वायवीयसंहिता पूर्वभागः - अध्यायः २५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥१॥
नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥१॥
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥२॥
तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥२॥
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥३॥
प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥३॥
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥४॥
स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥४॥
संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥५॥
सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥५॥
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥६॥
त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥६॥
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥७॥
प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥७॥
तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥८॥
दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥८॥
तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥९॥
गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥९॥
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥१०॥
न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥१०॥
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥११॥
ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥११॥
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥१२॥
अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥१२॥
देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥१३॥
त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥१३॥
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥१४॥
बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥१४॥
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥१५॥
दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥१५॥
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥१६॥
सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥१६॥
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥१७॥
स एव द्रावको भूत्वा विचचार तपोवने ॥१७॥
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥१८॥
देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥१८॥
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥१९॥
यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥१९॥
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥२०॥
आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥२०॥
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥२१॥
संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥२१॥
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥२२॥
प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥२२॥
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥२३॥
रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥२३॥
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥२४॥
अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥२४॥
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥२५॥
पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥२५॥
ब्रह्मोवाच
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥२६॥
तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥२६॥
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥२७॥
भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥२७॥
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥२८॥
इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥२८॥
देव्युवाच
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥२९॥
तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥२९॥
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥३०॥
उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥३०॥
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥३१॥
तदा पितामहस्त्वं मे जातो लोकपितामह ॥३१॥
तदीदृशस्य भवतो लोकयात्राविधायिनः ॥३२॥
वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥३२॥
किमत्र बहुना देहे यश्चायं मम कालिमा ॥३३॥
त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥३३॥
५३०

ब्रह्मोवाच
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥३४॥
स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥३४॥
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥३५॥
अतो ममेष्टमनया फलं किमपि साध्यताम् ॥३५॥
निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥३६॥
दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥३६॥
अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥३७॥
शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥३७॥
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥३८॥
त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥३८॥
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥३९॥
काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥३९॥
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥४०॥
शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥४०॥
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥४१॥
अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥४१॥
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥४२॥
निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥४२॥
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥४३॥
प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥४३॥
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥४४॥
मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥४४॥
सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥४५॥
प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥४५॥
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥४६॥
परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥४६
निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥४७॥
तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥४७॥
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥४८॥
ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥४८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP