वायवीयसंहिता पूर्वभागः - अध्यायः २४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥१॥
क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥१॥
वायुरुवाच
महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥२॥
दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥२॥
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥३॥
चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥३
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥४॥
न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥४॥
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥५॥
पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥५॥
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥६॥
ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥६॥
अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥७॥
अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥७॥
मेखलाभूमयस्तस्य विमलोपलपादपाः ॥८॥
शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥८॥
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥९॥
अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥९॥
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥१०॥
अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥१०॥
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥११॥
चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥११॥
स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥१२॥
सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥१२॥
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥१३॥
दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥१३॥
कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥१४॥
विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥१४॥
लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥१५॥
जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥१५॥
अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥१६॥
प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥१६॥
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥१७॥
पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥१७॥
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥१८॥
अजीर्णलावण्यतया जृंभमाण इवाचलः ॥१८॥
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥१९॥
वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥१९॥
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥२०॥
तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥२०
सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥२१॥
तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥२१॥
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥२२॥
रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥२२॥
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥२३॥
रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥२३॥
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥२४॥
दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥२४॥
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्टिना ॥२५॥
अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥२५॥
अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥२६॥
अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥२६॥
तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥२७॥
इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥२७
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥२८॥
निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥२८॥
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥२९॥
विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥२९॥
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥३०॥
निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥३०
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥३१॥
कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥३१॥
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥३२॥
स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥३२॥
देव्युवाच
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥३३॥
एवावन्तं चिरं कालं कथमेषा नियम्यते ॥३३॥
अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥३४॥
न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥३४॥
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥३५॥
इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥३५॥
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥३६॥
सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥३६॥
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥३७॥
तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥३७॥
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥३८॥
वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥३८॥
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥३९॥
ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥३९॥
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥४०॥
पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥४०॥
ईश्वर उवाच
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥४१॥
रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥४१॥
माता त्वमस्य जगतः पिताहमधिपस्तथा ॥४२॥
कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥४२॥
आवयोरभिकामो ऽपि किमसौ कामकारितः ॥४३॥
यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥४३॥
पृथग्जनानां रतये कामात्मा कल्पितो मया ॥४४॥
ततः कथमुपालब्धः कामदाहादहं त्वया ॥४४॥
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥४५॥
मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥४५॥
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥४६॥
ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥४६॥
स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥४७॥
क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥४७॥
देव्युवाच
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥४८॥
येनैवमतिधीराहमपि प्रागभिवंचिता ॥४८॥
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥४९॥
कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥४९॥
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥५०॥
क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥५०॥
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥५१॥
अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥५१॥
शिव उवाच॥
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥५२॥
ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥५२॥
देव्युवाच
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥५३॥
ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥५३॥
ईश्वर उवाच
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥५४॥
तमाहूय महादेवि तपसा किं करिष्यसि ॥५४॥
देव्युवाच
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥५५॥
तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥५५॥
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥५६॥
जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥५६॥
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥५७॥
गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥५७॥
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥५८॥
न तां निर्बंधयामास देवकार्यचिकीर्षया ॥५८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP