वायवीयसंहिता पूर्वभागः - अध्यायः १०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


वायुरुवाच
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥१॥
बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥१॥
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥२॥
कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥२॥
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥३॥
ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥३॥
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥४॥
प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥४॥
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥५॥
सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥५॥
एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥६॥
परस्परेण वर्धंते परस्परमनुव्रताः ॥६॥
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥७॥
नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥७॥
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥८॥
यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥८॥
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥९॥
सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥९॥
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥१०॥
लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥१०॥
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥११॥
स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥११॥
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥१२॥
सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥१२॥
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥१३॥
महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥१३॥
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥१४॥
वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥१४॥
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥१५॥
बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥१५॥
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥१६॥
तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥१६॥
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥१७॥
भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥१७॥
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥१८॥
वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥१८॥
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥१९॥
गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥१९॥
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥२०॥
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥२०॥
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥२१॥
तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥२१॥
स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥२२॥
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥२२॥
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥२३॥
धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥२३॥
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥२४॥
वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥२४॥
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥२५॥
सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥२५॥
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥२६॥
सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥२६॥
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥२७॥
विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥२७॥
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥२८॥
पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥२८॥
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥२९॥
चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥२९॥
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥३०॥
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥३०॥
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥३१॥
गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥३१॥
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥३२॥
चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥३२॥
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥३३॥
आपो दशगुणेनैव तेजसा बहिरावृताः ॥३३॥
तेजो दशगुणेनैव वायुना बहिरावृतम् ॥३४॥
आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥३४॥
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥३५॥
एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥३५॥
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥३६॥
सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥३६॥
एवं परस्परोत्पन्ना धारयंति परस्परम् ॥३७॥
आधाराधेयभावेन विकारास्तु विकारिषु ॥३७॥
कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥३८॥
विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥३८॥
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥३९॥
प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥३९॥
गुणाः कालवशादेव भवंति विषमाः समाः ॥४०॥
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥४०॥
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥४१॥
ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥४१॥
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥४२॥
सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥४२॥
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥४३॥
सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥४३॥
महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥४४॥
अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥४४॥
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥४५॥
आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥४५॥
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥४६॥
अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥४६॥
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥४७॥
अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥४७॥
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥४८॥
तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥४८॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP