वायवीयसंहिता पूर्वभागः - अध्यायः २७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥१॥
कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥१॥
प्रवेशसमये तस्या भवनद्वारगोचरैः ॥२॥
गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥२॥
वायुरुवाच
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ॥३॥
येन प्रणयगर्भेण भावो भाववतां हृतः ॥३॥
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ॥४॥
शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥४॥
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ॥५॥
गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥५॥
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥६॥
प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥६॥
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत ॥७॥
पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥७॥
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥८॥
तया संभाषणायेशः पूर्वभाषितमब्रवीत् ॥८॥
देवदेव उवाच
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ॥९॥
यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥९॥
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥१०॥
त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम ॥१०॥
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ॥११॥
न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥११॥
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥१२॥
आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥१२॥
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥१३॥
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥१३॥
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥१४॥
आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥१४॥
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥१५॥
वागर्थमिव मे वैतज्जगत्स्थावरजंगमम् ॥१५॥
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥१६॥
द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥१६॥
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥१७॥
विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥१७॥
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥१८॥
सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥१८॥
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् ॥१९॥
आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥१९॥
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥२०॥
देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥२०॥
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥२१॥
ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥२१॥
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥२२॥
इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥२२॥
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ॥२३॥
स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥२३॥
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥२४॥
तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥२४॥
देव्युवाच
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥२५॥
तादृशी कन्यका लोके न भूता न भविष्यति ॥२५॥
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ॥२६॥
शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥२६॥
प्रत्यक्षफलदानं च लोकाय भजते सदा ॥२७॥
लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥२७॥
इति संभाषमाणाया देव्या एवाज्ञया तदा ॥२८॥
व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥२८॥
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥२९॥
व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥२९॥
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ॥३०॥
अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥३०॥
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥३१॥
यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥३१॥
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥३२॥
रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥३२॥
वायुरुवाच
मधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥३३॥
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥३३॥
बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ॥३४॥
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥३४॥
यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥३५॥
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥३५॥
इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ॥३६॥
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥३६॥
ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥३७॥
पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः ॥३७॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP