वायवीयसंहिता पूर्वभागः - अध्यायः ७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मुनय ऊचुः
कालादुत्पद्यते सर्वं कालदेव विपद्यते ॥१॥
न कालनिरपेक्षं हि क्वचित्किंचन विद्यते ॥१॥
यदास्यांतर्गतं विश्वं शश्वत्संसारमण्डलम् ॥२॥
सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥२॥
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ॥३॥
यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥३॥
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ॥४॥
अतिप्रभुरिति स्वैरं वर्तते ऽतिभयंकरः ॥४॥
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ॥५॥
क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥५॥
वायुरुवाच
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ॥६॥
कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥६॥
यदलंघ्यमशेषस्य स्थावरस्य चरस्य च ॥७॥
नियोगरूपमीशस्य बलं विश्वनियामकम् ॥७
तस्यांशांशमयी मुक्तिः कालात्मनि महात्मनि ॥८॥
ततो निष्क्रम्य संक्रांता विसृष्टाग्रेरिवायसी ॥८॥
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ॥९॥
शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥९॥
यतो ऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ॥१०॥
महती तेन कालस्य मर्यादा हि दुरत्यया ॥१०॥
कालं प्रज्ञाविशेषेण को ऽतिवर्तितुमर्हति ॥११॥
कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥११॥
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ॥१२॥
ते ऽपि नैवातिवर्तंते कालवेलामिवाब्धयः ॥१२॥
ये निगृह्येंद्रियग्रामं जयंति सकलं जगत् ॥१३॥
न जयंत्यपि ते कालं कालो जयति तानपि ॥१३॥
आयुर्वेदविदो वैद्यास्त्वनुष्ठितरसायनाः ॥१४॥
न मृत्युमतिवर्तंते कालो हि दुरतिक्रमः ॥१४॥
श्रिया रूपेण शीलेन बलेन च कुलेन च ॥१५॥
अन्यच्चिंतयते जंतुः कालो ऽन्यत्कुरुते बलात् ॥१५॥
अप्रियैश्च प्रियैश्चैव ह्यचिंतितगमागमैः ॥१६॥
संयोजयति भूतानि वियोजयति चेश्वरः ॥१६॥
यदैव दुःखितः कश्चित्तदैव सुखितः परः ॥१७॥
दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥१७॥
यो युवा स भवेद्वृद्धो यो बलीयान्स दुर्बलः ॥१८॥
यः श्रीमान्सो ऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥१८॥
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ॥१९॥
भवेत्कार्याय पर्याप्तं कालश्च ह्यनिरोधकः ॥१९॥
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ॥२०॥
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥२०॥
फलंत्यकाले न रसायनानि सम्यक्प्रयुक्तान्यपि चौषधानि ॥२१॥
तान्येव कालेन समाहृतानि सिद्धिं प्रयांत्याशु सुखं दिशंति ॥२१॥
नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥२२॥
नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥२२॥
कालेन शीतः प्रतिवाति वातःकालेन वृष्टिर्जलदानुपैति ॥२३॥
कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥२३॥
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवंति नित्यम् ॥२४॥
कालेन सस्यानि लयं प्रयांति कालेन संजीवति जीवलोकः ॥२४॥
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ॥२५॥
कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥२५॥
न यस्य कालो न च बंधमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ॥२६॥
विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥२६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं नाम सप्तमो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP