संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
द्वादशोऽध्यायः

मार्कण्डेयपुराणम् - द्वादशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


पितोवाच

साधु वत्स ! त्वयाख्यातं संसारगहनं परम् ।
ज्ञानप्रदानसम्भूतं समाश्रित्य महाफलम् ॥१॥

तत्र ते नरकाः सर्वे यथा वै रौरवस्तथा ।
वर्णितास्तान् समाचक्ष्व विस्तरेण महामते ॥२॥

पुत्र उवाच

रौरवस्ते समाख्यातः प्रथमं नरको मया ।
महारौरवसंज्ञं तु शृणुष्व नरकं पितः ॥३॥

योजनानां सहस्राणि सप्त पञ्च समन्ततः ।
तत्र ताम्रमयी भूमिरधस्तस्य हुताशनः ॥४॥

तत्तापतप्ता सर्वाशा प्रोद्यदिन्दुसमप्रभा ।
विभात्यतिमहारौद्रा दर्शनस्पर्शनादिषु ॥५॥

तस्यां बद्धः कराभ्याञ्च पद्भ्याञ्चैव यमानुगैः ।
मुच्यते पापकृन्मध्ये लुठमानः स गच्छति ॥६॥

काकैर्वकैर्वृकोलूकैर्वृश्चिकैर्मशकैस्तथा ।
भक्ष्यमाणस्तथा गृध्रैर्द्रुतं मार्गे विकृष्यते ॥७॥

दह्यमानः पितर्मातर्भ्रातस्तातेति चाकुलः ।
वदत्यसकृदुद्विग्नो न शान्तिमधिगच्छति ॥८॥

एवं तस्मान्नरैमर्मोक्षो ह्यतिक्रान्तैरवाप्यते ।
वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥९॥

तथान्यस्तु तमो नाम सोऽतिशीतः स्वभावतः ।
महारौरववद् दीर्घस्तथा स तमसा वृतः ॥१०॥

शीतार्तास्तत्र धावन्तो नरास्तमसि दारुणे ।
परस्परं समासाद्य परिरभ्याश्रयन्ति च ॥११॥

दन्तास्तेषाञ्च भज्यन्ते शीतार्तिपरिकम्पिताः ।
क्षुत्तृष्णाप्रबलास्तत्र तथैवान्येऽप्युपद्रवाः ॥१२॥

हिमखण्डवहो वायुर्भिनत्त्यस्थीनि दारुणः ।
मज्जासृग्गलितं तस्मादश्नुवन्ति क्षुधान्विताः ॥१३॥

लेलिह्यमाना भ्राम्यन्ते परस्परसमागमे ।
एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः ॥१४॥

प्राप्यते ब्राह्मणश्रेष्ठ यावद्दुष्कृतसंक्षयः ।
निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥१५॥

तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः ।
तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः ॥१६॥

यमानुगाङ्गुलिस्थेन आपादतलमस्तकम् ।
न चैषां जीवितभ्रंशो जायते द्विजसत्तम ॥१७॥

छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति च ।
एवं वर्षसहस्राणि छिद्यन्ते पापकर्मिणः ॥१८॥

तावद् यावदशेषं वै तत्पापं हि क्षयं गतम् ।
अप्रतिष्ठञ्च नरकं शृणुष्व गदतो मम ॥१९॥

अत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते ।
तान्येव यत्र चक्राणि घटीयन्त्राणि चान्यतः ॥२०॥

दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् ।
चक्रेष्वारोपिताः केचिद् भ्राम्यन्ते तत्र मानवाः ॥२१॥

यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।
घटीयन्त्रेषु चैवान्यो बद्धस्तोये यथा घटी ॥२२॥

भ्राम्यन्ते मानवा रक्तमुदिगरन्तः पुनः पुनः ।
अस्त्रैर्मुखविनिष्क्रान्तैः नेत्रैरश्रुविलम्बिभिः ॥२३॥

दुः खानि ते प्राप्नुवन्ति यान्यसह्यानि जन्तुभिः ।
असिपत्रवनं नाम नरकं शृणु चापरम् ॥२४॥

योजनानां सहस्रं यो ज्वलदग्न्यास्तृतावनिः ।
तप्ताः सूर्यकरैश्चण्डैर्यत्रातीव सुदारुणैः ॥२५॥

प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ।
तन्मध्ये च वनं रम्यं स्निग्धपत्रं विभाव्यते ॥२६॥

पत्राणि तत्र खङ्गानां फलानि द्विजसत्तमम् ।
श्वानश्च तत्र सबलाः स्वनन्त्ययुतशोभिताः ॥२७॥

महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः ।
ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः ॥२८॥

प्रयान्ति प्राणिनस्तत्र तीव्रतृट्परिपीडिताः ।
हा मातर्हा तात ! इति क्रान्दन्तोऽतीव दुः खिता ॥२९॥

दह्यमानाङ्घ्रयुगला धरणीस्थेन वह्निना ।
तेषां गतानां तत्रासिपत्रपाती समीरणः ॥३०॥

प्रवाति तेन पात्यन्ते तेषां खड्गान्यथोपरि ।
ततः पतन्ति ते भूमौ ज्वलत्पवकसञ्चये ॥३१॥

लेलिह्यमाने चान्यत्र व्याप्ताशेषमहीतले ।
सारमेयास्ततः शीघ्रं शातयन्ति शरीरतः ॥३२॥

तेषामङ्गानि रुदतामनेकान्यतिभीषणाः ।
असिपत्रवनं तात ! मयैतत् कीर्तितं तव ॥३३॥

अतः परं भीमतरं तप्तकुम्भं निबोध मे ।
समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः ॥३४॥

ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः ।
तेषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥३५॥

क्वाथ्यन्ते विस्फुटद्गात्र-गलन्मज्जजलाविलाः ।
स्फुरत्कपालनेत्रास्थिच्छिद्यमाना विभीषणैः ॥३६॥

गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।
पुनः सिमसिमायन्ते तैलेनैक्यं व्रजन्ति च ॥३७॥

द्रवीभूतैः शिरोगात्र-स्नायु-मांस-त्वगस्थिभिः ।
ततो याम्यैर्नरैराशु दर्व्या घट्टनघट्टिताः ॥३८॥

कृतावर्ते महातैले मथ्यन्ते पापकर्मिणः ।
एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः ॥३९॥

इति श्रीमार्कण्डेयपुराणे पिताः पुत्रसंवादे महारौरवादिनरकाख्यानं नाम द्वादशोऽध्यायः

N/A

References : N/A
Last Updated : March 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP