ॥४६॥
देवाश्च ववृषुस्तस्य मूर्ध्नि पुष्पोत्करं शिवे । ननृतुच्छाप्सरस्सङ्घाः प्रावाद्यद्देवतूर्यकम् ॥४७॥
सैनापत्येऽभिषिक्तश्च देवैः सेन्द्रपितामहैः । विजिग्ये तारकं शूरं देवैस्तदनुयायिभिः ॥४८॥
तारकारिरिति ख्यातः पुत्रस्ते गिरिजेऽमले । एवं स्थिते तदा स्वैश्च गणेन्द्रै रजताचलम् ॥४९॥
मन्दरं सुन्दरं चारु कन्दरौघैर्विराजितम् । तस्मिन् मन्दारबृन्दाढ्ये मरन्दसुमसुन्दरे ॥५०॥
विहर्तुमिच्छा मे जाता त्वया साकं वरानने । गतेऽङ्गनागणैः सार्धं त्वया भूधरकन्यके ॥५१॥
त्वाद्वियोगभिया देवि दुःखेन च परिप्लुतः । स मां तुष्टाव हृष्टात्मा हिमवांश्चारुकन्दरः ॥५२॥
हिमवान् -
शम्भो विश्वेश भर्ग त्रिनयन् पुरहन् पाहि मामीश दृष्ट्या
ख्यतो वेदे गिरीशो गिरिश इति भवान् तत्कुरुष्वाद्य तथ्यम् ।
शम्भो देव्यानया ते सुरविनुत युतः स्नेहपाशैर्वियोगं
नो सह्यं मे महेश मम शिखरवरे संवसात्रैव शम्भो ॥५३॥
मदीयापराधानमोधाननन्तान न केनापि शक्यान् विनिवर्तितुं तु तान् ।
महादेव ते पादपद्मं प्रकृष्टं प्रपन्नः प्रपन्नः प्रपन्नः प्रपन्नः ॥५४॥
श्रीमद्विल्वमहीरुहौघचलनैर्वातादिभिः पावितं गात्रं मे‍ऽद्य पवित्रतामुपगतं पाहि त्रिनेत्राधुना ।
तन्मूलनीरप्लुतमस्तकं नेत्रे च तद्दर्शने (?) घ्राणं तत्सुमगन्धबन्धमधुरं मय्येव शम्भो वस ॥५५॥
एवं स्तुतो महादेवि त्वत्पित्राहं महात्मना । तत्तुङ्गपूतशिखरे निवासं समरोचयम् ॥५६॥
ब्रह्मविष्ण्वादिभिर्देवैः स्कन्देन गणपेन च । अन्यैर्गणवरैर्देवि त्वया शैलेन्द्रकन्यया ॥५७॥
समर्चितो वसाम्यत्र केदारेश्वरलिङ्गगः । अलिङ्गोऽपि महेशानि सर्वदा लिङ्गरूपधृक् ॥५८॥
केदारेश्वरनाम्नाहं ख्यातो भूधरगौरवात् । वसाम्यत्र महादेवि लिङ्गेऽस्मिन् पावने शुभे ॥५९॥
शनैः समर्चितो नित्यं बिल्वपत्रैः फलैरपि । त्वया सहाम्बिके नित्यं सर्वदा सर्वकामदः ॥६०॥
उदयमलयपारियात्रविन्ध्यैः गिरिवर एष मतोऽभिमानतस्ते ।
सुरवरकिन्नरदेवसङ्घनन्दिप्रमुखगणैः सततं निषेवितः ॥६१॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे हिमचलवासहेतुवर्णनं नाम द्वादशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 07, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP