वायवीयसंहिता पूर्वभागः - अध्यायः ३३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ॥१॥
ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥१॥
वायुरुवाच
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ॥२॥
व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥२॥
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ॥३॥
क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः ॥३॥
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ॥४॥
अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च ॥४॥
पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् ॥५॥
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥५॥
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥६॥
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥६॥
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥६॥
व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः ॥७॥
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥७॥
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ॥८॥
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥८॥
दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा ॥९॥
तदर्धं दिनमेकं वा व्रतसंकल्पनावधि ॥९॥
अग्निमाधाय विधिवद्विरजाहोमकारणात् ॥१०॥
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥१०॥
पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ॥११॥
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥११॥
तत्त्वान्येतानि मद्देहे शुद्ध्यंताम् १ त्यनुस्मरन् ॥१२॥
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥१२॥
ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ॥१३॥
त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः ॥१३॥
मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥१४॥
रागो विद्याकले चैव नियतिः काल एव च ॥१४॥
माया च शुद्धिविद्या च महेश्वरसदाशिवौ ॥१५
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥१५॥
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ॥१६॥
शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥१६॥
अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्य च ॥१७॥
विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥१७॥
प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥१८॥
दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥१८॥
प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः ॥१९॥
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥१९॥
ततश्च जटिलो मुण्डी शिखैकजट एव वा ॥२०॥
भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥२०॥
अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा ॥२१॥
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥२१॥
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥२२॥
संकुलीकृत्य तद्भस्म विरजानलसंभवम् ॥२२॥
अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात् ॥२३॥
विभृज्यांगानि मूर्धादिचरणांतानि तैस्स्पृशेत् ॥२३॥
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ॥२४॥
सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥२४॥
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥२५॥
शिवभावं समागम्य शिवयोगमथाचरेत् ॥२५॥
कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥२६॥
भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥२६॥
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥२७॥
पूजनीयो महादेवो लिंगमूर्तिस्सनातनः ॥२७॥
पद्ममष्टदलं हैमं नवरत्नैरलंकृतम् ॥२८॥
कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥२८॥
विभवे तदभावे तु रक्तं सितमथापि वा ॥२९॥
पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥२९॥
तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम् ॥३०॥
स्फीटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥३०॥
प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम् ॥३१॥
परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः ॥३१॥
पञ्चगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः ॥३२॥
स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥३२॥
गंधद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः ॥३३॥
सवेदिकं समालिप्य लिंगं भूषणभूषितम् ॥३३॥
बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ॥३४॥
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः ॥३४॥
पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ॥३५॥
समभ्यर्च्य यथालाभं महापूजाविधानतः ॥३५॥
धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ॥३६॥
निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥३६॥
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ॥३७॥
सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥३७॥
श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ॥३८॥
प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः ॥३८॥
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ॥३९॥
हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥३९॥
नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ॥४०॥
पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥४०॥
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ॥४१॥
चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥४१॥
ईशाने भसितं केचिदालेपनमितीदृशाम् ॥४२॥
न धूपमिति मन्यन्ते धूपान्तरविधानतः ॥४२॥
सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥४२॥
पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे ॥४३॥
ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः ॥४३॥
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ॥४४॥
चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते ॥४४॥
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ॥४५॥
अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥४५॥
प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ॥४६॥
ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते ॥४६॥
द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ॥४७॥
तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥४७॥
महादेवादयस्तत्र तथैकादशमूर्तयः ॥४८॥
चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥४८॥
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ॥४९॥
दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥४९॥
ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः ॥५०॥
सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥५०॥
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ॥५१॥
योगिनो हि सखास्सर्वे पतंगा मातरस्तथा ॥५१॥
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ॥५२॥
पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत् ॥५२॥
अथावरणपूजांते संपूज्य परमेश्वरम् ॥५३॥
साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत् ॥५३॥
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥५४॥
अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः ॥५४॥
नीराजनांते विस्तीर्य पूजाशेषं समापयेत् ॥५५॥
चषकं सोपकारं च शयनं च समर्पयेत् ॥५५॥
चन्द्रसंकाशहारं च शयनीयं समर्पयेत् ॥५६॥
आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥५६
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ॥५७॥
स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥५७
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ॥५८॥
ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥५८॥
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः ॥५९॥
अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥५९॥
प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ॥६०॥
ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम् ॥६०॥
समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ॥६१॥
संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः ॥६१॥
भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ॥६२॥
स्वयं चानशने शक्तः फलमूलाशने ऽथ वा ॥६२॥
पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ॥६३॥
नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥६३॥
भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ॥६४॥
ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥६४॥
अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ॥६५॥
अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥६५॥
पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् ॥६६॥
वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥६६॥
क्षमदानदयासत्याहिंसाशीलः सदा भवेत् ॥६७॥
संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥६७॥
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ॥६८॥
पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥६८॥
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ॥६९॥॥
प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥६९॥
उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ॥७०॥
आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥७०॥
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा ॥७१॥
भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥७१॥
सामान्यमेतत्कथितं व्रतस्यास्य समासतः ॥७२॥
प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥७२॥
वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् ॥७३॥
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥७३॥
मासे भाद्रपदे चैव पद्मरागमयं परम् ॥७४॥
आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम् ॥७४॥
कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके ॥७५॥
पुष्परागमयं पौषे माघे द्युमणिजन्तथा ॥७५॥
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा ॥७६॥
सर्वमासेषु रत्नानामलाभे हैममेव वा ॥७६॥
हैमाभावे राजतं वा ताम्रजं शैलजन्तथा ॥७७॥
मृन्मयं वा यथालाभं जातुषं चान्यदेव वा ॥७७॥
सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि ॥७८॥
व्रतावसानसमये समाचरितनित्यकः ॥७८॥
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ॥७९॥
संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥७९॥
देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥८०॥
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥८०॥
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ॥८१॥
अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥८१॥
समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया ॥८२॥
इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥८२॥
ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ॥८३॥
पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत् ॥८३॥
यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः ॥८४॥
व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥८४॥
सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ॥८५॥
स एव तपतां श्रेष्ठ स एव च महाव्रती ॥८५॥
न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ॥८६॥
यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥८६॥
यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ॥८७॥
सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥८७॥
घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः ॥८८॥
द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥८८॥
कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ॥८९॥
शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥८९॥
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥९०॥
पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः ॥९०॥
रुद्राग्निर्यत्परं वीर्यन्तद्भस्म परिकीर्तितम् ॥९१॥
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥९१॥
भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात् ॥९२॥
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥९२॥
भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः ॥९३॥
भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥९३॥
भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ॥९४॥
भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः ॥९४॥
भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् ॥९५॥
भूतिभूतिकरी चैव रक्षा रक्षाकरी परम् ॥९५॥
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ॥९६॥
व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः ॥९६॥
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ॥९७॥
धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥९७॥
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ॥९८॥
धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥९८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP