वायवीयसंहिता पूर्वभागः - अध्यायः ३२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः ॥१॥
तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत ॥१॥
वायुरुवाच
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥२॥
यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥२॥
स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ॥३॥
क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥३॥
तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः ॥४॥
परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥४॥
परमो ऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ॥५॥
धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः ॥५॥
परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः ॥६॥
धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः ॥६॥
अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः ॥७॥
साधारणस्ततो ऽन्यस्तु सर्वेषामधिकारतः ॥७॥
स चायं परमो धर्मः परधर्मस्य साधनम् ॥८॥
धर्मशास्त्रादिभिस्सम्यक्सांग एवोपबृंहितः ॥८॥
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥९॥
इतिहासपुराणाभ्यां कथंचिदुपबृंहितः ॥९॥
शैवागमैस्तु संपन्नः सहांगोपांविस्तरः ॥१०॥
तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः ॥१०॥
शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ॥११॥
श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः ॥११॥
स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः ॥१२॥
कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः ॥१२॥
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ॥१३॥
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥१३॥
युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा ॥१४॥
तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते ॥१४॥
संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ॥१५॥
रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः ॥१५॥
ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ॥१६॥
तत्संततीया गुरवः शतशो ऽथ सहस्रशः ॥१६॥
तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः ॥१७॥
तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम् ॥१७॥
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ॥१८॥
तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥१८॥
नामाष्टकमयो योगश्शिवेन परिकल्पितः ॥१९॥
तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥१९॥
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ॥२०॥
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥२०॥
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ॥२१॥
शिवापरोक्षात्संसारकारणेन वियुज्यते ॥२१॥
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ॥२२॥
ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥२२॥
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥२३॥
संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥२३॥
नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ॥२४॥
आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात् ॥२४॥
संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् ॥२५॥
उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥२५॥
पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ॥२६॥
पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः ॥२६॥
परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ॥२७॥
आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम् ॥२७॥
अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ॥२८॥
त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥२८॥
अनादिमलसंश्लेषः प्रागभावात्स्वभावतः ॥२९॥
अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते ॥२९॥
अथवाशेषकल्याणगुणैकधन ईश्वरः ॥३०॥
शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥३०॥
त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता ॥३१॥
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥३१॥
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ॥३२॥
वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥३२॥
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥३३॥
तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च ॥३३॥
अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् ॥३४॥
मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥३४॥
मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् ॥३५॥
कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥३५॥
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥३६॥
रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥३६॥
तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥३७॥
व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥३७॥
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥३८॥
पितृभावेन सर्वेषां पितामह उदीरितः ॥३८॥
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥३९॥
उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥३९॥
संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥४०॥
संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥४०॥
दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि ॥४१॥
त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥४१॥
अणवो नैव जानन्ति माययैव मलावृताः ॥४२॥
असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु ॥४२॥
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥४३॥
अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥४३॥
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥४४॥
स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥४४॥
नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः ॥४५॥
निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः ॥४५॥
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ॥४६॥
गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा ॥४६॥
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ॥४७॥
छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥४७॥
द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ॥४८॥
संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात् ॥४८॥
शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ॥४९॥
अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥४९॥
द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ॥५०॥
समासीनं महादेवं शंकरम्भक्तवत्सलम् ॥५०॥
अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् ॥५१॥
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥५१॥
ध्यात्वा हि मानसे देवं स्वस्थचित्तो ऽथ मानवः ॥५२॥
शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत् ॥५२॥
अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः ॥५३॥
सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥५३॥
नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ॥५४॥
अष्टपुष्पप्रदानेन कृत्वाभ्यर्चनमंतिमम् ॥५४॥
निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ॥५५॥
एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम् ॥५५॥
लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ॥५६॥
योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥५६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP