वायवीयसंहिता पूर्वभागः - अध्यायः ३१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥१॥
जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥१॥
प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥२॥
असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥२॥
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥३॥
न किंचिदपि कर्तव्यमिति साधु विनिश्चितम् ॥३॥
स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ॥४॥
अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥४॥
परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥५॥
परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥५॥
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥६॥
तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥६॥
अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥७॥
अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥७॥
एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥८॥
अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥८॥
मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥९॥
अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥९॥
येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥१०॥
स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥१०॥
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥११॥
साकारेणानुभावेन केनाप्यनुपलक्षितः ॥११॥
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥१२॥
न तावतात्रोपेक्षाधीरुपलक्षणमंतरा ॥१२॥
आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥१३॥
शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥१३॥
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥१४॥
एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥१४॥
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥१५॥
नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥१५॥
अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥१६॥
मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥१६॥
लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ॥१७॥
तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥१७॥
यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥१८॥
तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥१८॥
लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥१९॥
सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥१९॥
आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥२०॥
तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥२०॥
भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥२१
न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥२१॥
सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ॥२२॥
निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात् ॥२२॥
ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥२३॥
ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥२३॥
ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥२४॥
श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥२४॥
सदोषा एव देवाद्या निगृहीता यथोदितम् ॥२५॥
ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥२५॥
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥२६॥
अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥२६॥
यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥२७॥
न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥२७॥
ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥२८॥
आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥२८॥
तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥२९॥
विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥२९॥
साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥३०॥
निवर्तते च सामादेरंते दण्डो हि साधनम् ॥३०॥
हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥३१॥
अतो यद्विपरीतं तदहितं संप्रचक्षते ॥३१॥
हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥३२॥
स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥३२॥
अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥३३॥
यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥३३॥
सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥३४॥॥
न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥३४
माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥३५॥
तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते ॥३५॥
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥३६॥
हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥३६॥
तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥३७॥
इति निर्बंधयंत्येके नियमो नेति चापरे ॥३७॥
निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥३८॥
न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥३८॥
घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥३९॥
तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥३९॥
उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥४०॥
शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥४०॥
सर्पस्या"स्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥४१॥
दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥४१॥
तस्माद्घृणा गुणायैव सर्वथेति न संमतम् ॥४२॥
संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥४२॥
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥४३॥
तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥४३॥
अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥४३
इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥४४॥
नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥४४॥
अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥४५॥
एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥४५॥
शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥४६॥
अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥४६॥
मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥४७॥
न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥४७॥
काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ॥४८॥
अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥४८॥
शिवावेशवशादेव शिवत्वमुपचर्यते ॥४९॥
मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥४९॥
तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥५०॥
यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥५०॥
न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥५०॥
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥५१॥
संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥५१॥
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥५२॥
सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥५२॥
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥५३॥
तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥५३॥
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥५४॥
स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥५४॥
यथा विकासयत्येव रविः पद्मानि भानुभिः ॥५५॥
समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥५५॥
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥५६॥
न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥५६॥
सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥५७॥॥
एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥५७॥
यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥५८॥
विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥५८॥
स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥५९॥
स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥५९॥
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥६०॥
कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥६०॥
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥६१॥
स हेतुरात्मनामेव निजो नागन्तुको मलः ॥६१॥
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥६२॥
यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥६२॥
आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥६३॥
बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥६३॥
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥६४॥
केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥६४॥
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥६५॥
मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥६५॥
आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥६६॥
तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥६६॥
परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥६७॥
वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥६७॥
अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥६८॥
शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥६८॥
विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥६९॥
निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः ॥६९॥
देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥७०॥
पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश ॥७०॥
उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥७१॥
यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥७१॥
मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥७२॥
आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥७२॥
पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥७३॥
अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥७३॥
त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥७३॥
त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ॥७४॥
इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥७४॥
एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥७५
अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥७५॥
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥७६॥
अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥७६॥
मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥७७॥
अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥७७॥
महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥७८॥
अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥७८॥
ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥७९॥
पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥७९॥
एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥८०॥
निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥८०॥
अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥८१॥
भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥८१॥
अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥८२॥
कथं दुःखं करोतीति नात्र कार्या विचारणा ॥८२॥
दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥८३॥
कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥८३॥
न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥८४॥
रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥८४॥
एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥८५॥
स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥८५॥
न भिषक्कारणं रोगे शिवः संसारकारणम् ॥८६॥
इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥८६॥
दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥८७॥
स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥८७॥
संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥८८॥
तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥८८॥
यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ॥८९॥
अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥८९॥
न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥९०॥
अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥९०॥
न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ॥९१॥
तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥९१॥
शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥९२॥
तया ततमिदं शश्वत्तथापि स न दुष्यति ॥९२॥
अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥९३॥
ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥९३॥
यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥९४॥
तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥९४॥
एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ॥९५॥
सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥९५॥
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥९६॥
मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥९६॥
तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥९७॥
नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥९७॥
वायुरुवाच्व
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥९८॥
परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥९८॥
हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥९९॥
अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥९९॥
नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥१००॥
श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥१००

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP