वायवीयसंहिता पूर्वभागः - अध्यायः ३५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् ॥१॥
प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥१॥
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥२॥
किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः ॥२॥
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥३॥
दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः ॥३॥
विष्णुरुवाच
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ॥४॥
क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥४॥
वायुरुवाच
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ॥५॥
शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥५॥
तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः ॥६॥
जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान् ॥६॥
एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः ॥७॥
शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥७॥
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ॥८॥
सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥८॥
स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ॥९॥
दधार शच्या सहितं सुरेंद्रं करेण वामेन शितातपत्रम् ॥९॥
रराज भगवान्सोमः शक्ररूपी सदाशिवः ॥१०॥
तेनातपत्रेण यथा चन्द्रबिंबेन मन्दरः ॥१०॥
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ॥११॥
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥११॥
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ॥१२॥
प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥१२॥
उपमन्युरुवाच
पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् ॥१३॥
प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥१३॥
वायुरुवाच
एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम् ॥१४॥
प्राह गंभीरया वाचा शक्ररूपधरो हरः ॥१४॥
शक्र उवाच
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥१५॥
ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने ॥१५॥
वायुरुवाच
एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः ॥१६॥
वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥१६॥
तन्निशम्य हरिः १ प्राह मां न जानासि लेखपम् ॥१७॥
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥१७॥
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥१८॥
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥१८॥
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ॥१९॥
देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥१९॥
वायुरुवाच
तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ॥२०॥
मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥२०॥
उपमन्युरुवाच॥
त्वयैवं कथितं सर्वं भवनिंदारतेन वै ॥२१॥
प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः ॥२१॥
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥२२॥
ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥२२॥
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥२३॥
नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥२३॥
हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ॥२४॥
उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥२४॥
नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ॥२५॥
ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥२५॥
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ॥२६॥
भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥२६॥
श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत् ॥२७॥
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥२७॥
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ॥२८॥
निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥२८॥
वायुरुवाच
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् ॥२९॥
क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥२९॥
भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम् ॥३०॥
विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥३०॥
स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः ॥३१॥
आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥३१॥
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ॥३२॥
वारयामास सौम्येन धारणां तस्य योगिनः ॥३२॥
तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः ॥३३॥
जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः ॥३३॥
स्वं रूपमेव भगवानास्थाय परमेश्वरः ॥३४॥
दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥३४॥
क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ॥३५॥
दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥३५॥
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥३६॥
अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥३६॥
एवं स ददृशे देवो देव्या सार्धं वृषोपरि ॥३७॥
गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥३७॥
दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ॥३८॥
विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥३८॥
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥३९॥
पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥३९॥
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥४०॥
एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥४०॥
शिव उवाच
भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा ॥४१॥
सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम ॥४१॥
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥४२॥
मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥४२॥
मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ॥४३॥
आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥४३॥
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ॥४४॥
एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥४४॥
पिता तव महादेवो माता वै जगदम्बिका ॥४५॥
अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥४५॥
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥४६॥
प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥४६॥
वायुरुवाच
एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥४७॥
मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥४७॥
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥४८॥
विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥४८॥
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥४९॥
उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥४९॥
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥५०॥
समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः ॥५०॥
अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः ॥५१॥
पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥५१॥
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ॥५२॥
ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥५२॥
सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ॥५३॥
तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत् ॥५३॥
ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ॥५४॥
ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥५४॥
उपमन्युरुवाच
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥५५॥
स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम् ॥५५॥
श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा ॥५६॥
स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥५६॥
एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा ॥५७॥
सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥५७॥
उपमन्युरुवाच
देवदेव महादेव शरणागतवत्सल ॥५८
प्रसीद करुणासिंधो साम्ब शंकर सर्वदा ॥५८॥
वायुरुवाच
एवमुक्तो महादेवः सर्वेषां च वरप्रदः ॥५९॥
प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥५९॥
शिव उवाच
वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते ॥६०॥
दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥६०॥
अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः ॥६१॥
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥६१॥
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥६२॥
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥६२॥
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥६३॥
उपकंठं मम त्वं वै सानन्दं विहरिष्यसि ॥६३॥
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ॥६४॥
ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥६४॥
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ॥६५॥
जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥६५॥

इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशो ऽध्यायः

समाप्तो ऽयं सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP