वायवीयसंहिता पूर्वभागः - अध्यायः २
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सूत उवाच
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥१॥
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥१॥
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥२॥
मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥२॥
इदं परमिदं नेति विवादस्सुमहानभूत् ॥३॥
परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥३॥
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥४॥
यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥४॥
मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥५॥
सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥५॥
विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥६॥
निकुंजकंदरदरीगृहानिर्झरशोभिते ॥६॥
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥७॥
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥७॥
सुरसामलपानीयपूर्णरम्यसरोवरम् ॥८॥
मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥८॥
तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥९॥
दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥९॥
तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥१०॥
निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥१०॥
महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥११॥
महाभवनकोटीभिरनेकाभिरलंकृतम् ॥११॥
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥१२॥
तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥१२॥
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥१३॥
शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥१३॥
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥१४॥
दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥१४॥
दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥१५॥
सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥१५॥
सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥१६॥
भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥१६॥
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥१७॥
शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥१७॥
मुनय ऊचुः
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥१८॥
पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥१८॥
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥१९॥
त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥१९॥
नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥२०॥
तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥२०॥
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥२१॥
सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥२१॥
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥२२॥
तथापि मायया नाथ न विद्मस्त्वां पितामह ॥२२॥
सूत उवाच
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥२३॥
प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥२३॥
ब्रह्मोवाच
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥२४॥
किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥२४॥
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥२५॥
वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥२५॥
मुनय ऊचुः
भगवन्नंधकारेण महता वयमावृताः ॥२६॥
खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥२६॥
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥२७॥
त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥२७॥
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥२८॥
विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥२८॥
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥२९॥
तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥२९॥
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥३०॥
देवानां दानवानां च मुनीनामपि सन्निधौ ॥३०॥
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥३१॥
आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥३१॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः
N/A
References : N/A
Last Updated : October 13, 2020
TOP