मार्कण्डेयपुराणम् - सप्तपञ्चाशोऽध्यायः
मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.
क्रौष्टुकिरुवाच
भगवन् ! कथितन्त्वेतज्जम्बूद्वीपं समासतः ।
यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् ॥१॥
पापाय वा महाभाग ! वर्जयित्वा तु भारतम् ।
इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तञ्च गम्यते ॥२॥
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ।
तस्माद्विस्तरशो ब्रह्मन् ! ममैतद्भारतं वद ॥३॥
ये चास्य भेदा यावन्तो यथावत् स्थितिरेव च ।
वर्षोऽयं द्विजशार्दूल ! ये चास्मिन् देशपर्वताः ॥४॥
मार्कण्डेय उवाच
भारतस्यास्य वर्षस्य नव भेदान्निबोध मे ।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥५॥
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥६॥
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां हसस्त्रं वै द्वीपोऽयं दक्षिणोत्तरात् ॥७॥
पूर्वे किराता यस्यान्ते पश्चिमे यवनास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तः स्थिता द्विज ॥८॥
इज्याध्यायवणिज्याद्यैः कर्मभिः कृतपावनाः ।
तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥९॥
स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तदा ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥१०॥
विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः ।
तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥११॥
विस्तारोच्छ्रयिणो रम्या विपुलाश्चात्र सानवः ।
कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः ॥१२॥
वातस्वनो वैद्युतश्च मैनाकः स्वरसस्तथा ।
तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः ॥१३॥
पुष्पो गिरिर्दुर्जयन्तो रैवतोर्ऽबुद एव च ।
ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः ॥१४॥
श्रीपर्वतश्चकोरश्च शतशोऽन्ये च पर्वताः ।
तैर्विमिश्रा जनपदा म्लेच्छाश्चार्याश्च भागशः ॥१५॥
तैः पीयन्ते सरित्श्रेष्ठा यास्ताः सम्यङ्निबोध मे ।
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥१६॥
यमुना च शतद्रुश्च वितस्तेरावती कुहुः ।
गोमती धूतपापा च बाहुदा सदृशद्वती ॥१७॥
विपाशा देविका रङ्क्षुर्निश्चीरा गण्डकी तथा ।
कौशिकी चापगा विप्र ! हिमवत्पादनिः सृताः ॥१८॥
वेदस्मृतिर्वेदवती वृत्रघ्री सिन्धुरेव च ।
वेण्वा सानन्दनी चैव सदानीरा मही तथा ॥१९॥
पारा चर्मण्वती नूपी विदिशा वेत्रवत्यपि ।
शिप्रा ह्यवर्णो च तथा पारियात्राश्रयाः स्मृताः ॥२०॥
शोणो महानदश्चैव नर्मदा सुरथाद्रिजा ।
मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥२१॥
चित्रोत्पला सतमसा करमोदा पिशाचिका ।
तथान्या पिप्पलिश्रोणिर्विपाशा वञ्जुला नदी ॥२२॥
सुमेरुजा शुक्तिमती शकुली त्रिदिवाक्रमुः ।
(विन्ध्य) (स्कन्ध) पादप्रसूता वै तथान्या वेगवाहिनी ॥२३॥
शिप्रा पयोष्णी निर्विन्ध्या तापी सनिषधावती ।
वेण्या वैतरणी चैव सिनीवाली कुमुद्वती ॥२४॥
करतोया महागौरी दुर्गा चान्तः शिरा तथा ।
(ऋक्ष) (विन्ध्य) पादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥२५॥
गोदावरी भीमरथा कृष्णा वेण्या तथापरा ।
तुङ्गभद्रा सुप्रयोगा वाह्या कावेर्यथापगा ॥२६॥
(सह्य) (विन्ध्य) पादविनिष्क्रान्ता इत्येताः सरिदुत्तमाः ।
कृतमाला ताम्रपर्णो पुष्पजा सूत्पलावती ॥२७॥
मलयाद्रिसमुद्भूता नद्यः शीतजलास्त्विमाः ।
पितृसोमर्षिकुल्या च इक्षुका त्रिदिवा च या ॥२८॥
लाङ्गूलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्या कुमारी च मन्दगा मन्दवाहिनी ॥२९॥
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।
सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥३०॥
विश्वस्य मातरः सर्वाः सर्वपापहराः स्मृताः ।
अन्याः सहस्रशश्चोक्ताः क्षुद्रनद्यो द्विजोत्तम॥ ३१॥
प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः ।
मत्स्याश्वकूटाः कुल्याश्च कुन्तलाः काशिकोशलाः ॥३२॥
अथर्वाश्चार्कलिङ्गाश्च मलकाश्च वृकैः सह ।
मध्यदेश्या जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥३३॥
सह्यस्य चोत्तरे या तु यत्र गोदावरी नदी ।
पृथिव्यामपि कृतस्त्रायां स प्रदेशो मनोरमः ॥३४॥
गोवर्धनं पुरं रम्यं भार्गवस्य महात्मनः ।
वाह्लीका वाटधानाश्च आभीराः कालतोयकाः ॥३५॥
अपरान्ताश्च शूद्राश्च पल्लवाश्चर्मखण्डिकाः ।
गान्धारा गबलाश्चैव सिन्धुसौवीरमद्रकाः ॥३६॥
शतद्रुजाः कलिङ्गाश्च पारदा हालमूषिकाः ।
माठरा बहुभद्राश्च कैकेया दशमालिकाः ॥३७॥
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
काम्बोजा दरदाश्चैव वर्वरा हर्षवर्धनाः ॥३८॥
चीनाश्चैव तुखाराश्च बहुला बाह्यतोनराः ।
आत्रेयाश्च भरद्वाजाः पुष्कलाश्च कशेरुकाः ॥३९॥
लम्पाकाः शूलकाराश्च चूलिका जागुडैः सह ।
औषधाश्चानिमद्राश्च किरातानाञ्च जातयः ॥४०॥
तामसा हंसमार्गाश्च काश्मीरास्तुङ्गनास्तथा ।
शूलिकाः कुहकाश्चैव ऊर्णा दर्वास्तथैव च ॥४१॥
एते देशा ह्युदीच्यास्तु प्राच्यान्देशान्निबोध मे ।
अध्रारका मुदकरा अन्तर्गिर्या बहिर्गिराः ॥४२॥
यथा प्रवङ्गा रङ्गेया मानदा मानवर्तिकाः ।
ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः ॥४३॥
प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।
मल्ला मगधगोमन्ताः प्राच्या जनपदाः स्मृताः ॥४४॥
अथापरे जनपदा दक्षिणापथवासिनः ।
पुण्ड्राश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥४५॥
शैलूषा मूषिकाश्चैव कुसुमा नामवासकाः ।
महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्वशः ॥४६॥
आभीराः सह वैशिक्या आढक्याः शबराश्च ये ।
पुलिन्दा विन्ध्यमौलेया वैदर्भा दण्डकैः सह ॥४७॥
पौरिका मौलिकाश्चैव अश्मका भोगवर्धनाः ।
नैषिकाः कुन्तला अन्धा उदिभदा वनदारकाः ॥४८॥
दाक्षिणात्यास्त्वमी देशा अपरान्तान् निबोध मे ।
सूर्पारकाः कालिबला दुर्गाश्चानीकटैः सह ॥४९॥
पुलिन्दाश्च सुमीनाश्च रूपपाः स्वापदैः सह ।
तथा कुरुमिनश्चैव सर्वे चैव कठाक्षराः ॥५०॥
नासिक्यावाश्च ये चान्ये ये चैवोत्तरनर्मदाः ।
भीरुकच्छाः समाहेयाः सह सारस्वतैरपि ॥५१॥
काश्मीराश्च सुराष्ट्राश्च अवन्त्याश्चार्बुदैः सह ।
इत्येते ह्यपरान्ताश्च शृणु विन्ध्यनिवासिनः ॥५२॥
सरजाश्च करूषाश्च केरलाश्चोत्कलैः सह ।
उत्तमर्णा दशार्णाश्च भोज्याः किष्किन्धकैः सह ॥५३॥
तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ।
तुम्बुरास्तुम्बुलाश्चैव पटवो नैषधेः सह ॥५४॥
अन्नजास्तुष्टिकाराश्च वीरहोत्रा ह्यवन्तयः ।
एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ॥५५॥
अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये ।
नीहारा हंसमार्गाश्च कुरवो गुर्गणाः खसाः ॥५६॥
कुन्तप्रावरणाश्चैव ऊर्णा दार्वाः सकृत्रकाः ।
त्रिगर्ता गालवाश्चैव किरातास्तामसैः सह ॥५७॥
कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ।
एतत्तु भारतं वर्षं चतुः संस्थानसंस्थितम् ॥५८॥
दक्षिणापरतो ह्यस्य पूर्वेण च महोदधिः ।
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ॥५९॥
तदेतद् भारतं वर्षं सर्वबीजं द्विजोत्तम ।
ब्रह्मत्वममरेशत्वं देवत्वं मरुतस्तथा ॥६०॥
मृगपश्वप्सरोयोनिस्तद्वत् सर्वे सरीसृपाः ।
स्थावराणाञ्च सर्वेषामितो ब्रह्मन् ! शुभाशुभैः ॥६१॥
प्रयाति कर्मभूर्ब्रह्मन् ! नान्या लोकेषु विद्यते ।
देवानामपि विप्रर्षे ! सदा एष मनोरथः ॥६२॥
अपि मानुष्यमाप्स्यामो देवत्वात् प्रच्युताः क्षितौ ।
मनुष्यः कुरुते तत्तु यन्न शक्यं सुरासुरैः ॥६३॥
तत्कर्मनिगडग्रस्तैः स्वकर्मख्यापनोत्सुकः ।
न किञ्चित् क्रियते कर्म सुखलेशोपबृंहितैः ॥६४॥
इति श्रीमार्कण्डेयपुराणेठनद्यादिवर्णनऽ नाम सप्तपञ्चाशोऽध्यायः
N/A
References : N/A
Last Updated : March 24, 2023
TOP