वायवीयसंहिता पूर्वभागः - अध्यायः ३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रहमोवाच
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥१॥
आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन ॥१॥
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥२॥
सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥२॥
कारणानां च यो धाता ध्याता परमकारणम् ॥३॥
न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥३॥
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥४
सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥४॥
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥५॥
तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥५
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥६॥
येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥६॥
एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ॥७॥
य एको बहुधा बीजं करोति स महेश्वरः ॥७॥
जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते १॥८॥
य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥८॥
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ॥९॥
अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥९॥
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥१०॥
अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥१०॥
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥११॥
स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥११॥
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥१२॥
तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥१२॥
ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥१३॥
भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥१३॥
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥१४॥
यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥१४॥
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥१५॥
न तस्य परमं किंचित्पदं समधिगम्यते ॥१५॥
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥१६॥
स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥१६॥
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ॥१७॥
अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥१७॥
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥१८॥
षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥१८॥
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥१९॥
अनन्तानन्तसन्दोहमकरंदमधुव्रतः ॥१९॥
अखंडजगदंडानां पिंडीकरणपंडितः ॥२०॥
औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः ॥२०॥
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ॥२१॥
अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥२१॥
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥२२॥
अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥२२॥
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥२३॥
अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥२३॥
व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥२४॥
कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥२४॥
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥२५॥
तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः ॥२५॥
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥२६॥
भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥२६॥
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥२७॥
अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥२७॥
ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥२८॥
तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥२८॥
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥२९॥
शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥२९॥
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥३०॥
यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥३०॥
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥३१॥
स एव साधनैरन्ते सर्वैरपि च साध्यते ॥३१॥
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥३२॥
तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥३२॥
साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ॥३३॥
धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥३३॥
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥३४॥
सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥३४॥
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥३५॥
प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः ॥३५॥
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥३६॥
स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥३६॥
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥३७॥
शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥३७॥
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥३८॥
ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥३८
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥३९॥
ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥३९॥
योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ॥४०॥
प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत् ॥४०॥
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥४१॥
यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥४१॥
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥४२॥
बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥४२॥
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥४३॥
अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥४३॥
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥४४॥
कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥४४॥
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥४५॥
ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥४५॥
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥४६॥
ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः ॥४६॥
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥४७॥
सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥४७॥
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥४८॥
सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति ॥४८॥
स एव भवतः श्रेयः सोपायं कथयिष्यति ॥४९॥
ततो वाराणसी पुण्या पुरी परमशोभना ॥४९॥
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥५०॥
सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥५०॥
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥५१॥
ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥५१॥
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥५२॥
अनेकजन्मसंसारबंधनिर्मोक्षकारिणी ॥५२॥
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥५३
यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥५३॥
इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ॥५४॥
प्रणिपत्य महादेवं विससर्ज पितामहः ॥५४॥
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥५५॥
प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥५५॥
चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ॥५६॥
विमलस्वादुपानीये निजपात वने क्वचित् ॥५६॥
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥५७॥
अनेकयक्षगंधर्वविद्याधरसमाकुलम् ॥५७॥
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥५८॥॥
विलासवशमुर्वश्या यातो दैवेन चोदितः ॥५८॥
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥५९॥
मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः ॥५९॥
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥६०॥
सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥६०॥
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥६१॥
शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥६१॥
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥६२॥
वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः ॥६२॥
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥६३॥
अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥६३॥
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP